________________
पंजिनदासविरचिता
[पृ० १७९तथा सा सगरं वृणुते स्म । भवति पात्र श्लोकः-अल्पैरिति-समर्थः अल्पैरपि सहायः साहाय्यं वितरद्भिः कार्यकारिभिः पुरुषः नृपः विजयी भवति । कुन्तस्य शस्त्रविशेषस्य अन्तः अग्रं कार्याय शत्रुविनाशाय भवति । परम् अस्य कुन्तस्य दण्डस्तस्य परिच्छदः सहायो भवति । तथा सगरस्य नृपस्य धात्रीपुरोहितो द्वावेव तत्कार्याय समयों जाताविति भावोऽत्र विज्ञेयः ।।३९४।।
इत्युपासकाध्ययने सुरुसायाः सगरसंगमो नामाष्टाविंशः कल्पः ॥२४॥
२९. वसो रसातलसादनो नामैकोनत्रिंशः कल्पः [पृष्ठ १७६-१८१] [जातवैराग्यः मधुपिङ्गलः गृहीतदीक्षः विहरन् सगरद्वारमागात्, तत्र शिवभूतिविश्वभूतिशिष्यः उत्तमलक्षणोपेतं तमवलोक्य दह्यतामेतत्सामुद्रिकशास्त्रमित्युवाच । श्रुत्वा तगिरं विश्वभूतिः सकलं पूर्वेतिहासं तस्याकथयत् । सर्वमेतद्वयतिकरं श्रुत्वा 'मधुपिङ्गलो मुनिः क्रुद्धो जज्ञे । कालेनोत्पद्य कालासुरनामासुरो जातः । ] प्ररूढनिर्वेदकन्दलः उत्पन्नभववैराग्याङ्करः मधुपिङ्गलः, "धिगिदं भोगायतनं शरीरम् । अभोगायतनं सुलसाभोगरहितत्वात् अभोगास्पदम् । यत् यस्मात् एकदेशदोषात् एकदेशः शरीरकभागः नेत्र तत्र दोषात इमाम उचितसमागमाम् अपि उचितः न्याय्यः समागमः संभोगो यस्यास्ताम् अपि मामतनूदहां मामस्य पुत्रीम् अहं नालप्सि न लब्धवान् ।" इति मत्वा विमुक्तेति त्यक्तभवमोहः स्वीकृतदीक्षः, क्रमेण तांस्तान् प्रामारामनिवेशादीन् प्रामवनादिरचनाविशेषान् निरनुकः अकामः । जङ्घारिक इव प्रशस्ताम्यां वेगवतीभ्यां जह्वाम्या इयति गच्छतीति जङ्घारिक इव जाङ्घिकपुरुषवत् लोचनोत्सवतां नयन नयनानन्दतां नयन् तत्रत्यजनामां नयनयोर्मोद वितरन, अशनाया बुद्धया भोजनकामेनेति भावः, अयोध्यामागत्य अनेकेति-अनेकैरुपबासः अनाहारैः चतुर्विधाहारत्यागः पराधीनचित्तसामर्थ्यः, तीव्रोदन्यतया तीव्रतृष्णया भतिक्लान्तशरीरः। वाष्पीह इव जलं पातुमिच्छंश्चातक इव क्लमथुव्यपोहाय ग्लानिनाशाय सगरागारद्वारमन्दिरे सगरनपस्य द्वारगृहे मनाग ईषत्कालं व्यलम्बत तस्थौ। तत्रच पुरेति-[पुरा यदा सा सुलसा अतिथिदेव्या गर्ने बासीत् तदा मयेयं मधुपिङ्गलाय देयेति मनःसंकल्पमकरोत्सा । परं तस्याः सुलसायाः परिणयस्य प्रदानस्यापायः विश्वभूतिना बक्रियत । ] पुरा स्वयंवरकाले प्रयुक्ता योजिता परिणयापायस्य प्रदानविनाशस्य नीतिर्येन स विश्वभूतिः प्रगल्भमतये प्रगल्भा प्रौढा मतिर्बुद्धिर्यस्य तस्मै शिवभूतये रुचिष्याय प्रियाय शिष्याय, रहितेति-रहिता रहस्यस्य गोपनीयस्य मुद्रा प्रतीतिर्यत्र, तत्सामुद्रकं समुद्रेणपिणा प्रोक्तं देहचिह्नवन्दम् अशेषविदुषविचक्षणः सकलबुधनिपुणः ब्याचक्षाणो विवृण्वानः बभूव । परेतिपरामर्शः पूर्वापरालोचनशानं तस्य वशः असंशीतिः संशयरहितः स शिवभूतिः तं त्यक्षलक्षणपेशलं न्यक्षाणि सकलानि च तानि लक्षणानि शुभदेहचिह्नानि पनवजादीनि तैः पेशल: सुन्दरः तं मधुपिङ्गलम् अवलोक्य 'उपाध्याय, घनेति-घनं विपुलं तच्च तं तस्य भारतिभिर्वद्विर्यस्यास्तीति वृद्धिमत् तच्च तद्धाम च तेजः तेन शालते इति धामशालिनि, ज्वालामालिनि ज्वालानां शिखाना माला यस्य. तस्मिन् अग्नी, दह्यताम् एतस्य ऐतिहस्य पारम्पर्योपदेशस्य स्वाध्यायः अध्ययनं पठनम्, यत् यस्मात्. एवमिति एवंविषशरीरोऽपि अयं मुनिः ईदगवस्थायाः एतादृग्दशायाः कीर्तिवर्णनं यस्य । अतः एतल्लक्षणशास्त्रं विफलम् इति शिवभूतेषणं श्रुत्वा विश्वभूतिर्वक्ष्यमाणं उवाच 'कथंभूतो विश्वभूतिः । सदेति-सदाचारस्य निगृहीतिविनाशो यस्मात् स विश्वभूतिः ( वदति ) अपर्याप्तति-न परि सर्वतः साप्ता पूर्वापरसंगतिर्शानं येन तत्संबोधनम् हे शिवभूते, मा गाः खेदम्, यदेष नृपवरस्य सगरस्य निदेशादेशात निदेशात् कृतात् आदेशात् आज्ञायाः, अस्मदुपदेशात् च अनन्येति-अन्यत्र उपलभ्यमानं सामान्य लावण्यम् अन्यसामान्यलावण्यं न उपलभ्यमान सामान्यं लावण्यम् अनन्यसामान्यलावण्यम्, तस्य निवासो यस्यां सा तां सुलसाम् अलभमानः तपस्वी दीनः तपस्वी अभत मुनिरकायत । एतच्च भासना समीपा मरिटानां मरणलमणानां ततिः पङ्क्तिर्यस्य तस्य विश्वभूते: पचनम् एकायनमनाः एकस्मिन्मुस्खे भयन गमनं मनसो यस्य स एकायनमनाः एकापसावधानो वा।