Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
-पृ० २०७ ]
उपासकाभ्ययनटीका
४५१
माणुव्रज्यानि पञ्चमाणुव्रत हानि करोति ॥ ४४४ ॥ अस्मिन् द्वन्द्वद्वयेऽपि उभयपरिग्रहेऽपि यस्य देहिनः शरीरिणः । मनः निःस्पृहं वर्तते । स पुरुषः स्वर्गापवर्गलक्ष्मीणां पक्षे क्षणात् दक्षते चतुरो भवति । निःस्पृहचित्तस्य नरस्य स्वर्गापवर्गलक्ष्मीणां प्राप्तिर्भवति ॥ ४४५ ॥ अत्यर्थम् - अतिशयेन अर्थकांक्षायां घनाभिलाषायां नृणाम् अघौघसंचितं पापसमूहसंभृतम् । चेतः संसारावर्तवर्तगं भवस्य आवर्तः गर्तः तत्र वर्त्त वर्तनं गच्छतीति संसारावर्तवर्तगम् । भवगर्त भ्रमणवत् भवति जायते ॥ ४४६॥
[ पृष्ठ २०५ -२०७ ] श्रूयतामत्र परिग्रहाग्रहस्योपाख्यानम् — पाञ्चालदेशेषु त्रिदशेति — त्रिदशानां देवानां निवेश: निवासः स्वर्गः तद्वत् अनुकूले सुखजनके उपशल्ये समीपे । काम्पिल्ये तनामके नगरे रत्नप्रभो नाम नृपतिः । कथंभूतः सः । निजेति – स्वधीप्रभावधिक्कृत देवगुरुप्रज्ञः । अस्य मणिकुण्डला नाम महादेवी कथंभूता सा । आत्मीयेति – आत्मनः इमौ आत्मोयो तो च तो कपोलो गण्डौ तयोः कान्तिर्युतिः तया विजितं पराभूतम् अमृतमरीचेः सुधाकरस्य चन्द्रस्य मण्डलं ययेति । अस्य नृपस्य सागरदत्तो नाम श्रेष्ठी । कथंभूतः सः । कुलेति - कुलं वंशः तस्य क्रमः परम्परा तस्मात् आगतं प्राप्तम् आत्मोपार्जितं च स्वेन संपादितं च अमितं विपुलं वित्तं यस्य सः । सागरदत्तो नाम श्रेष्ठी । गृहस्य श्रीरिव रमा यथा धनश्रीर्नामास्य भार्या । सूनुः पुत्रः अनयोः धनश्रीसागरदत्तयोः सुदत्तो नाम । कथंभूतः सः । न्यायादनपेतो न्याय्यः स चासो अर्थः न्याय्यार्थः स्वामिमित्र विश्वसितद्रोहवञ्चनादिकविरहितः अर्थः न्याय्यार्थः तस्योपार्जने एकं चित्तं तत्वरं मनो यस्य सः सुदत्तो नाम सूनुः पुत्रः । स सागरदत्तः कथंभूतः । महालोभेति – महालोभ एव विभावसुरग्निः तेन ज्वलत् दहत् चित्तस्य मनसः भित्तम् अंशो यस्य सः सागरदत्तः । पुरुषेति - अनेकपूर्वपुरुषक्रमेणागतायाः सुवर्णकोटे, स्वयं संपादितार्धकोटेः स्वामी भवन्नपि शालीयादिभक्तभोजने कलमाद्यन्नभुक्तो द्वयोः तुषयोः त्वचोः अपनीतिर्हानिर्भवति । द्वावनाश्राणाकृतिश्च द्वौ तुषो अनाश्राणाकृती च अग्नि जलसंयोगेनापि अपक्वावस्थावेव तिष्ठतः । शाकानां पाकविधाने अग्निना पक्वत्वकरणे संभारादिकृतिश्च तल्लवनक्रियायां तन्मूलानां शाकनाडिकानां कठिनावयवानां च अपनयनं क्रियते, प्रसभं यथेच्छम् अभ्यवहृतिश्च भक्षणं च भवति । घर्तिपूराः घार्तिकाख्याः भक्ष्यविशेषाः, पूरिमा पोलिका, वेष्टिमा वेष्टनाकारा ( 'जिलेबी' इति भाषायाम् ) एतेषां भक्ष्याणाम् उपक्षेपे ग्रहणे भक्षणे वा महती महान् स्नेहापहतिः घृततैलादिविनाशः स्यात् इन्धनानां काष्ठानां विरतिः हानिर्भवेत् । दुग्धदधिघोलरसाद्युपयोगे भक्षणे कृते विक्रयं कर्तुं न शक्यते 'यत्तु सस्नेहमजलं मथितं घोलमुच्यते' न च तक्रं कडङ्गरायेति भक्ष्यविशेषाय तक्रस्यापि उपयोगो न भवेत् । इति मन्यमानः विमर्शं कुर्वन् स्वयमेव प्रतिदिवसवृद्धिग्रहणाय प्रतिदिनम् अधर्मणात् कुसीदग्रहणाय ध्वजलोकपाटके ध्वजलोकास्तैलिकाः तेषां पाटके गृहपङ्क्तौ विहरमाणः गच्छन् प्रतिपितृप्रिययन्त्रमुपसृत्य तिलंतुदयन्त्राणां समीपं स्थित्वा यः सुरभिः सुगन्धिः खलु एष खलः पिण्याकं संजातः इति सस्मेरं स्मितं कृत्वा व्याहरन् ब्रुवाणः, गृहीतपिण्डखण्डः स्वीकृत पिण्याकशकलः, प्रत्यवसानसमये भोजनवेलायां तद्गन्धम् आजिघ्रन् सन् सर्वजन त्यक्तम्, अतीतकालमर्यादं जीर्णमित्यर्थः अतिक्रान्तसमर्धम् अतीव सुलभं दरिद्रेणापि प्राप्यम्, अकण्डि - तमेव च स्थालीविलीयं स्थालीनिहितं तदौदनादिकं शीघ्रं पक्वं भवति तत् केवलम् अवन्तिसोमेन सह काञ्जिकया सह अयं सागरदत्तः आहरति भक्षयति । अत एव अस्य महामोहसंबद्धस्य पिण्याकगन्ध इति नाम जगति पप्रथे, प्रसिद्धं बभूव । ' मुखामोदमात्रेण च प्रयोजनम् । तदलं ताम्बूलार्थम् अर्थव्ययेन, धनत्यागेन' । इति विचिन्त्य विष्णुतरुत्वचः वृक्षविशेषस्य या त्वक् तस्याः कालवल्लीदलोत्तरास्वादरुचः पिप्पलछल्ली बावचीपत्राणां च पश्चाद्भोजनेन रुक् रुचिर्यासां विष्णुतरुत्वचः ताः कवलयति भक्षयति । अर्धघ्राणोदरः परिवारः ऊनभोजनः भृत्यवर्गः कदाचिदपि देहे हृदये वा न मनागपि विकुरुते आलस्ययुक्तो न भवति । इति मत्वा न कमप्यूर्धपूरं पूरयति । कुक्षिपूरणमात्रम् अनं कस्यापि न ददाति । प्रतिचारकांश्च स्वभृत्याश्च एवं शिक्षयति उपदिशति - 'न तैलार्थ लवणार्थ वित्तं व्ययितव्यम्' किं तु कार्षापणं मापं चादाय कार्षापणं कषिकाख्यं पणाख्यं वा नाणकम् आदाय तथा मापं चादाय गृहीत्वा येन तैलादिकं मीयते तद्भाण्डं चादाय आपणं विपण उपढोक्य गत्वा तदुभयं गृहीत्वा पुनरिदं साधु न भवति इति समर्पयन्त्रापणिकाय तत्र मापे भाण्डे किंचिल्लग्नम् आयाति
+

Page Navigation
1 ... 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664