Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
-पृ०२०३] उपासकाम्ययनटीका
४४१ रुचिरेण सुन्दरेण प्रयाणयोग्यवेषेण जोष्यं सेवनीयं तं पुष्यं पुरः अग्रे वने विनिवेश्य स्थापयित्वा । भट्टेतिभट्टात् पुष्यभट्टात् हेतोः उद्भूतः जातः आरम्भः यस्य तथाभूतेन संभाषणेन सनाथो युक्तः यः सखीजनः तेन संकल्पा भूषिता। धृतेति-धृतः प्रोषितभर्तृ कायाः आकल्पो वेषो यया सा, (प्रकृष्टं दूरं गतः प्रोषितः प्रवासं गतो भर्ता यस्याः सा प्रोषितभर्तृका ) अभिमुखम् अयासीत् अगच्छत् । अपरेधुः अन्यस्मिन्दिने स निखिलगुणा एव द्रविणं धनं तेन विशेष्यः इतरजनेभ्यः असमान: पुष्यः पृथिवीपतिभवनं धर्षणनपप्रासादम् अनुगम्य 'देव, अयं स किंजल्प: पक्षी, इयं च तत्प्रसवित्री माता पतत्रिणी च पक्षिणी च, इत्याचरत इत्यवदत् ।
[पृष्ठ २०२-२०३] राजा-(चिरं निर्वर्ण्य निर्णीय च स्वरेण ) पुरोहित, नैष खलु किंजल्पः पक्षी, किं तु कडारपिङ्गोऽयम् । एषापि विहङ्गी पक्षिणी न भवति किं तु तडिल्लतेयं कुट्टिनी पुरुषेण सह परस्त्रीयोगस्य कौं। पुष्यः-देव, एतत्परिज्ञाने प्रगल्भमतिप्रसवः सचिवः। देव एतस्य किंजल्पपक्षिविषयकपरिज्ञाने प्रगल्भः प्रौढ: मतिप्रसवः बुद्ध्युत्पादः यस्य तथाभूतः सचिवः । राज्ञा सचिवस्तथा पृष्टः क्ष्मातलं पातालं प्रविविक्षुरिव प्रवेष्टुमिच्छन्निव क्षोणीतलं भूतलम् अवालोकत ऐक्षत । राजा-पुष्य, समास्ताम् । अयं भवान् ऐतिह्यनिकरं प्राग्वृत्तजातं कथयितुम् अर्हति । प्राग्वृत्तं सकलं कथयेति राजा पुष्यम् अपृच्छत् । पृष्यः-स्वामिन, कूलपालिकात्र प्रगल्भते । कूलं पालयति इति कूलपालिका कूलवती मे धर्मपत्नी ऐतिह्य. निकरं कथयितुं प्रगल्भते समर्था भवति । भूपतिः भट्टिनीम् आहूय 'अम्ब, कोऽयं व्यतिकरः किं प्रकरणमिदम्' इत्यपृच्छत् । भट्टिनी तदुदन्तं तत्प्रकरणस्य पूर्ववृत्तान्तम् आख्यत् अवर्णयत् । काश्यपीश्वरः कश्यपस्येयं काश्यपी पृथ्वी तस्या ईश्वरः अधिपतिः घर्षणः शैलप इव नटवत् हर्षामर्षोत्कर्षस्थामवस्थामनुभवन् आनन्दकोपोत्कटाम् अवस्थां दशाम् अनुभवन् सकलनिशान्तस्थितस्त्रीजनप्रणम्यमाणचरणकमलां तां पद्मां तैस्तैः साध्योगणानन्ददैः स्तुतिववनः संमानसंनिधानः समादरसूचकः भूषगदानश्च उपचर्य पूजयित्वा, वेदविद्विजोह्यमानकर्णीरथारूढां स्त्रीणां वाहनाथं वस्त्रादिना आच्छादितस्य रथविशेषस्य कर्णीरथ इति नाम । वेदविद्भिः वेदार्थ जानद्भिः द्विजै: विप्रः स्कन्धे धृत्वा नीयमानकीरयम् आरूढां पनां वेश्म गृहं प्रवेश्य, पुन: 'अरे निहीन नितरां हीन नीच, किमिह नगरे न सन्ति सकललोकसाधारणभोगा: अखिलजनसामान्य ज्यमानाः सुभगा: सुन्दराः सीमन्तिन्यः नार्यः किमिति न सन्ति येनैवम् आचरः दुराचरणं कृतवान् । कथं च दुराचार, एव माचरन न अत्र विलायं विलोनोऽसि । दुर्व्यवहार, एवम् आचरणं कुर्वस्त्वं लवणवत जले कथं न विलीनोऽसि । तत् इदानीमेव यदि भवन्तं तृणाकुरमिव तणेसि हन्मि, तदा तव हुंकतम् अभिमानः अपकृतं स्यात् नष्टं भवेत।' इति निर्भरम् अतिशयेन निर्भय॑ तर्जयित्वा. दुर्नयनगरभुजंगं दुराचारपुरजारं कडारपिङ्गं कट्रिनीमनोरथातिथि कुट्टिन्याः परस्त्रियं पुरुषेण योजयन्त्याः विद्युल्लताया मनोऽभिलाषस्य अतिथिम अभ्यागतं सतृणं तृणेन सहितम् उग्रसेनमन्त्रिणं च निखिलजनसमक्षम् आक्षारणापूर्वकं परस्त्रीनिमित्तं दूषणं दत्वा प्रावासयत् देशान्तरं प्राहिणोत् । दुष्प्रवृत्तानङ्गमातङ्गः दुष्प्रवृत्तेन दुराचारेण अनङ्गत्वात् कामाकुलत्वात् मातङ्गः चाण्डालसदृशः, कडारपिङ्गः तथा प्रजप्रित्यक्ष पारसमक्षम् आक्षारितः परस्त्रीनिमित्तं दत्तदूषणः सूचिरं दीर्घकालम् एतदेन:फलम् अनुभूय एतस्य परस्त्रीपापस्य फलं भुक्त्वा दशमीस्थः मरणावस्था दशमोत्यच्यते तस्यां तिष्ठतीति दशमीस्थः । मरणं प्राप्तः सन् श्वभ्रप्रभवभाजनं श्वभ्रे नरके प्रभवः उत्पत्तिः तस्य भाजनं पात्रं जनम् अभजत् । नरके समुत्पन्न इति भावः । भवति चात्र श्लोक:-मन्मथेति-मन्मथः कामः तेन उन्माथितं पीडितं स्वान्तं मनः यस्य, परस्त्रिया सह रतिः संभोगः तस्मिन जाता धीः मतिर्यस्य स कडारपिङ्गः संकल्लात् परस्त्रीसंभोगमनोऽभिलाषात् रसातले नरके निष्पपात पतितः अजायतेति भावः ॥४३१ ॥ . .. . .
इत्युपासकाध्ययनेऽब्रह्मफलसाधारणो नाम एकत्रिंशत्तमः कल्पः ॥३१॥

Page Navigation
1 ... 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664