________________
-पृ० १८६] उपासकाम्ययनटीका
४३६ अस्थाने इति-अस्थाने अकृत्ये बदकक्षाणां कृतप्रयत्नानां नराणां द्वयं सुलभम् । किं तत् । परत्र परलोके दीर्घा दुर्गतिः दुःखदा तिर्यङ्नरकगतिः, अत्र च शाश्वती सदातनी दुष्कोतिः ॥३९६।।
इत्युपासकाध्ययने वसो रसातवासादमो नामैकोनत्रिंशः कस्पः ॥२९॥
३०. असत्यफलसूचनो नाम त्रिंशत्तमः कल्पः [पृष्ठ १८६-१८९] [ वसोः पातालतलगमनान्निदं प्राप्तो नारदो मुनिदीक्षां गृहीत्वा शुक्लध्यानेन केवलमुत्पाद्य सिद्धोऽभवत् ] नारदस्तमेव निर्वेदम् असत्यपापफलं वीक्ष्य संसाराद्वैराग्यम् उररीकृत्य स्वीकृत्य । कुन्तलकलापं कचवन्दम् उन्मूल्य उत्पाटय, कथंभूतं कचकलापम् । नतभ्रू इति-नते वक्रे भ्रुवो यासां ताः नतभ्रवः ललनाः तासां विभ्रमाः शृंगारभावजक्रियाविशेषाः त एव भ्रमराः षट्पादाः तेषां कुलं समूहः तस्य निलया गहाणि इव तानि नीलोत्पलानि नीलकमलानि तेषां स्तूपमिव राशिमिव । जातरूपं निर्ग्रन्थतां नग्नताम् आस्थाय प्रतिज्ञाय, कथंभूतं तत् । परमनिष्किचनतारूप परमा लोकोत्तरा निष्किचनता नास्ति किंचन धनधान्यादि परिग्रहोऽस्येति निष्किमनः तस्य भावो निष्किचनता सैव निरूपं निश्चयेन स्वरूपं लक्षणं यस्य तत् । संयमोपकरण मयूरपिच्छिका प्राणिदयाकरम् आकलय्य गृहीत्वा । कथंभूतं तत् । सकलेति-समस्तजीवानाम् अभयदानसुधावृष्टेः अधिकरणम् आश्रयभूतं भाजनम् । उदकपरिचारिकां कमण्डलम् आदृत्य स्वीकृत्य कथंभूतां ताम् । मुक्ति इतिमक्तिलक्षम्याः समानमः संबन्धः तस्य संचारिकामिव दूतीमिव । स्वाध्यायं स्वस्मै आत्मने संवरनिर्जराहेतत्वात हितः उपकारकः अध्यायः अध्ययनम् स्वाध्यायस्तम् । कथंभूतम् । शिवेति-शिवश्रीः मुक्तिलक्ष्मीः तस्याः वशीकरणस्य आयत्तीकरणस्य अध्यायमिव अनुबध्य स्वीकृत्य । इन्द्रियारामम् उपरम्य इन्द्रिया इन्द्रियाणां विषयाः स्पर्शरसादयः त एव आरामः उपवनं तम् उपरम्य विनाश्य । कथंभूतं तम् । मनोमकटेतिमन एव मर्कट: वानरः तस्य क्रीडास्तासां प्रकामा अभिलाषा यत्र तम् । ध्यानदहनम् उद्दीप्य शक्लध्यानाग्नि प्रदीपयित्वा । कथंभूतम् । अन्तरेति-अन्तरात्मा अहं ज्ञानदर्शनलक्षणः, शरीरादयः कर्मसंयोगजास्ते न मम स्वरूपम् इति मत्वा तेषु रागद्वेषाम्याम् अवशः बात्मा अन्तरात्मा स एव हेमाश्म सुवर्णपाषाणः, तस्य समस्तमलानां दहनं दाहकं यथा सुवर्णे किट्टकालिकादिकं मलम् अग्निदहति तथा शुक्लध्यानाग्निः ज्ञानावरणादिकर्माणि तेषां विकारांश्च रागाज्ञानादिमलान् निरस्यति । श्रीनारदो मुनिः शुक्लध्यानेन संजातकेवलः तत्पदाप्तिपेशलो । बभूव तत्पदं परमात्मपदं सिद्धपदं तस्य आप्तिाभस्तेन पेशलो मनोरमो बभूव । [ वसुनपे मते सति प्रजाजनेन निर्घाटितः पर्वत: वनगहने प्रविष्टः कालासुरेण दृष्टः पर्वतस्तु तथा सर्वति-सकलसभासद्धिः समाजेन व उदीरितः उच्चारित: उद्दीर्घः महान् यः दुरपवादः धिक्कारः स एक रजः पांसुः यस्य सः, तस्मिन् वसो कथा शेषतेजसि कयैव शेषं तेजः यस्य तथाभूते सति, पुनः कथंभूते वसो मिथ्येति-मिथ्या असत्यः स चासो साक्षिपक्ष : प्रत्यक्षद्रष्ट्रपक्षः तस्मिन् विचक्षणं चतुरं वक्षः यस्य तस्मिन् । पुनः कथंभूते दुराचारेति-दुराचरणम् असत्यभाषणं तस्य ईक्षणम् अवलोकनं तेन क्षुभितः कुपितः स चासो सहस्राक्ष इन्द्रः तस्य अनुचराः किंकराः यक्षादयः तै: ईक्षितं जीवितस्य महः तेजो यस्य सः तथाभूते वसी कथाशेषतेजसि जाते सति । बहस्वहोणतया होणः लज्जित: अह्रस्वः महान् स चासो ह्रोणः तस्य भावस्तया अतीव लज्जिततयेति भावः, पौरापचिकोर्षया प. पोरेषु नागरिकेषु अपकारकरणेच्छया च, निरन्तरेति-निरन्तराः निविडाः उदञ्चन्तः ऊर्वाग्राः रोमाञ्चाः केशाः तेषां निकायः समूहो यस्य स पर्वतः शललेति-शललस्य श्वाविषः याः शलाकाः छत्रादीनाम् अयःशलाकावत् ताभिः निकीर्णः व्याप्तः कायः देहो, यस्य स इव, निजागणेयदुरीहितामातोदरचर्मपुटः निजानि स्वकीयानि अगणेयानि गणयितु संख्यातुम् अशक्यानि यानि दुरीहितानि दुष्टसंकल्पाः दुरभिप्रायाः तः आध्माती स्फोतो विवृद्धौ उदरचर्मणोः पुटी पार्यो यस्य, स्फुटन्निव स्फोट गच्छन्निव स पर्वतःकालासुरेण दृष्टः । पुनः कथंभूतः जनः नगरोनिष्कासितः। कोदशजनः निष्कासितः त: नृपतिविनाशवशामर्षिभिः नृपतेः वसोः विनाशः तस्य वशात् भामर्षः क्रोषो येषां तैः, पुनः कथंभूतः ।