Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
-पृ० २४१]
उपासकाम्ययनटीका वृन्दम् येन तं जिनम् । श्रीति-श्रीरेव मानसं तन्नामकं सरोवरम् तत्र कलहंसं मधुरशब्दं कुर्वाण: हंस इव जिनं कुसुमसरैः पुष्पहारैः अर्चयामि ॥५५४॥ [मन्त्रः-ॐ ह्रीं अर्हन् सर्वनृसुरासुरपूजितम्यः स्वाहा पुष्पाणि ।]
[पृष्ठ २४०] नैवेद्यपूजा अर्हन्तमिति-हविषा नैवेद्येन अर्हन्तम् आराधयामि । कथंभूतम् अर्हन्तम्। अमितनीतिम् अमिता अनन्ताः नीतयः नयाः यस्य तम् अनन्तनयस्वरूपप्रतिपादकम् । निरञ्जनम् अञ्जनम् ज्ञानावरणादि कर्म तस्मात निष्क्रान्तो निरञ्जनः तम् । पुनः कथंभूतम् । आधिदावाग्नेः 'आधिर्ना मानसी व्यथा' इत्यमरः । आधय एव दावाग्निवनाग्निस्तस्य मिहिरं प्रशमनकरणे मेघम् । पुनः कथंभूतम् । मुक्तिस्त्रीरमितमानसमनङ्गम् मुक्तिस्त्रिया रमितं स्वस्मिन् अनुरक्तं कृतं मानसं यस्य तम् ॥५५५।। मन्त्र:-ॐ ह्रीं अर्हन् नमोऽनन्तज्ञानेभ्यः स्वाहा नैवेद्यम् । दीपपूजा भक्त्येति-जिनं दोपैः उपचरामि । कथंभूतम् । भक्त्या गुणानुरागपरिणामेन । आनता ईषत् नम्रीभूता ये अमरा देवास्तेषाम् आशयाः मनांसि तान्येव कमलवनानि तेषां यत् अरालं तिमिरम् उत्कटम् अज्ञानम् अविकासित्वं वा तद्विनाशे मार्तण्डं रविसदृशम् । पुनः कथंभूतम् । सकलसुखानाम् अनन्तसौख्यानाम् आरामः उपवनभतः स चासो कामदः ईप्सितानां दायकः । अकामं न काम इच्छा यस्य तम् ॥५५६॥ मन्त्रः-[ ॐ ह्रीं नमोऽनन्तदर्शनेभ्यः स्वाहा दीपम् । ] धूपपूजा अनुपमेतिधूपैजिनं यजामहे । कथंभूतम् । अनुपमेति-अनुपमम् अप्रतिमं केवलज्ञानं वपुश्च शरीरं यस्य तम् । सकलेति-सकलाश्च ताः कलाः मतिज्ञानादयो अंशाः तेषां विलयः नाशः । क्षायोपशमिकज्ञानभेदाः केवलज्ञाने समुत्पन्ने सति नावतिष्ठन्ते । संक्षीणसकलज्ञानावरणे 'भगवति अर्हति कथं क्षायोपशमिकानां ज्ञानानां संभवः । न हि परिप्राप्तसर्वशुद्धो पदे प्रदेशाशुद्धिरस्ति । अतः सकलकलाविलयरूपं केवलज्ञानं तस्मिन्वर्तते यदात्मरूपं य आत्मस्वभावस्तत्र तिष्ठतीति सकलकलाविलयतिरूपस्थम् । पुनः कथंभूतम् । योगावगम्यनिलयम् । योगेन आत्मध्यानेन अवगम्यो निलयः निवासः मोक्षो यस्य तम् । पुनः कथंभूतम् । निखिलगं सकलवस्तुषु ज्ञानेन गच्छति इति निखिलगः तम् । विश्वतत्त्वानां ज्ञातारम् इति भावः ॥५५७॥ मन्त्र:-[ॐ ह्रीं अहम नमोऽनन्तवीर्येभ्यः स्वाहा, धूपम् । ] फलपूजा स्वर्गापवर्गेति-फलैजिनपतिमुपासे । कथंभूतम् जिनम् । स्वर्गेति-स्वर्गः सुरलोक: अपवर्गो मोक्षः तयोः संगति प्राप्ति विधायिनं कुर्वन्तम् । पुनः कथंभूतम् । व्यस्तेति-व्यस्ता विनाशिता जातिजन्म मृतिमरणम्, दोषाश्च क्षुत्पिपासादयो येन तम् । पुनः कथंभूतम् । व्योमेति-व्योमचराः विद्याधराः अमराः चतुणिकायदेवाः तेषां पतयः विद्याधरचक्रवतिनो देवेन्द्राश्च तैः . स्मतं चिन्तितं जिनं फलै: उपासे पूजये ॥५५८॥ [मन्त्र:-ॐ ह्रीं अर्हन नमोऽनन्तसौख्येभ्यः फलानि । अर्घम अम्भश्चन्दनेति-अम्भः जलम् । चन्दनं तन्दुलोद्गमहविर्दीपैः उद्गमाः पुष्पाणि हविर्नैवेद्यम् एभिव्यः । तथा सधूपैः फल: धूपेन सहितैः फलै: अष्टद्रव्यैः । अचित्वा पूजयित्वा । कं जिनपतिम् । कदा स्नानोत्सवानन्तरम् कथंभतं जिनम त्रिजगदगरुम त्रैलोक्यनाथम । जिनं पजयित्वा स्तौमि स्तुवे । प्रजपामि तं प्रभम, चेतसि दधे । तदनन्तरं श्रुताराधनं श्रुतस्य जिनवाण्याः आराधनं पूजनम् कुर्वे । त्रैलोक्यप्रभवं तन्महं तत्पूजनम्, कालत्रये श्रद्दधे ।।५५९।। [मन्त्रः-ॐ ह्रीं अर्हन्नमः परममङ्गलेभ्यः स्वाहा अय॑म् ।] अष्टमङ्गलैः पूजनम् यज्ञैरितिअष्टविषपूजनैः मुदा आनन्देन देवं निरुपास्य पूजयित्वा। पुनः पुष्पाञ्जलिसमूहेन पूरितपादासनं जिनानाम् इन स्वामिनम् श्वेतातपत्रचमरीरुहदर्पणाद्यैः छत्रत्रयचामरादर्शाद्यः आराधयामि ॥५६०।। पुष्पाञ्जलिः । [मन्त्र:ॐ ह्रीं अर्हनमो ध्यातृभिरभीप्सितफलदेभ्यः स्वाहा । पुष्पाञ्जलिः । इति पूजा।]
[पृष्ठ २४१] ६. पूजाफलम् । भक्तिरिति-जिनचरणयोः जिनपदयोः नित्यं भक्तिः सदा भक्तिरुपासना। सर्वसत्त्वेषु चतसृषु नरकादिगतिषु सीदन्तीति दुःखमनुभवन्तीति सत्त्वाः प्राणिनः । सर्वे च ते सस्वाश्च सर्वसत्त्वाः सकलजीवाः। तेषु मैत्री तेषु दुःखानुत्पत्तो अभिलाषः । सर्वत्र भूयादित्यनेन संबन्धः । सर्वातिथ्ये सर्वेषाम् आतिथ्ये गृहागते सकलाभ्यागतजने मम विभवधीः मम धनविनियोगो भवेदिति धीरभिप्रायो भूयात् । अध्यात्मतत्त्वे अध्यात्मशास्त्रनिगदितात्मस्वरूपे । मम बुद्धिर्भूयात् वर्तताम् । सद्विद्येषु सती प्रशस्ता लोके धर्मोपदेशिनी विद्या येषां ते सद्विद्यास्तेषु प्रणयपरता प्रीतितत्परता। परार्थे परोपकारे चित्तवृत्तिः मनोऽभिप्रायः । हे भगवन, यावत्कालं त्वदीयं तव संबन्धि, घाम तेजः भवति तावत्कालं मम एतत् पद्यकथितं ,

Page Navigation
1 ... 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664