Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
पं० जिनदासविरचिता
[पृ० १८संभूय संहत्य । उपदिष्टेति-उपदेशप्राप्तलोष्टानां मृत्खण्डानां वर्षणं कुर्वद्भिः, अतुच्छेति-अतुच्छानि महान्ति यानि पिञ्छोलानि त्वचः, दलानि च फलशकलानि च तेषाम् आस्फालनानां ताडनानां प्रकर्ष कुर्वाणः, प्रतिघातेन उच्छलन्ति उत्पतन्ति च तानि शकलानि कषाश्च तेषां प्रहारेषु तर्षः अभिलाषो येषां तैः पुनः कथंभूतः नगरनिवासहर्षिभिः नगरे पुरे निवासेन हर्षः येषां ते नगरनिवासहर्षिणः तः, जनः अगणितापकारं न गणिताः अपकाराः यथा भवेयुः तथा अगणितापकारं स रासभरोहणावतारः रासभो गर्दभः तस्योपरि रोहणं चटनं तेन अवतारः प्रवेशो यस्य । पुनः कथंभूतः पर्वतः, महान् ( यथा नाम तथा गुणः, तथाकृतिर्वा ) कण्ठप्रदेशे गलप्रदेशे प्राप्ताः प्राणा यस्य, पुरुपूत्कृतोल्बणक्वाणः पुरु महत पूत्कृतं पूत्करणम् आक्रोशः तस्य उल्बणः उत्कटः क्वाणः ध्वनिर्यस्य। सकलपुरवीथिषु सकलनगरगृहपङ्क्तिषु विश्वरघुष्टानुयातः विश्वराः सारमेयाः तेषां घुष्टं भषणं तत् अनुगतः निष्कासितः नगराद्वाह्यदेशं सधिक्कारं प्रेषितः । पुनः कथंभूतः पर्वतः। श्वपचेति-श्वपचो मातङ्गः तस्य श्मशानोपयुक्तं यदंशुकं तेन पिहितं मेहनं पुंश्चिह्नं यस्य सः पुनः कथंभूतः विपरीतेति-क्षुरः केशापनयनशस्त्रम् तस्य धारा तैक्षण्यं विपरीतं यथा स्यात् तथा क्षुरधारया आचरितं कृतं मार्गाकृत्या मुण्डनं यस्य सः, प्रकाशितेतिप्रकटतया बद्धं शिखायां श्रीफलानां बिल्वफलानां जालं यस्य सः। पुनः कथंभूतः गलेति-कण्ठनालाश्रितशालाजिरततिः गलनालावलम्बितशरावपक्तिः । प्रथोयसि महति, वनगहनरहसि अरण्यसान्द्रकान्ते प्रवेशं कृतवान् । पुनः कथंभूतः। स कालासुरेण दृष्टः। तुच्छेति-तुच्छम् अल्पम् उदकं यस्यां तथाभूता चासो द्वीपिनी द्वीपोऽस्त्यस्याम् इति द्वीपिनी द्वीपयुक्ता सा चासो तटिनी नदी तस्याः तटनिकटे उपविष्टः स्थितः स पर्वतः तेन काला. सुरेण दृष्टः [ कालासुरस्तं यद्वभाषे तदेव कविदर्शयति ] प्रत्यवमृष्टेति-प्रत्यवमष्टा सम्यक्तया ज्ञाता हृदश्चेष्टा येन तथाभूतेन कालासुरेण निभृतं निर्जनम् इति वक्ष्यमाणप्रकारेण वितळ भाषितः पर्वतः । किं वितकितं तेन । 'अहं तावत् वैकारिकविं प्रचिकाशयिषुशक्तिः अहं तावत् प्रथमं विक्रियाजन्यामृद्धि प्रकटयितुं शक्तिर्यस्य तथाभूतः' अहं निर्दिसामर्थेन पशवो यज्ञे हुताः विमानमारुह्य स्वर्ग यान्तीति दर्शयितुं समर्थः । एष पर्वतोऽपि स्वस्य मतस्य प्रतिष्ठापनां कर्तुमिच्छुर्या मतिः तस्यां प्रकर्षेण प्रसक्तिर्यस्य तथाभूतोऽस्ति । अतः निष्प्रतिषः निर्विघ्नः खलु मै कार्योल्लाघः कार्ये उल्लाघः हर्षः । इति निभृतं वितयं पर्याप्तेति-परि समन्तात् आप्तः लब्धः परिव्राजकसाधुवेषः येन, मायामयी सकपटा मनोषा बुद्धिर्यस्य तथाभूतेन तेन भाषितश्च तथा हि-पर्वत, केन खलु समासन्नं समोपीभूतं कीनाशः यमः तस्य केल्याः क्रीडाया नर्म परीहासः यस्य तथाभूतेन तेन दुष्कर्मणा अशुभकार्येण विनिर्मापितः कारितः निर्वरः निष्ठुरः उत्कृष्ट: निर्वरः अतितीव्र इति भावः स चासो अपकारः अपकृतिः । येन त्वयि अपकारः कृतस्तस्य ध्रवं संनिहितो मत्युरिति मन्ये । पर्वतः-तात, को भवान् । पर्वतः-भवत्पितुः खलु प्रियसुहृद् अहं प्रियमित्रमहं सहाध्यायी सहपाठी शाण्डिल्य इति नाम्ना अभिधीयेऽहम् । यदा हि वत्स भवान् समभवत् अजायत, तदाहं तीर्थयात्रायामगाम्। इदानी चागाम् आगच्छम् । अतो न भवान्मां सम्यगवधारयति न निश्चिनोति । तत्कथय कारणमस्य व्यतिकरस्य अस्या दशायाः किं नु निदानं तद् वद । पर्वतः-मदिति-मम प्राणितं जीवितं तस्य परित्राणे रक्षणे सपन् गृहभूत भगवन्, समाकर्णय शृणु। मम पितरि नाकलोकम् इते सति, अहं नारदेन विवदमानः एतादृशीम् अवस्थामगमम् । कथंभूते पितरि । समस्तेति-समस्ताः सकलाः आगमाः षड्दर्शनानि त एव रत्नानि तानि संनिदधाति समीपे धारयतीति संनिधाता तस्मिन् । पुनः कथंभूते तस्मिन् । सुकृतेति-सुकृतानि पुण्यानि तान्येव मणयः तान् सम्यक आहरति आनयति इति समाहर्ता तस्मिन् । पुनः कथंभूते तस्मिन् । निजेति-निजरूपम् शुद्धम् आत्मरूपं तत् अनु अनुसृत्य यातरि गमनं कुर्वाणे यथा शदात्मलाभः स्यात् तथा प्रवृत्ति कुर्वाण, समिते सम्यक् इतं गमनं प्रवृत्तिर्यस्य तथाभूते पतरि नाकलोकं स्वर्गलोके इते गते सति । स्वातन्त्र्यात स्वच्छन्दभावात एकदा अहं 'अर्यष्टव्यम' इति वाक्याथं परिवर्तितवान् । कथंभूतोऽहम् । प्रदीप्तेति-प्रदीप्तः प्रज्वलितः निकामम् अतिशयेन कामोद्गमः कामस्य मदनस्य उद्भवः यस्य तथाभूतः। पुनः कथंभूतः । संपन्नेति-संपन्नः संप्राप्तः पण्याङ्गनाजनस्य वेश्यालोकस्य समागमः संभोगो यस्य तथाभूतः । पुनः कथंभूतः । कृतेति-कृतः पिशितस्य मांसस्य, कापिशायनस्य मद्यस्य सुरायाश्च आस्वादो भक्षणं पानं च येन तथाभूतः।

Page Navigation
1 ... 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664