________________
पं० जिनदासविरचिता
[पृ. १८५स्वस्तिमती पर्वतपरिभवापाद्यबुब्या वसुमनुसृत्य पर्वतेन नारदस्य परिभवः पराभवः आपायः कारितव्य इति मत्या वसुमनुगम्य वत्स वसो यः पूर्वमुपाध्यायादन्तर्धानापराधलक्षणावसरो वरस्त्वयादायि स मे संप्रति समर्पयितव्यः इत्युवाच । वत्स वसो बालक वसो, यः पुरा गुरोः अन्तहितागोलक्षणप्रसंगे वरस्त्वया दत्तः स मे अधुना देयः इत्यब्रवीत् । सत्यप्रतिपालनासुर्वसुः-सत्यस्य संरक्षणाय असवः प्राणा यस्य स वसुः किमम्म, कि मातः संदेहस्तत्र । यद्येवं यथा सहाध्यायो पर्वतो वदति, यदि संदेहो नास्ति तर्हि यथा सहपाठयः पर्वतो बवीति तथा त्वया साक्षिणा भवितव्यम् । वसुस्तथा स्वयमाचार्यान्या अभिहितः । 'यदि साक्षी भवामि तदावश्य निरये पतामि, अथ न भवामि तदा सस्यात् प्रचलामि' इति उभयाशयशार्दूलविद्रुतमनोमगः चिरं विचिन्त्य उभयाभिप्रायव्याघ्रानुयातचित्तहरिणः दोघं विमृश्य
[पृष्ठ १५५-१५६1 न व्रतमिति-अस्थिग्रहणं कपालग्रहणं चर्मधारणं व्रतं न. शाकेति-शाकं पत्रादि, पयो जलम्, मूलं कन्दादि, भैनचर्या भिक्षाणां समूहो भक्षं तेन चर्या जोवननिर्वाहः इति व्रतं न भवति । किं तु अङ्गीकृतवस्तुनिर्वहणम्, स्वीकृतकार्यस्य अन्ते गमनम् एतद् उन्नतधियाम् उन्नता उदारा धीमतिर्येषां ते उन्नतधियः तेषां महामतीनां व्रतं भवति ॥३९५॥ इति च विमश्य विचिन्त्य निरयनिदानदक्षं नरककारणचतुरं चरमपक्षम् अन्त्यपक्षम् एव पक्षम् आक्षेप्सीत् अगृह्णात् । [ पर्वतपक्ष एव सत्य इति वदन् वसुः ससिंहासनः पातालतलं गतः मृत्वा निरयं जगाम ] तदनु मुमुदिषमाणारविन्देति-आह्लादं जिगमिषन्ति च तानि अरविन्दानि कमलानि तेषां हृदयं मध्यप्रदेशः कणिका तत्र विनिद्राः निद्रारहिता उत्साहवन्तः ये इन्दि. न्दिरा भ्रमराः तेषां चरणानां पादानां प्रचारात् उदञ्चन् ऊवं गच्छन् उत्पतन् स चासौ मकरन्दः स एव सिन्दूरं नागसंभवं तेन युक्तं यत् नीरदेवतानां सीमन्तस्य अन्तरालं यत्र तस्मिन् प्रभातकाले, [ अधुना सदसो वर्णनम् ] सेवेति-सेवायै समागता ये समस्ताः सकला: सामन्ता राजानः तेषाम् उपास्तिः उपासना नमस्कारादिकरणं तस्मिन् समये पर्यस्तानि स्खलितानि तानि च उत्तंसकुसुमानि भूषणभूतपुष्पाणि तान्येव उपहारः उपायनं तेन महीयः तस्मिन् सदसि सभायाम् । मृगयेति-मृगया आखेटकं पापदिः तस्य व्यसनं तस्य व्याजेन निमित्तेन शरव्यीकृते शरेण वेध्ये कृते सति कुरङ्गपोते हरिणशिशो, अपराद्धेति-अपरादेषुः लक्ष्यात् च्युतसायक: वसुः प्रत्यावृत्त्य प्रतिनिवृत्त्य आसादितः लब्धः स्पर्शमात्रावशेषेण यः आकाशस्फटिकः तेन घटितं रचितं विलसनं शोभा यस्य तथाभूतं सिंहासनम् उपगत्य "सत्यशौचादिमाहात्म्यात् सत्यस्य निर्लोभस्य आदिशब्देन. अहिंसादेर्माहात्म्यात् प्रभावात् अहं विहायसि आकाशे गतः स्थितः जगद्व्यवहारं लोकप्रवृत्ति निहालयामि निश्चयेन पश्यामि" इति आत्मानम् उत्कुर्वाणः गर्वोन्नतं विदधानः विवादसमये तेन विनतवरदेन नारदेन विनतेम्यो नम्रशिष्येभ्यः वरदेन वाञ्छितफलं ददता नारदेन "अहो मृषोद्योद्भिदविभावसो वसो, मुषा असत्यम् उचं -- प्रतिपाद्यं तदेव उद्भिदं भूमिम् उद्भिनत्ति इति उद्भिदं वृक्षवल्ल्यादिकं तस्य विभावसुः अग्निः तत्संबोधनं हे वसो, अद्यापि न किचिन्नक्ष्यति न किमपि हीनं भवेत् न कापि हानिर्भवेत् 'तत्सत्यं ब्रूहि' इत्यनेकशः कृतोपदेशः । काश्यपीतलं यियासुर्वसुः-काश्यप्याः पृथिव्याः तलं अधोभागं यियासुः जिगमिषुः वसुः (अब्रवीत्) 'नारद, यथैवाह पर्वतस्तथैव सत्यम् ।' इत्यसमीक्ष्यम् अविचार्य साक्ष्यं साक्षिकर्म वदन्, देव अद्यापि यथायथं यथासत्यं विद्यते तथा वद ब्रूहि, इत्यालापवदुले इति आलापेन संभाषणेन वदुले वक्तरि, समन्यु मन्युना शोकेन सहितं समन्यु तन्मानसं यासां ताः समन्युमानसाः ताश्च ता विलासिन्यः राजस्त्रियः तासां स्खलितोक्तयः सगद्गदानि वचनानि ताभिर्लाहले अव्यक्तवाग्युक्त, विषादेति-विषादेन खेदेन बासादि व्यथितं हृदयं यासां ताः प्रजाः तासां प्रजल्पः उच्चर्भाषणं तदेव काहलावाद्यविशेषो यत्र, स्फुटदितिस्फुटत् भज्यमानं च तद् ब्रह्माण्डखण्डं तस्य ध्वनिः भूकम्पजातरवः तस्य कुतूहलं यत्र तथाभूते, समुच्छलति उत्थिते सति, परिच्छदकोलाहले परिवारजनकलकले जाते सति। ( वसुः पातालमूलं जगाहे ) असत्येतिअसत्यश्चासो धर्मः असत्यधर्मः यज्ञे प्राणिवधः तस्य कर्मप्रवर्तनं क्रियाप्रवत्तिः तेन कुपिताः कृताश्च ताः पुर. देवताः नगरदेव्यः तासां वशेन विलसनं दुःखं यस्य स ससिंहासनः सिंहासनेन सहितः, क्षणमात्रमपि बना. सादितः अलब्धः सुखकालो यत्र तथाभूतं पातालमूलं जगाहे प्रविवेश । अत एव अद्यापि प्रथमं आहुतिवेलायाम् अग्नी आहतिनिक्षेपणसमये प्रथम प्रप्रा जल्पन्ति वदन्ति, 'उत्तिष्ठ वसो स्वर्ग गच्छ' इति । भवति चात्र श्लोक: