________________
-पृ० १८३] उपासकाभ्ययनटीका
४३५ मधुपिङ्गलो यतिः निशम्य श्रुत्वा प्रवृद्धक्रोधानलः समिटरोषाग्निः कालेन कतिपयैदिवसः विपच मृत्वा उत्पद्य जनित्वा चासुरेषु कालासुरनामा भवप्रत्ययमाहात्म्यात् भव: जन्म प्रत्ययः कारणं तस्य माहात्म्यात् प्रभावात् उपजातावधिः उत्पन्नावधिज्ञानस्य संनिषिः समीपता यस्य, स.कालासुरः तपस्याप्रपञ्चं तपोविस्तारम, अन्वयोदञ्च च असुरकुले उदञ्चम् उत्पत्ति च आत्मनो निजस्य विनिश्चित्य, यत् इदानीमेव अधुनव महापराधनगरं महापराधानां नगरमाश्रयं सगरं नृपम् अकारणं हेतुं विना प्रकाशिता प्रकटिता दोषजाति: येन तं विश्वभूतिं च चूपेषं पिनष्मि गोधूमचूर्णवद्दलनं करोमि । तदानयोः सगरविश्वभूत्योः सुक्तमूयिष्ठत्वात् पुण्यवैपुल्यात् प्रत्यापि परलोकेऽपि सुरश्रेष्ठत्वावाप्तिः देवज्येष्ठत्वलाभः न साध्वपराधः स्यात् । ततो यथा इह अनयोर्बहुविडम्बनावरोधो वधः बह्वयः विपुलाः विडम्बनाः क्लेशाः तासाम् अवरोधः संबन्धः यथा भवेत्, परत्र च परलोके नरकादौ दुःखपरम्परानुरोध: दुःखसमूहसंबन्धो यथा भवति तथा विधेयं कार्यम् । नच एकस्य बृहस्पतेः सुरगुरोरपि अतिचतुरस्यापि कार्यसिद्धिरस्ति । इति अभिप्रायेण आत्मेति-निजविक्रियासामर्थ्यप्रकटीकरणे साहाय्यं प्रयच्छन्तम् अतिथिमिव, वैरनिर्यातनं शत्रुप्रतिकारः तस्य मनोरथः संकल्पः स एव रथः तस्य सारथिं रथचालकमिव कंचन नरम् अन्वेषणमतिः अनुसंधानबुद्धिः आसीत् ।।
[पृष्ठ १८१-१८३ ] [ यस्य साहाय्यमासाद्य कालासुरः सगरं विश्वभूतिं च मृति निन्ये तस्य पर्वतस्य पूर्वचरितं वर्ण्यते ] अथ मधुपिङ्गलस्य कालासुरावस्थाप्राप्तिवर्णनानन्तरं पर्वतस्य कालासुरसाहायकस्य कथा कथ्यते-कामेति-कामस्य कोदण्डो धनः तस्य कारणानि च तानि कान्ताराणि वनानि तैरिव इक्षुवणानाम् अवतारैः उत्पत्तिभिः विराजितमण्डलायाम् अलंकृतो मण्डलो आसमन्तादत्तभूप्रदेशो यस्याः तस्यां व्हालायां तन्नामके देशे स्वस्तिमती नाम पुरी अस्ति । तस्याम् अभिचन्द्रापरनाम वसुविश्वावसुर्नाम नृपतिः अस्ति । तस्य सकलगुणरत्नप्रसूतिः वसुमतीनाम अग्रमहिषी प्रधानराशी। अनयोः सूनुः पुत्रः समस्तेति-सकलशत्रुतरुदहने विभावसुः अग्निरिव वसु म । पुरोहितश्च निश्चितेति--जातसकलागमरहस्यसमूहः क्षीरकदम्बो नाम । कुटुम्बिनी-अस्य कुटुम्बविशिष्टा भार्या सतो पतिव्रता व्रतानाम् अहिंसादीनाम् उपास्ती भक्तिपालने तत्परा स्वस्तिमती नाम । जन्युः पुत्रः पुनरनयोः क्षीरकदम्बस्वस्तिमत्योः अनेकनमसितानि पूजनानि तेषां पर्वतः समूहः तेन प्राप्तो लब्धः पर्वतो नाम। स किल सदाचरणभूरिः सदाचरणेषु अहिंसादिषु इज्यादिषट्कर्मसु भूरिः ब्रह्मेव क्षीरकदम्बसूरिः एकदा सुवर्णगिरि म तन्नामा पर्वतः तस्य गुहायाः अङ्गणशिलायाम्, यस्यां शिष्यमताविव स्वाध्यायसंपादनवत् विशालायां विस्तृतायां तस्मै मुदा आनन्देन गतस्मयाय विनष्टगर्वाय यथाविधि विधिमनतिक्रम्य समाधिगासवे सम्यक् आधिम् एकाग्रतां गच्छन्ति असवः प्राणाः यस्य तस्मै वसवे, प्रगलितेति-प्रगलितः विनष्टः पितुः पाण्डित्यस्य गर्व एव पर्वतो यस्मात् तस्मै पर्वताय, गिरिकूटपत्तनं वसतिनिवासस्थानं यस्य तस्य विश्वनाम्नः विश्वंभरापतेः विश्वंभरा पृथ्वी तस्याः पत्युः स्वामिनः पुरोहितस्य कथंभूतस्य । विहितेति-अनवद्या निर्दोषा सा चासो विद्या च अनवद्य विद्या तयोपेत आचार्यः अनवद्यविद्याचार्यः विहिता कृता अनवद्यविद्याचार्यस्य चरणसेवा येन तथाभूतस्य विश्वदेवस्य नन्दनाय पुत्राय नारदाभिधानाय च निखिलभुवनेति-सकलजगद्व्यवहारस्य तन्त्रं कारणम्, आगमसूत्रम्, अतिमधुरस्वरनिमित्तेन उपदिशन् ( क्षीरकदम्बसूरिः ) अम्बरादाकाशात् अवतरयां भूमितलम् आगच्छद्भयाम्, सूर्याचन्द्राभ्यामिव अमितगत्यनन्तगतिभ्यां ऋषिभ्याम् ईक्षांचक्रे अवलोकयामासे । [ अमितगतिभगवतोक्तं चतुषु एषु द्वाम्यामूर्ध्वगतिलभ्येति' श्रुत्वा पर्वतनारदो परीक्षिती क्षीरकदम्बेन । पर्वतस्याधोगमनं नारदस्य चोर्ध्वगमनं निश्चित्य क्षीरकदम्बो मुनि ज्ञे। आयुरन्ते सल्लेखनां विधाय देवो बभूव ] तत्र समासन्नसुगतिः समासन्ना निकटीभूता सुगतिर्यस्य स भगवाननन्तगतिः किलैवम् अभाषत-भगवन, अत एव खलु विदुष्याः शिष्याः वेत्तुम् अध्येतुं योग्या विदुष्याः शिष्याः, यदेवम् अनवद्यं निर्दोषं ब्रह्मोद्यविद्यं ब्रह्मणा अर्हता जिनदेवेन उद्या प्रतिपादिता विद्या जीवादिसप्ततत्त्वज्ञानं यत्र तदेतच्छास्त्रं ग्रन्थः । शब्दपदवाक्यानि अर्थः तदभिप्रायः । तयोः प्रयोगः सनिदर्शनं प्रतिपादनम् । तस्य भङ्ग्यः प्रकाराः। तेषु यथार्थप्रतिपादनेन विघूतोपाध्यायात् उपाध्यायात् विधूतः लपाध्यायो बृहस्पतिः येन तस्मादुपाध्यायात् गुरोः, एकसर्गधियः एकनिश्चयमतयः, अधीयते पठन्ति । प्रयुक्तेतिप्रयुक्ता उपयोगदशाम आनीता अवधिज्ञानस्थितिर्येन स अमितगतिभंगवान्-"मुनिवृषन् यतिश्रेष्ठ, सत्यमेवैतत् ।