Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 578
________________ प० जिनदासविरचिता [ पृ०२१६संक्लिष्टस्य बहिःशुद्धरत्यावश्यकता-सर्वेति-सर्वे च ते आरम्भाः सेवाकृषिवाणिज्यादयः तेषां विज़म्भणं विजृम्भः प्रवृद्धिर्यस्य, पुनः कथंभूतस्य । ब्रह्मजिह्मस्य जहाति त्यजति इति जिह्मः ब्रह्मचर्येण त्यक्तस्य स्वस्त्रिया कृतमैथुनस्येति भावः । एतादृशो देहिनः द्विजश्रावकस्य बहिःशुद्धिम् अविधाय अकृत्वा आप्तोपास्त्यधिकारिता न । देवापूजाधिकारो नास्ति ।।४६८॥ अद्भिरिति-अद्भिः जलैः शुद्धि निराकुर्वन् स्नानम् अकुर्वन् इत्यर्थः, मन्त्रमात्रपरायणः मन्त्रोच्चारणेष्वेव तत्सरः स ब्रह्मचारी भुक्त्वा भोजनं कुर्वाणः तद्दोषपरिहाराय मन्त्रम् उच्चार्य शुद्धिभाग्भवति, हत्वा मलमूत्रं कृत्वा मन्त्रः शुद्धयति । विहृत्य च विहारं कृत्वा स्वाध्यायाद्यर्थ गुर्वादिसमीपं गतवतस्तस्य मार्गे पादपतनादिषु जीवघाते सति पञ्चगुरुंमन्त्रर्यापथशुद्धिं कुर्वतः शुद्धिर्भवति न तस्य जलशुद्धे. रावश्यकता ॥४६९।। बहिःशुद्धिकराणि वस्तूनि-मृत्स्नयेति-प्रशस्ता शुचिस्थाने स्थिता शुभगन्धरसवर्णोपेता मृत्तिका मृत्स्नोच्यते तया । इष्टकया दग्धमत्खण्डेन । भस्मना, गोमयेन गोविडा । तावच्छौचं शुद्धिं कुर्यात् यावन्निर्मलता हस्तादेः स्यात् । इयं विशुद्धिब्रह्मचारिणा मुनिनापि विधेया । या स्नानशुद्धिः सा कदा विधेयेति उक्तमेव ॥४७०॥ विहृत्य आगतस्य, वस्तूनां च शुद्धिः-बहिरिति-बाह्यप्रदेशे विहृत्य गत्वा पुनः संप्राप्त आगतः अनोचम्य आचमनम् अकृत्वा गृहं न प्रविशेत् । आचम्य जलप्राशनं त्रिवारं कृत्वा गृहप्रवेशः कार्यः । तथा स्थानान्तरात् अन्यत् स्थानं स्थानान्तरम् अन्यग्रामगृहादेः आगतं सर्व वस्तु धान्यफलादिकं प्रोक्षितं जलेन प्रसिच्य आचरेत् सेवेत ॥४७१॥ कथंभूतः सन्देवार्चनविधिं कुर्यात्-आप्लुत इति-आ समन्तात् प्लुतः जलमवगाह्य स्नातः । संप्लुतः सम्यक् प्लुत: संस्नातः । स्वान्तशुचिवासो विभूषितः मनसा शुचिवाससा च शुद्धवस्त्रयुगलेन च विभूषितः शोभितः । मौनेन संयमेन इन्द्रियप्राणिसंयमयुगलेन च संपन्नः परिपूर्ण: गृही देवार्चनाविधिं कुर्यात् ॥४७२॥ दन्तधावनेति-दन्तानां धावनं दन्तधावनं दन्तप्रक्षालनं तेन शुद्धम् आस्यं मुखं यस्य सः । मुखवासोचिताननः वदनवाससा छन्नमुखः । असंजातान्यसंसर्गः न संजातः अन्यजनानाम् अस्नातजनानां संसर्गः स्पर्शः यस्य सः । गृही देवान् उपाचरेत् पूजयेत् ॥४७३॥ होमेति-भोजनात्प्राक् होमः भूतबलिश्च एतौ द्वौ विधी पूर्वेः प्राचीनसूरिभिः भक्तविशुद्धये अन्नविशुद्धये उक्तो। भुक्तः भोजनस्य आदी प्रारम्भे सलिलम् आचमनम्, सपिः घृतम्, ऊधस्यम् ऊधसि भवम् ऊधस्यं गोस्तनोद्भवं दुग्धमिति । एतेषां सेवनं रसायनम् । ज्वरादिव्याधिविनाशकम् । होमेन देवानां तर्पणं भवति । अन्नदानेन भूतानां प्राणिनां तर्पणं स्यात् ॥४७४॥ एतद्विधिरिति-एष विधिः होमभूतवल्यादिविधिः न धर्माय न पुण्याय । न च तदक्रिया तस्य अक्रिया अकरणम् अधर्माय अपुण्याय कथम् । दर्भपुष्पादिवत् दर्भपुष्पाक्षतश्रोत्रवन्दनादिविधानं यथा कृतं न धर्माय । अकृतं वा अधर्माय न भवति । दर्भाः लोकव्यवहारे पूजायां च पूताः मन्यन्ते । आसनादौ, अग्निज्वालनेन भूमिशुद्धौ च तदुपयोगकरणकथनात् । पुष्पाक्षतानामपि पाक्षिकादिभक्तानां भक्तिपरिणामाङ्गत्वात् धर्महेतुत्वमपि विज्ञेयम् । ब्रह्मचारिक्षुल्लकादीनां तदभावेऽपि भावपूजनं भवेदतो नाधर्मायापि ॥४७॥ द्वौ इति-हि यस्मात् गहस्थानां द्वौ धर्मों लौकिक: लोके भवः लौकिक: इहलोकसंबन्धी धर्मः। परस्मिन लोके भवः पारलौकिकः । आद्यः लौकिको धर्मः लोकाश्रयः अस्ति । होमो भूतबलिः, दर्भपुष्पाक्षतादिकं च लौकिको धर्मः । पर: पारलौकिकः आगमाश्रयः आगमाघारः जिनागमप्रोक्तः ॥४७६।। [पृष्ठ-२१६] जातयः इति-सर्वा जातयः अनादयः ब्राह्मणक्षत्रियादयः । विदेहक्षेत्रापेक्षया एता जातयः अनादयः । तत्र मुक्तियोग्यानां जातीनाम् अच्छेद एव । भरतैरावतक्षेत्रापेक्षया चतुर्थकाले मुक्तियोग्यानां जातीनां संभवत्वात् सादित्वं तासाम् । अतः तत्क्रियाश्चापि तथाविधा अनादयः । श्रुतिः वेदः शास्त्रान्तरं वा अन्यद्वा शास्त्रं स्मृत्यादिकं प्रमाणं भवतु अत्र मः अस्माकं का क्षतिर्हानिः ॥ लोकाश्रयो धर्मः यः श्रुती स्मृती वोक्तः सः स आत्मप्रतिपन्नव्रतानुष्ठानानुपघातेन प्रमाण्यताम् ॥ ४७७॥ जैनागमविधिम् आत्महिताय प्रमाणयेत्- स्वजात्यैवेति-विशुद्धकुलजाती स्वजात्यैव स्वस्य जात्यैव जन्मना एव विशुद्धानां पवित्राणां वर्णानां ब्राह्मण-क्षत्रिय-विशां तक्रियाविनियोगाय गर्भान्वय-दोक्षान्वय-करीन्वयक्रियाणां विनियोगाय आरोपणाय जैनागमविधिः जिनागमप्रोक्तः आचारः परं प्रमाण मन्तव्यः । यथा स्वजात्यव स्वजन्मनैव निर्मलस्य कान्तिजुषो रत्नस्य मणेः तक्रियाविनियोगः शाणघर्षणादिकं रत्नशास्त्रप्रोक्तं परं प्रमाणं मन्यते जनः तद्वत् ॥ ४७८॥

Loading...

Page Navigation
1 ... 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664