Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 592
________________ ४७० पं० जिनदासविरचिता [पृ० २३७रङ्गवल्यादिभिः भव्यानां मनांसि आनन्दयति सति । जिनपतेः अहं नीराजनावतरणक्रियां प्रस्तुवे प्रारभे । कैः मृत्स्नादिभिः मत्सा प्रशस्ता मृत्तिका तया गोमयस्य पिण्डैः भूम्यपतितः प्रशस्तैः गोमयलड्डुकैः भूतिपिण्ड : गोमयोद्भूतैः अग्निप्लुष्टः भस्मभिः हरिता दूर्वा दर्भाः कुशाः प्रसूनानि पुष्पाणि अक्षता अखण्डतण्डुलाः एभिः तथा सचन्दनः अम्भोभिः चन्दनगन्धसहितैः जिनपतेः अर्हतः नोराजनां प्रस्तुवे अवतरणं कुर्वे नीरस्य शान्त्युदकस्य अजनं क्षेपणम् अत्रेति नीराजना ताम् । नीराजनामन्त्रः-ॐ-हीं क्रों समस्तनीराजनद्रव्यैः नीराजनं करोमि । दुरितमस्माकमपहरतु भगवान् स्वाहा। इति मृत्स्नागोमयादिपवित्रद्रव्यैः नीराजनम् । इति नीराजनावतरणम् ।।५३९।। जलाभिषेकः पुण्यद्रम इति--अयं चिरं पुण्यद्रुमः पुण्यवृक्षः नवपल्लवाश्रिया प्रतिभाति चेतःसरः मनःसरोवरं प्रमद एव मन्दम अचञ्चलं सरोज कमलं गर्भे यस्य तत । मम वागापगा मम वचनसरित् दुस्तरतीरमार्गा दुःखेन तरीतुं योग्यः तीरस्य मार्गो यस्याः सा । जिनपतेः त्रिजगत्प्रमोदः त्रिलोकहर्षकारकैः स्नानामृत: भातीति संबन्धः । अयं मम पुण्यद्रुमः, मम चेतःसरः, मम वागापगा च जिनपतेः स्नानामृतैः भातीति । इति जलाभिषेकः ॥५४०॥ जलाभिषेकमन्त्र:-ॐ ह्रीं स्वस्तये कलशोढरणं करोमि स्वाहा । ॐ ह्रीं श्रीं क्लीं ऐं अर्ह वं मं हं सं तं पं वं वं मं मं हं हं सं सं तं तं पं पं झं झं इवी इवीं वीं क्ष्वों हं सः । त्रैलोक्यस्वामिनो जलाभिषेकं करोमि नमोऽहते स्वाहा। रसाभिषेकः द्राक्षेति-द्राक्षा गोस्तनीफलानि खजुराणि स्वादुमस्तकपित्तजित्फलानि, चोचानि-नालिकेरफलानि, इक्षः रसाल: प्रसिद्धः प्राचीनामलकानि जोर्णधात्रीफलानि तेभ्य उद्भवो येषां तः राजादनानि क्षीरभुत्फलानि आम्राणि चूतफलानि पूगानि क्रमुकफलानि एभ्य उत्थतिः रस: जिनं स्नापयामि जिनाभिषेकं करोमि ।।५४१।। ॐ ह्रीं श्रीं क्लीं ऐं अर्ह वं मंहं सं तं ५ वं वं मं मं हं हं सं सं तं तं पं पं झं झंइवी इवीं क्ष्वी क्ष्वी हं स: त्रैलोक्यस्वामिनो रसाभिषेकं करोमि नमोऽहते स्वाहा । इति रसाभिषेकः । घृताभिषेक: आयुरिति-जिनेश्वरस्य हैयंगवीनसवनेन शस्तनदिनगोदोहसंजातः घृतः सवनेन अभिषेकेण प्रजासु परमं दीर्घम् आयुः भवतात् भवतु । धर्मावबोधसुरभिः धर्मज्ञानेन सुरभिः सुगन्धयुक्ता प्रजा भवतात् । विनेयजनता तत्त्वार्थोपदेशश्रवणग्रहणाभ्यां विनीयन्ते पात्रीक्रियन्ते इति विनेयाः विनेयाश्च ते जनाश्च विनेयजनाः तेषां समूहः विनयजनता। कामं नितरां पुष्टि वितनोतु धारयतु ।।५४२।। घृताभिषेकमन्त्र:-ॐ ह्रीं श्रीं"त्रैलोक्यस्वामिनो घृताभिषेकं करोमि नमोऽहते स्वाहा। दुग्धाभिषेक: येषामिति-ते नराः भव्यजनाः धारोष्णपयःप्रवाहवलं धाराभिः स्तननिर्गताभिः उष्णं च तत् पयः दुग्धं तस्य प्रवाहवत् धवलं शुक्लम् । जनं वपुः जिनस्य वपुः शरीरम् । ध्यायन्तु स्मरन्तु चिन्तयन्तु । येषां नृणां नराणां काम एव भुजङ्गः सर्पः तस्य निर्विषविधी निर्विषीकरणे। बुद्धिप्रबन्धः बुद्धेः प्रबन्धः सातत्यम् । येषां जन्मजरामृतीनां व्युपरमाय विनाशनाय ध्यानस्य प्रपञ्चः विस्तारस्तस्याग्रहः विद्यते ते ते नरा: जैनं वपुश्चिन्तयन्तु येषाम् आत्मविशुद्धति-आत्मनः जीवस्य विशुद्धबोधः निर्मलं ज्ञानं तस्य विभवः संपत् तस्य आलोके दर्शने सतृष्णम् उत्सुकं मनो विद्यते ते जैनं वपुः उक्तस्वरूपं चिन्तयन्तु ॥५४३॥ दुग्धाभिषेकमन्त्रः-ॐ ह्रीं श्रीं..." त्रैलोक्यस्वामिनो दुग्धाभिषेकं करोमि नमोऽहंते स्वाहा । [पृष्ठ २३७-२३९] दध्यभिपेकः जन्मस्नेहच्छिदिति-स्नेहहेतुः निसर्गात् प्रकृत्यैव दधि स्नेहस्योत्पादने कारणं सत. जनस्नानानभवनविधौ जिनप्रभोः स्नानस्य अनभवः माहात्म्यं तस्य विधौ तत दधि जन्मस्नेहच्छिदपि जगतः त्रैलोक्यस्य जन्मनः स्नेहं रागभावं छिनत्तीति ज्ञेयम । स्तब्धेति-स्तब्धतया सान्द्रतया लब्धात्मवृत्ति प्राप्तजन्म दधि पुण्योपाये पुण्यप्राप्त्युपाये मद्गुणमपि कोमलस्वभावमपि प्राप्तजाड्य. स्वभावं लब्धमान्द्यप्रकृतिकं चेतो जाड्यं हरदपि मनसा अज्ञानतां निवारयदपि तद्दधि वः मङ्गलं पुण्यं तनोतु विस्तारयतु ॥५४४॥ दधिमन्त्र:-ॐ ह्रीं श्रीं.."त्रैलोक्यस्वामिनो"दधिस्नपनं करोमि नमोऽर्हते स्वाहा।] सर्वोषध्यभिषेकः-एलेति-त्रिपुटा ( 'वेलदोडा' इति भाषायाम् ) लवङ्गं देवकुसुमम् इत्यपरनाम। कङ्कोलं सुगन्धिद्रव्यविशेषः कोशफलमित्यपरनाम । मलयं चन्दनम् । अगुरु: कालागुरुः । एभिः मिश्रितः पिष्टश्चूर्णैः कल्कैः सुगन्धिकर्दमैः कषायैश्च वटपिप्पलोदुम्बरादीनां त्वचां कषायः क्वाथजलः । जिनदेहं जिनशरीरम् । उपास्महे पूजयामः । ५४५॥ अस्य मन्त्र:-ॐ ह्रीं श्रीं..."त्रैलोक्यस्वामिनः कल्कचूर्णरुद्वर्तनं करोमि

Loading...

Page Navigation
1 ... 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664