Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
४६८ पं० जिनदासविरचिता
[पृ० २३३३६. स्नपनार्चनविधिर्नाम पत्रिंशः कल्पः [पृष्ठ २३३-२३५ ] जिनप्रतिमास्नपनम् । इदानीम् अधुना। ये कृतप्रतिमापरिग्रहाः कृतजिनबिम्बपूजाप्रतिज्ञाः तान्प्रति तानुद्दिश्य । स्नपनम् अभिषेकः । अर्चनं पूजनं जलादिद्रव्यैः । स्तवः प्रतिमापितार्हदादोनां गुणानां स्तुतिः। जपः अहंदादीनां मन्त्रस्य जपो वाचिको मानसिको वा जप्यः । ध्यानम् एकाग्रेण मनसाहदादीनां गुणानां चिन्तनम् । श्रुतदेवताराधनविधिः श्रुतदेवतायाः जलाद्यः गुणानुरागपूर्वकं पूजनम् । एतान् षडविधीन प्रोदाहरिष्यामः कीर्तयिष्यामः । तथाहि-श्रीकेतनमिति-अहं जिनाभिषेकाश्रयं जिनाभिषेकस्य आश्रयं गृहम् आश्रयामि तत्र प्रवेशं करोमि। कथंभूतं तम् आश्रयामि । श्रीकेतनं श्रियो देवतायाः केतनं गृहमिव । पुनः कथंभूतम् । वागिति-वाग्वनिता वाग्देवता श्रुतदेवता तस्या निवासम् आश्रयम् । उपासकानां देवपूजादिषट्कर्माणि कुर्वतां श्रावकाणां पुण्यार्जनक्षेत्र सस्यप्राप्तिस्थानमिव पुण्यप्राप्तिस्थानम् । पुनः कथंभूतम् । स्वर्गेति-स्वर्गमोक्षप्राप्तेर्मुख्यं निदानम् ॥५२६॥ [ इति जिनमन्दिर प्रवेशः ] भावामृतेनेतिभावो जिनगुणानुरागस्तदेव अमृतं जलं तेन मनसि प्रतिलब्धशुद्धिः संप्राप्तशौचः अहम् । पुण्यामृतेन च मन्त्रपूतेन जलेन । तनो शरीरे । नितरां पवित्रो भूत्वा सकलीकरणम् अङ्गन्यासं च कृत्वेत्यर्थः । श्रीमण्डपे यत्र जिनो भगवान् विराजते तत्स्थानं श्रीमण्डपः । तत्र विविधवस्तुविभूषितायाम् अष्टमङ्गलद्रव्यालंकृतायां वेद्यां पीठे। जिनस्य सवनम् अभिषेकम् । विधिवत् जिनस्नानशास्त्रोक्तप्रकारेण तनोमि करोमि ॥५२७॥ उदङ्मुखमिति-पूजकः स्वयम् उदङ्मुखम् उत्तरां दिशं प्रति मुखं कृत्वा तिष्ठेत् । जिनं प्राङ्मुखं स्थापयेत् पूर्वदिङ्मुखं जिनं कृत्वा तं स्थापयेत् । तथा पूजाक्षणे पूजनसमये पूजक: नित्यं यमी अणुव्रतधारकः वाचंयमक्रियः वाचंयमो पूजामन्त्रादपरस्य भाषणम् अकुर्वाणः पूजनक्रियां कुर्वाण: भवेत् ॥५२८॥ षड्विधं देवसेवनम् । प्रस्तावनेति-प्रस्तावना, पुराकर्म, स्थापना, संनिधापनम् । पूजा, पूजाफलं च इति देवसेवनं षड्विधम् ज्ञेयम् ।।५२९॥ १. प्रस्तावनाधिकारः प्रथमः, स वर्ण्यते-यः श्रीजन्मेति-यः श्रीजिनः श्रीजन्मपयोनिधिः श्रियो लक्षम्या जन्मने पयोनिधिः समुद्रः, यं योगिनः मनसि ध्यायन्ति । येनेदं भुवनं सनाथम्, स्वामिना सहितम् । यस्मै अमरा नमस्कुर्वते। यस्माज्जिनात् श्रुति: द्वादशाङ्गरूपा प्रादुरभूत जज्ञे। यस्य प्रसादात् जनाः सुकृतिनो भवन्ति । यस्मिन् जिने न एष भवाश्रयो भवः संसृतिः आश्रयो भाजनं यस्य तथाभूतः व्यतिकरः संबन्धः न, तस्य स्नापनाम् आरभे ॥५३०॥ वीतोपलेपवपुषः इति-वीतः विनष्टः मलस्य उपलेपः उपदेहः वपुषो शरीराद्यस्य तस्य जिनस्य नित्यनिर्मलस्य मलानुषङ्गः मलस्य संबन्धः कृतः कस्मात् कारणाद् भवेत् । त्रैलोक्यस्य पूज्यौ चरणो यस्य तस्य जिनस्य अर्ध्यः कुतः न तेन अर्येण जिनस्य किमपि प्रयोजनं सिद्धमिति । हे जिन, मोक्षामृते धृतधियः मोक्षपीयूषे विहितवाञ्छस्य तव नैव काम: अभिलाषः । ततः इदं स्नानं कम् उपकारं तव किं प्रयोजनं करोतु साधयतु ॥५३१॥ तथापीति-तथापि स्वस्य पुण्यार्थ पुण्यप्राप्त्यर्थं तव अभिषवं स्नानं प्रस्तुवे प्रारभे। को नाम कः पुमान् फलार्थी फलान्यभिलषन्, तरूपकारार्थ तरोः वृक्षस्य उपकारार्थम् उपकारकरणाय विहितोद्यमः कृतयत्नो भवेत् । यथा अभिषेकेण जिनेश्वरे काप्युपकृतिर्न भवेत् यतः स स्वभावनिर्मलः । अतः स्वपुण्योपचयार्थम् एव उपासकेन तस्य स्नानं विधेयम् । यथा फलार्थी जनः वृक्षं जलदानेन सेवतेन वृक्षोपकाराय तथा स्वपुण्याय जिनाभिषेकक्रियां श्रावकः करोति ॥५३२॥ इति प्रस्तावना ] २. पुराकर्म । रत्नाम्बुभिरिति-रत्नजल: तथा कुशानां कृशानुभिः अग्निभिः भूमौ स्नानभूमी जिनाभिषेकस्थाने आत्तशुद्धी सत्यां पवित्रायां जातायाम् । भुजङ्गमपतीन् नागेन्द्रान् अमृत: दुग्धः उपास्य प्रोणयित्वा। प्रजापतिनिकेतनदिङ्मुखानि प्रजापतिनिकेतनं ब्रह्मस्थानं तत्प्रमुखानि दिङ्मुखानि पूर्वादिदशदिशः । दूर्वा स्वनामख्याततृणविशेषः । अक्षताः अखण्डतण्डुलानि । प्रसवाः पुष्पाणि, दर्भाश्च कुशाः तः विदर्भितानि युक्तानि कुर्मः ॥५३३॥ पाथःपूर्णानिति-अहं पूजक: कोणेषु चतुरः कुम्भान् विदधे । कथंभूतान् पाथःपूर्णान् जल तान् । सुपल्लव: आम्राशोकादिकिसलयः प्रसूनः पुष्पः अान् पूज्यान् । पुनः कथंभूतान् प्रवालमुक्तोल्बणान् विद्रुममुक्ताहारशोभितान् चतुरः दुग्धाब्धीनिव चतुःसंख्यान क्षीरसमुद्रानिव । वेद्याश्चतुः कोणेषु विदधे स्थापयामि ॥५३४॥ [ अत्र जिनाभिषेकप्रस्तावनापुराकर्ममन्त्रा लिख्यन्ते । ॐ ह्रीं श्रीं क्लीं

Page Navigation
1 ... 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664