Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
-पृ० २३६] उपासकाध्ययनटीका
४६६ भूः स्वाहा । इति जिनाभिषेकप्रस्तावनापुष्पाञ्जलिं क्षिपेत् । ] पुराकर्ममन्त्राः--ॐ ह्रीं नमः सर्वज्ञाय सर्वलोकनाथाय धर्मतीर्थकराय श्रीशान्तिनाथाय परमपवित्रेभ्यः शुद्धेभ्यः, नमो भूमिशुद्धिं करोमि स्वाहा । इत्यनेन भूमिशोधनम् । ॐ ह्रीं अग्नि प्रज्वालयामि निर्मलाय स्वाहा, ॐ ह्रीं वह्निकुमाराय स्वाहा, ॐ ह्री ज्ञानोद्योताय नमः स्वाहा । इति अग्निज्वालनम् । ॐ ह्रीं श्रीं क्षीं भूः नागेभ्यः स्वाहा । इति नागतर्पणम् । ॐ ह्रीं क्रों दर्पमथनाय नमः स्वाहा । इति ब्रह्मादिदशदिग्बलिः । ॐ ह्रीं स्वस्तये कलशस्थापनं करोमि स्वाहा । ॐ ह्रां ह्रीं हूं. हे हों नेत्राय संवौषट् कलशार्चनं करोमि स्वाहा। [इति पुराकर्म । ] ३. अथ स्थापना । यस्य स्थानमिति-यस्य प्रभोः स्थानं निवासः । " ते-त्रिभुवनस्य जगत्त्रयस्य शिरः सर्वार्थसिद्धिविमानं तस्योपरि शेखरमिव मुकुटमिव सिद्धशिला वसुधा तस्या अग्रे उपरि निसर्गात् स्व. भावात् यस्य प्रभोः स्थानं निवासः विद्यते । तस्य प्रभोजिनराजस्य अमर्त्यक्षितिभूति अमर्त्यानां देवानां क्षितिभूति क्षितिं पृथ्वीं बिभर्तीति क्षितिभून पर्वतः तस्मिन् देवपर्वते मेरो स्नानपीठी स्नानासनं भवेत् इत्यस्मिन् विषये अद्भुतं न। हे जिन, ते सवनसमये अभिषेककाले लोकानन्दामृतजलनिधेः लोकानां भव्यानाम् आनन्दक्षीरसमुद्ररूपस्य तव। एतद्वारि क्षीरसमुद्रजलम् । सुधात्वम् अमृतावस्थां धत्ते तत्र कः चित्रीयते आश्चर्ययुक्तो भवति । न कोऽपि ॥५३५॥ तीर्थोदकैरिति-मणिसुवर्णघटोपनीतः रत्नहेमकलश: आनीतैः । तीर्थोदकैः तीर्थजलैः। पवित्रवषि पतशरीरे। जल: प्रक्षालिते इति भावः । पुनः कथंभूते प्रविकल्पिताधं प्रविकल्पितः दत्तः अर्को यस्मै तस्मिन् पीठस्यापि अर्को देयः इति भावः । पुनः कथंभूते पीठे लक्ष्मीतिलक्ष्म्याः श्रुतस्य च आगमनं येन भवेत् तथाभूतश्रीकारहीकारबीजाक्षरयुते विदर्भगर्भे अग्रसहिता दर्भा विदर्भास्ते गर्भे यस्य तथाभूते पीठे। भुवनाधिपति त्रिलोकेशं जिनेन्द्रं संस्थापयामि ॥५३६॥ [ इति स्थापना ] स्थापनाया मन्त्रा:-ॐ ह्रीं अर्ह क्ष्म उठ श्रीपीठं स्थापयामि स्वाहा । ॐ ह्रां ह्रीं हूं ह्रौं ह्रः नमोऽर्हते भगवते श्रीमते पवित्रजलेन श्रीपीठप्रक्षालनं करोमि स्वाहा । ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्राय स्वाहा । इति श्रीपीठमभ्यर्चयेत् । ॐ ह्रीं श्रीलेखनं करोमि स्वाहा । ॐ ह्रीं श्रीं क्लीं ऐं अहं श्रीवणे प्रतिमास्थापन करोमि स्वाहा । ४. संनिधापनम् सोऽयमिति-येयम् अर्चा जिनप्रतिमा सोऽयं जिनः समवसरणस्थः । ननु एतत् पीठं सुरगिरिः मेरुः। एतानि सलिलानि कुम्भभूतानि साक्षात् दुग्धजलधेः क्षीरसमुद्रस्य नीराणि । हे जिन, तव सवप्रतिकर्मयोगात तवाभिषेककार्यसंबन्धात अहम् इन्द्रः सौधर्मेन्द्रः । ततः इयं महोत्सवश्रीः कथं न पूर्णा अभिषेकमहोत्सवस्य लक्ष्मीः शोभा कथं न पूर्णा भवेत् ॥५३७॥ [इति संनिधापनम् ] [ संनिधापनमन्त्रः-श्रीमण्डपादिषु शक्रमण्डपादिभावस्थापनार्थ जात्यकुङ्कुमालुलितदर्भदूर्वापुष्पाक्षतं क्षिपेत् ] अथात: ५. पूजाविधानम् । यागेऽस्मिन् अस्मिन् जिनयज्ञे, यूयं सर्वे आगत्य विघ्नशान्ति कुरुध्वम् । इत्यनेन पद्यन लोकपाला ह्वानम् । नाकनाथ नाक: स्वर्गः तस्य नाथः पतिः स्वर्गेन्द्र इति भावः । नाकनाथ इति संबोधनकवचनम् । अग्रेऽपि तदेकवचनान्येव । यथा ज्वलन अग्ने । पितृपते यम । नैगमेय हे नैऋत । प्रचेत: वरुण । वायो। रैद धनपते, कुबेर । ईश शंकर। शेष हे नागनायक, उडुप उडूनि नक्षत्राणि पातीति उडुपः चन्द्रः तत्संबोधनं हे उडुप चन्द्र । तथा ग्रहायाः सोम-मङ्गल-बुध-गुरु-शुक्र-शनैश्चर-रवि-राहु-केतवः ग्रहाः अग्रे येषां ते सर्वे उपर्युक्ता लोकपालाः । यूयमेत्य आगम्य । भूः स्वः स्वधाद्यैः मन्त्रः सह अधिगतबलयः प्तिोपहाराः सन्तः । स्वासु पूर्वादिषु दिक्ष उपविष्टाः भवत । क्षेमदक्षाः रक्षणचतुराः भवन्तः क्षेपीयः शीघ्र जिनसवोत्साहिनां जिनयज्ञे उत्साहशालिनाम् उपासकानां विघ्नशान्तिम् अन्तरायोपशमं कुरुत ॥५३८॥ दिक्पालमन्त्रः-ॐ ह्रीं क्रों प्रशस्तवर्णसर्वलक्षणसंपूर्णस्वायुधवाहनचिह्नसपरिवारा इन्द्राऽग्नि-यम-नैऋतवरुण-वायु-कुबेरेशान-धरणेन्द्र-सोमनामानः दशलोकपाला आगच्छत आगच्छत संवौषट् । स्वस्थाने तिष्ठत तिष्ठत ठः ठः । ममात्र संनिहिता भवत भवत वषट् । इदमयं पाद्यं गृहीध्वं ॐ भूर्भुवः स्वः स्वाहा स्वधा । इति इन्द्रादिदशलोकपालपरिवारदेवतार्चनम् । ] [ इति लोकपालाहानम् ]
[पृष्ठ २३६ ] नोराजनावतरणम् देवेऽस्मिन्निति-अस्मिन्देवे जिनेश्वरे विहितार्चने कृतपूजने स्तुतिपाठमङ्गलशब्दः प्रारब्धगानस्वने आतोद्यः वाद्यः सह निनदति ध्वनि कुर्वति । प्राङ्गणे जिनमन्दिरस्याजिरे

Page Navigation
1 ... 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664