Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 589
________________ -पृष्ठ २३२] उपासकाध्ययनटीका ४६७ उपरतधियः सर्वसंकल्पशान्तः सर्वेषां संकल्पानां शान्तेः विनाशात् । अहमेषां स्वामी मम च इमे स्वम् इति संकल्पव्यपगमात् । ब्रह्मधामामृताप्ते : येषां ऊमिस्मयविरहिता ब्रह्मण आत्मनः धाम स्थानं यत् अमृतं स्वात्मानुभूतिः तस्य आप्तेर्लाभात् मिस्मयविरहिता- शोकमोही जरामृत्यू क्षुत्पिपासे इति षडूमयः । स्मयाश्च ज्ञानपूजाकुलजातिबलद्धितपोवपुषां मानित्वं स्मयाः अष्टविधाः । षडूमिभिः अष्टविधस्मयश्च विरहिताः रहितत्वम् लब्धम् । येषां च आत्मात्मीयानुगमविगमात् शुद्धबोधाः वृत्तयः संकल्पविकल्पानाम् अनुगमस्य उत्पत्तेविंगमात् येषां वृत्तयः मनोविमर्शाः शुद्धबोधाः शुद्धारमस्वरूपज्ञानयुक्ताः सन्ति । तेषां चरणकमलानि पुष्पः शिवाय मोक्षाय अर्चयेयं पूजयेयम् ॥५२०॥ [पृष्ठ २३२ ] येषामङ्गे इति--येषां सूरीणाम् अङ्गे मलयजरस: चन्दनगन्धः संगमः । लेपनं कर्दमैः मुदा लेपनं वा समानः हर्षाय विषादाय वा क्रमशो न भवति । स्त्रीविव्वोकः स्त्रीणां शृङ्गारभावजा क्रिया विन्वोकः अभिमतवस्तुप्राप्ती अपि गर्वादनादरः । सापराधस्य संयमनं ताडनं च विश्वोकः । एताभिः स्त्रीणां शृङ्गारक्रियाभिः अनुषङ्गःसंबन्धः समानः प्रतिभाति । पितृवनेति-पितृणां वनमिव श्मशानंतत्र चिताभस्मभिः चीयते श्मशानाग्निरस्याम् इति चिता तस्या भस्मभिः भसितः वा अनुषतः लिप्तिः समानः न प्रीत्यप्रोत्यं भवति । मित्रे शत्रावपि च विषये अनुषङ्गः संबन्धः निस्तरङ्गः तरङ्गः मनोवृत्तिः हर्षविषादात्मिका निर्गतौ तरङ्गी हर्षविषादी यस्मादसो निस्तरङ्गः मित्रे दृष्टे न हर्षः स्यात् अरो दृष्टे न खिन्नता। तेषां सूरोणां पूजाव्यतिकरविधौ पूजीत्सवविधौ एष हविनैवेद्यं वः युष्माकं भूत्यै वैभवदानाय अस्तु भवतु ॥५२१॥ योगाभोगाचरणचतुरे इति-येषां सूरीणां स्वान्ते मनसि । कथंभूते । योगेति-योगानाम् आतापनाभ्रावकाशवर्षायोगानाम् आभोगो विस्तारः तस्य आचरणं प्रवर्तनं तत्र चतुरे कुशले । पुनः कथंभूते। दीर्णेति-दीर्णः विनष्ट: • कन्दर्पस्य मन्मथस्य दर्प: मदो येन तस्मिन् । पुनः कथं मूते ध्वान्तति-ध्वान्तम् अज्ञानं तस्य उद्धरणं निरसनं तत्र सविधे तत्परे । पुनः कथंभूते ज्योतिरिति-ज्योतिष: स्वानुभूतिज्ञानस्य उन्मेषः उद्भूतिः तं भजतीति ज्योतिरुन्मेषभाक् तस्मिन् स्वान्ते स्वानुभूतिज्ञानसंपन्ने सतीति भावः । क्षेत्रनाथः क्षेत्र देहः तस्य नाथः स्वामी आचार्याणाम् आत्मा । अन्तः निजस्वरूपे उच्चैः अत्यन्तम्, अमृतभृत इव सुधापूर्ण इव संमोदेत ह्लादेत । तेषु क्रमपरिचयात् चरणपूजनात् प्रदीपः कः श्रिये लक्ष्म्य संपदे स्यात् भवेत् ॥५२२॥ येषां ध्येयेति-येषां सूरीणां बोधाम्मोधिः सम्यग्ज्ञानसागरः कथंभूतानां सूरीणाम् । ध्येयाशयेति-ध्येयो ज्ञानदर्शनलक्षणो निजात्मा तस्मिन ध्येये आशयः विमर्श कुर्वन्मनः स एव कुवलयं कमदं तस्य आनन्द प्रमोदे चन्द्रोदयतल्यानां । येषां सूरीणां ज्ञानाब्धिः प्रमदसलिलैः आनन्दनीरः आत्मावकाशे निजस्वरूपे नैव माति ॥ बहिः नानाविधलब्धिः बहिरुत्पूरो भवति । एतां अखिलेति-सकलजगद्विभवरमां समवसरणादिरूपां प्राप्यापि येषां चेतः मनः निःस्पृहम् अस्ति, तेषाम् अपचितो पूजायां धूपः वो युष्माकं श्रेयसे मुक्तये अस्तु ॥५२३॥ चित्ते चित्ते इति-चित्ते मनसि चित्ते आत्मनि विशति सति प्रवेशं कुर्वति सति । करणेषु स्पर्शनादिषु इन्द्रियेषु स्वान् विषयांस्त्यक्त्वा अन्तरात्मन्येव स्थितेषु । स्रोतस्यूते स्रोतोभिः स्पर्शनादिविषयैः स्यूते अनुषक्त पुंसि । बहिः बाह्ये अखिलतः सर्वशः व्याप्तिशून्ये बाह्यपदार्थविमर्शशून्ये सति । येषां ज्योतिः ज्ञानं किमपि अनिर्वचनीयरूपेण परमानन्दसन्दर्भगर्भ परमश्चासौ आनन्दश्च परमानन्दः विषयजादानन्दात् आत्मानन्दः स्वानुभूतिरूपः अपूर्वसुखजनकत्वात् परमानन्द उच्यते तस्य सन्दर्भः ज्ञानेन सह एकलोलोभाव: स गर्भे यस्य तथाभूतं ज्ञानज्योतिः जन्मच्छेदि जन्महन्तृ जन्मनः भवस्य हन्तृ प्रभवति समर्थं जायते । तेषु आचार्येषु फलैः सपर्या पूजां कुर्मः ॥५२४॥ वाग्देवतावर इति-हे सूरिवर, तत् ततः चरणार्चनेन तव पादपूजनेन अयं पुष्पाञ्जलि: इयं कुसुमानां प्रसृतिः । उपासकानाम् आचार्यभक्तानां वाग्देवतायाः सरस्वत्याः वरः इव वाञ्छिताभिलाष इव । पुनः कथंभूतः आगामिन्यां तत्फलप्राप्ती पुण्यपुञ्ज इव सुकृतसमूह इव । पुनः कथंभूतः । लक्ष्मीति-लक्ष्म्याः कटाक्षा एव मधुपा भृङ्गाः तेषां आगमने एकहेतुः मुख्य कारणम् । भवतु अस्तु ॥५२५॥ ( इत्याचार्यभक्तिः ) इत्युपासकाध्ययने समयसमाचारविधिर्नाम पञ्चत्रिंशत्तमः कल्पः ॥३५॥

Loading...

Page Navigation
1 ... 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664