Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 585
________________ -पृ० २२६] उपासकाध्ययनटीका ४६३ चारित्रम् आश्रये अवलम्बे ।।४९२॥ जिनेति-जिनोऽर्हन्, सिद्धः मुक्तः, सूरिः आचार्यः, देशकः उपाध्यायः, साधुः साधुपरमेष्ठी, श्रद्धानं सम्यक्त्वम्, बोधो ज्ञानम्, वृत्तं चारित्रं तेषाम् अष्टतयोम् अष्टप्रकाराम् इष्टि पूजां कृत्वा ततः युक्त्या स्तवं विदधामि स्तुति करोमि ॥४९३॥ (प्रथमं तावत् सम्यग्दर्शनं स्तूयते । ) तत्त्वेष्विति-तत्त्वेषु जीवादिसप्तपदार्थेषु प्रणयं रुचिं जिनः परस्य मनसः तत्त्वतत्परस्य मनसः चित्तस्य श्रद्धानं सम्यग्दर्शनम् उक्तम् । एतत् निसर्गाधिगमाभ्यां द्विभेदम्, उपशम-क्षयोपशम-क्षयभेदात्त्रिभेदम्, आज्ञामार्गउपदेश-सूत्र-बोज-संक्षेप-विस्तार-अर्थ-अवगाढ-परमावगाढेति भेदात् दशविषम् । चतुभिः गुणः प्रशम-संवेगानुकम्पा-आस्तिक्य: व्यक्तं प्रकटीभूतम्, निःशङ्कादिभिरष्टाङ्गम् । भुवनत्रयाचितं त्रैलोक्यपूजितम् इदं त्रिभिः मूढः देव-लोक-पाखण्डिभिः अपोढं रहितम् । हे देव जिनेन्द्र, संसृतिः संसारः सा एव लता वल्ली तस्याः उल्लासः विकासः, तस्य अवसानम् अन्तः स एव उत्सवः आनन्दः यस्य तत् सम्यग्दर्शनम् अहं चित्ते दधामि धारयामि ॥४९४॥ ते कुर्वन्त्विति-हे देव जिनेन्द्र, एषा रुचिः सम्यग्दर्शनं येषु जीवेषु न विद्यते ते जीवाः प्रायः बहुशः जन्मच्छिदः संसारच्छेदकाः न भवन्ति । कथंभूता रुचिः । तवेति-तव भवतः वचःश्रद्धा ययार्थजीवादिवस्तुप्रतिपादके वचने श्रदारूपा, पुनः कथंभूता अवधानोधुरा अवधानं प्रणिधानं तेन उद्धरा उत्कटा जिनप्रोक्तमेव तत्त्वं सत्यं नान्येषाम् इति दृढाभिनिवेशयुक्ता । पुनः कथंभूता। दुष्कर्मेति-दुष्कर्मणां ज्ञानावृत्यादीनाम् अशुभकर्मणां ये अङ्कराः प्ररोहाः तेषां कुम्जः समूहः तस्य वज्रदहनः वज्राग्निरिव तस्य द्योतः कान्तिः तेन अवदाता शुद्धा निर्मला । येषु इयं श्रद्धा न विद्यते ते दुर्धरधियः दुःखेन ध्रियते इति दुर्धरा धीर्येषां ते दुर्धरधियः अतीव चञ्चलबुद्धयः ते नरा तपांसि कुर्वन्तु । ज्ञानानि संचिन्वताम् ज्ञानोपचयं कुर्वन्तु । वा अथवा वित्तं धनं वितरन्तु ददतु । तदपि तथापि प्रायः जन्मच्छिदः न भवन्तीति विज्ञेयम् ॥४९५॥ [पृष्ठ २२६] संसारेति-हे नाथ स्वामिन्, यः कृती पुण्यवान्, हृदि मनसि सम्यक्त्वरत्नं सम्यग्दर्शनमणि धत्ते धारयति, तस्य नरस्य स्वर्गापवर्गश्रियः स्वर्गमुक्तिरमाः सुलभाः सुप्रापाः भवन्ति । कथंभूतं सम्यक्त्वरत्नम् । संसारेति-संसार एव अम्बुधिः समुद्रः तस्य उल्लंघने सेतुबन्धं सेतुरचनातुल्यम् । पुनः कथंभूतम् । असमेति-समं युगपत् न समम् असमं क्रमेण प्रारम्भः उत्पत्तिर्यस्य तच्च तल्लक्ष्मीवनं रमाक्रीडारामः, तस्य प्रोल्लासने विकासने अमृतवारिवाहम् पीयूषमेघसदृशम् । पुनः कथंभूतम् । अखिलत्रैलोक्यचिन्तामणिम् । सकलत्रैलोक्ये चिन्तामणि चिन्तितवस्तुदानरत्नसमम् । पुनः कथंभूतम् । कल्याणेति-कल्याणानि गर्भावतारादिनिर्वाणान्ताः पञ्चमहोत्सवाः तान्येवाम्बुजखण्डानि कमलवन्दानि तेषां संभवसरः उत्पत्तिसरोवरम् ॥४९६ ॥ [इति दर्शनभक्तिः] [ज्ञानभक्तिः ] अत्यल्पेति-इयम् अक्षजा मतिः इन्द्रियानिन्द्रियजा बुद्धिः अत्यल्पायतिः अत्यल्पा अतिस्तोकः आयतिः भविष्यत्कालो यस्याः सा मतिज्ञानं जातमपि कालान्तरस्थायि न भवति । विस्मृतिशीलं हि तत् । अवधिः बोधः अवध्याख्यं ज्ञानं रूपिद्रव्यविषयम् । सावधिः द्रव्यक्षेत्रकालभावमर्यादायुतम् । साश्चर्यः विस्मयोत्पादकं मनःपर्ययः तन्नामकं ज्ञानं परमनसि स्थितं अर्थ प्रत्यक्षतया जानाति अत एव साश्चर्य तत् परं स्वल्पः सः क्वचिदेव योगिनि कस्मिश्चिदेव सप्तविधान्यतमद्धिधारके मुनिवर्ये विद्यते । अद्यास्मिन् पञ्चमकाले पुनः दुष्प्रापं लब्धं नितराम् अशक्यम् । इदं केवलं ज्योतिः केवलज्ञानं प्रकाशस्वरूपं कथागोचरं प्राचीनमहापुरुषकथाविषयमेव । तु परम् । निखिलार्थगे सुलभे श्रुते सकलजीवादिपदार्थविषये सुप्रापे श्रुतज्ञाने माहात्म्यं प्रभावं किं वर्णयामः । श्रुतज्ञानस्य माहात्म्यं नास्माभिवर्णयितुं शक्यते इति भावः ॥४९७॥ यद्देवैरिति-यत्स्यावादसरोरुहं तच्छ्रुतज्ञानकमलं मम मनोहंसस्य मन एव हंसः सितच्छदस्तस्य मुदे भूयात् । आनन्दं जनयत्विति भावः । कथंभूतं तत् यद्देवैः शिरसा धृतम् । गणधरैः कर्णावतंसीकृतं चतुर्ज्ञानधारिभिस्तीर्थकर मुख्यशिष्यैः कर्णभूषणीकृतम् । योगिभिः चेतसि मनसि स्थापितम् । पुनः नृपवरैः माण्डलिकमहामाण्डलिकादिभिन पेश्वरः आघ्रातः सारो यस्य, स्याद्वादसरोरुहस्य नासिकया गन्धो घ्रातः । विद्याधराधीश्वरः नभश्चरभूपैः हस्ते, दृष्टिपणे मुखे च निहितम् स्थापितम् ॥४९८॥ मिथ्यातम इति १. ब. क. पुस्तकयोः तत्तद्वित्रिदश इति पाठः।

Loading...

Page Navigation
1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664