Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 587
________________ -पृ०२२६] उपासकाम्ययनटीका कारणम् न तु भवान् । यथा रवी उदिते कौशिकस्य घूकस्य स दोषः न तु रवेः । घूको रविं न प्रेक्षते तथा जनः न तुष्यति नासो दोषो जिनदेवस्य । लोकस्य मिथ्यात्वोदय एव तत्रापराध्यति ॥५०६॥ पुष्पमिति-देव अर्हन्, त्वदीयेति तव इमौ त्वदीयो तो च ती चरणी पादौ तयोः अर्चनस्य पुजनस्य यत्पीठं सिंहासनं तस्य संगात् संपर्कात् जगत्त्रयस्य त्रैलोक्यस्य । चुडामणीव भवति । तत्पुष्पं वन्द्यं भवति अतः जनः तत् मस्तके बिति । अतः अन्यशिरसि अपरेषां हरिहरादीनां मस्तके स्थितमपि अस्पृश्यं भवति । अत: ते तव । को नाम साम्यम् अनुशास्तु प्रतिपादयतु । कैः । रवीश्वराद्यैः सूर्यरुद्राद्यैः समतां प्रतिपादयतु । न कदापि सूर्यहरिहरादिभिः त्रैलोक्यवन्द्यस्य भगवतो जिनेश्वरस्य साम्यमस्तीति ज्ञेयम् ॥५०७॥ मिथ्येति-पुरा एतज्जगत् मिथ्या मिथ्यात्वम् अतत्त्वार्थश्रद्धानोपदेशः तदेव महान्धतमसं महागाढतिमिरं तेन आवतम् अत एव अप्रबोधं ज्ञानरहितम् । भवगर्तपाति संसाररन्ध्रे पातो यस्य तथाभूत् । परं तत्तस्मात्कारणात् हे देव, त्वमेव, भवानेव, दृष्टिहृदयाजविकासकान्तः दृष्टी नेत्रे, हृदयं मनः तान्येव अब्जानि कमलानि तेषां विकासे कान्तैः मनोहरैः । स्याद्वादेति-स्याद्वादरश्मिभिः स्वरूपचतुष्टयं पररूप चतुष्टयंचापेक्ष्य जातः सप्तभङ्गरज्जुभिः उद्धृतवान् भवगर्तपातात् उपरि निष्कासितवान् ।।५०८॥ पादाम्बुजद्वयमिति–देव विभो यस्य नरस्य स्वच्छे मनसि निर्मले हृदये । तव इदं पादाम्बुजद्वयं चरणकमलयुगलं समास्ते विद्यते। श्री लक्ष्मोः स्वयं तं भजति सेवते। स्वर्गमोक्षोत्यादिका मातेव इयं सरस्वती तं नियतं निश्चयेन गोते स्वोकरोति ।। ५०९ ॥ [ इत्यर्हद्भक्तिः ] [पृष्ठ २२९] [सिद्धभक्तिः] सम्यग्ज्ञानत्रयेणेति-कथंभूताः सिद्धाः मतिश्रुतावधीनां त्रयेण प्रविदितः ज्ञातः सकलज्ञेयजोवादितत्त्व विस्तारो यः ते। पुनः कथंभूताः। अथ अनन्तरम् । ध्यानवातः सकलं कर्मरजः ज्ञानावरणादिघातिकर्मचतुष्करजः प्रोद्धय निरस्य । प्राप्तकवल्यरूपाः लब्धशद्धात्मरूपाः संप्राप्तकेवलज्ञानरूपा वा । पुनः कथंभूताः सिद्धाः । अथ सत्त्वोपकारं प्राण्युपकृतिं कृत्वा ये त्रिभुवनपतिभिः धरणेन्द्रचक्रवतिस्वःपतिभिः दत्तयात्रोत्सवाः उद्घोषितनिर्वाणकल्याणाः । ते लोकत्रयस्य शिखरे अग्रे सिद्धपुरोनिवासिनः सिद्धाः वः युष्माकं सिद्धये मुक्त्यै सन्तु भवन्तु ॥५१०॥ दानज्ञानेति-आहारोषधावासशास्त्रभेदाच्चतुर्विधानि दानानि । ज्ञानम् आध्यात्मिकम्। चारित्रं सामायिकादिकम् । प्राणीन्द्रियसंयमो द्वो। तथा द्रव्यार्थिकपर्यायाथिको नयो एषां प्रारम्भः गर्भे यस्य तथाभूतं मनः कृत्वा । एषु विषयेषु मनः संस्थाप्य । तथा च अन्तरिन्द्रियं मनः बहिरिन्द्रियाणि च स्पर्शादीनि पञ्च । तथा पञ्चमरुतः प्राणापानसमानोदानव्यानाः तान् संयम्य वशीकृत्य पश्चात् तत् ध्यानं प्रविधाय । कथंभूतं ध्यानम्। वीतेति-वीतं नष्टं विकल्पानां रागद्वेषादीनां जालं यस्मात् । पुनः कथंभूतम् । भ्रस्यत्तमःसन्तति, भ्रस्यन्तो तमसाम् अज्ञानानां संततिर्यस्मात्तत् । अखिलं ध्यानं शुक्लाह्वयं चतुर्विधं प्रविधाय विचिन्त्य । ये च मुमुचुः ये मुनयः द्रव्यभावकर्मभ्यां मुक्ता बभूवुः । तेभ्योऽपि अञ्जलि: प्रसूतिबद्धः तान् सिद्धपरमेष्ठिनोऽपि वयं वन्दामहे ॥५११॥ इत्थमिति-इत्थम् एवम् । अत्र अस्मिन्लोके । ये मुनयः, कथंभूताः । धृतेति-धृता ध्याने अवधानद्धिः प्रणिधानवैपुल्यं यस्ते । कुत्र । समुद्रेति-समुद्रः । कन्दरः पर्वतदरो । सर: सरोवरम् । स्रोतस्विनी नदी। भूः भूमिः । नभ आकाशम् । द्वीपः जलवेष्टितभूमिः । अद्रिः पर्वतः । द्रुमः वृक्षमूलम् । काननं वनं तानि आदी येषां तेषु। धृतध्यानस्थिराः त्रिषु कालेषु भूतभविष्यद्भवत्सु कालेषु मुक्तिसंगमे मुक्तिसंगसुखसेविनः भव्येषु रत्नाकराः मुनयः रत्नत्रयमङ्गलानि ददतां समर्पयन्तु ॥५१२॥ [ इति सिद्धभक्तिः ] [चैत्यभक्तिः] भौमेति-भीमाः भवनवासिनो देवाः । व्यन्तराः विविधदेशान्तराणि येषां निवासास्ते व्यन्तरदेवाः। मां मनुष्याः सार्धद्वोपद्वितयवर्तिनः, भास्करसुराः चन्द्रसूर्यादयः पञ्चविधा ज्योतिष्काः। सुराः स्वर्गवासिनो देवाश्च । एषां श्रेणोविमानाभिताः पंक्तिबद्धविमानेषु आवासेषु श्रिताः स्थिताः पुनः कथंभूताः आकृतीः । स्वयॊतिरिति-स्वः स्वर्गः ज्योतिः ज्योतिर्मण्डलस्थानम् कुलपर्वतान्तरधरा हिमवदादयः कुलपर्वताः अन्तरघरा व्यन्तराणां निवासभूमिः । रन्ध्रप्रबन्धः भवनवासाः पंक्तिबद्धाः । एषु स्थितिः यासां ताः । पुनः कथंभूताः। जिनेन्द्रेति-जिनेन्द्रा अर्हन्तः। सिद्धाः मुक्ताः । गणभृतः आचार्याः। स्वाध्यायिनः उपाध्यायाः। साधवः साधुपरमेष्ठिनश्च एषाम् आकृतीः प्रतिमाः अहं वन्दे । पुनः कथंभूताः । तत्पुरेति-तेषां भौमादिदेवानां ५६

Loading...

Page Navigation
1 ... 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664