SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ ४३६ पं० जिनदासविरचिता [पृ०.१८३किंतु एतेषु चतुर्षु मध्ये द्वाभ्याम् असितगौरवोपेतपदार्थवत् कृष्णभारयुक्तवस्तुवत्, अधःप्रबोषोचितमतिभ्याम् अधोगतिप्रापणयोग्यकुज्ञानयुतबुद्धिभ्याम् इदम् अतिपवित्रमपि सूत्रम् आगमः विपर्यासितम्यम् विपरीताभिधेयं कर्तव्यम् ।" एतच प्रवचनम् भागमः तदेव लोचनं नेत्रं तेन आलोकितः वीक्षितः ज्ञातः ब्रह्मस्तम्बो जगत्स्तम्बः चराचरद्रव्याणां सर्वगुणपर्याया येन सः क्षीरकदम्बः, संश्रुत्य आकर्ण्य "नूनमस्मिन् महामुनिवाक्ये. ऽर्थात् सप्तरुचिरग्निः तस्य मरीचयो ज्वालाः ताः यथा ऊवं गच्छन्ति तथा चतुषु नरेष द्वाभ्याम् ऊर्ध्वगाभ्यां सुरलोकं गच्छद्भयां भवितव्यमिति प्रतीयते ज्ञायते । तत्राहं तावत् एकदेशयतिपूतात्मानम् एकदेशयतिः उपासकः स चासो पूतात्मा पवित्रात्मा तम् अषरधामसंनिधानम् अधरं च तद्धाम च स्थानं तत्र संनिधानं सामीप्यं न संवयेयम् अधोगतिस्थानं नरकं तत्र अहम् आत्मानं न प्रश्नीयाम् । अर्थात् अहं श्रावकधर्मधारकत्वादधोगतिं न यास्यामीति भावः। [अहं वसुंब नोवं यियासुं संवयेयम् ] यतः नरकान्तं राज्यम् । नरकः नरकप्राप्तिः अन्तः अवसानं फलं यस्य एतादर्श राज्यम् । बन्धनान्तो नियोगः नियोगः पापकार्ये प्रेरणा स बन्धनान्तो बन्धनं पापबन्धः मन्तोऽवसानं फलं यस्य एवंविधो भवति पापकायें प्रेरणया पापं बध्यते इत्यर्थः । मरणान्तः स्त्रीषु विश्वासः नारोष विश्वासेन बहवो निधनं याताः. विपदन्ता खलेषु मैत्री दुष्टेषु सख्यम् आचरितं विपत्फलं जनयति । इति वचनात् इति वृद्धोक्तः, इन्दिरेति-इन्दिरा लक्ष्मीः तस्या मदो गर्वः । मदिरामदः सुरापानाज्जातं विवेकविकलत्वम्, एताम्यां द्वाभ्यां मलिनप्रचारे मलिनं पापं तस्मिन् प्रचारः प्रवृत्तिः यस्माद्भवति तथाभूते राज्यभरे प्रसरदसु प्रकर्षेण सरन्त; असवः प्राणा यस्य तथाभूतं वसुं च नोवं पियासुम् ऊवं सुरलोकं यियासुं जिगमिषु न संवयेयम् न जानामि । तन्नारदपर्वती परीक्षाधिकृतो परीक्षायाम् अधिकृतो नियुक्ती तो मया परीक्ष्यो इति निश्चित्य समिधमयं पिष्टनिर्वृत्तम् ऊर्णायुद्वयं छागयुगलं निर्माय विरच्य प्रदाय व ताभ्याम् "अहो द्वाभ्यामपि भवद्भयाम् इदं उरणयुगलं छागद्वन्द्वं यत्र न कोऽप्यवलोकते न पश्यति तत्र विनाश्य हत्वा प्राशितव्यं भक्षितव्यम्" इत्यादिदेश । तावपि तदादेशेन तदाशया हव्यवाहनवाहनद्वितयं हव्यं समिदादिद्रव्यं वहतीति हव्यवाहनः अग्निः तस्य वाहनौ छागो तयोद्वितयं युगलं प्रत्येकम् आदाय गृहीत्वा यथायथम् आत्मशक्त्यनतिक्रमेण अयासिष्टाम् अगच्छताम् । तत्र सत्सख्यातिखर्वः पर्वतः सद्भिः सज्जनः सख्यं मैत्र्यं सत्सल्यं तस्मिन् अतिखर्वः अतिवामनः सज्जनमित्रतादूर इति भावः । पर्वतः पस्त्यपाश्चात्यकुम्बाम् उपसब पस्त्यस्य गृहस्य पाश्चात्यां परभागे वर्तमानां कुम्बां तटभित्तिम् उपसद्य आश्रित्य अह्रस्वः उन्नतः पर्वतः तम् उरभ्रं छागं भटित्रं संपाद्य अग्निपक्वं विधाय तस्य उत्रं मांसम् उदरानलपात्रम् उदराग्निभाजनम् अकार्षीत् अकरोत् । शुभाशयविशारदो नारदस्तु पुण्यविचारचतुरः नारदः 'यत्र न कोऽप्यालोकते' इति उपाध्यायोक्तं गुरुवचनं ध्यायन् मनसा विमृशन्, 'को नामात्र पुरे, कान्तारे, वा सद्रुघणद्रुभिः वृक्षैः सहितः सद्रुः स चासौ घनः सान्द्रः सद्रुघणः वृक्षनिविडः प्रदेशः (?) अत्र पुरे नगरे कान्तारे बने वा को नाम सघणः न आत्मेक्षणस्य बात्मनयनस्य आत्मानयनभूतो यस्य सः तस्य अवधिमनःपर्ययकेवलज्ञानिनः, व्यन्तरगणेति-व्यन्तरामरसमूहस्य, महामुनिजनानाम् अन्तःकरणस्य कः पदार्थः अधिकरणं विषयो न भवेत् । इति विचिन्त्य तथैव तं वृष्णि छागम् उपाध्यायाय 'समर्पयामास ददौ। उपाध्यायः नारदमपि ऊर्ध्वगं सुरलोकगतियोग्यम् अवबुध्य । संसारतरुस्तम्बमिव कचनिकरम्बं केशसमूहम् उत्पाटय लोचं विधाय। स्वर्गलक्ष्मीसपक्षां सररमासखों दीक्षाम बादाय गृहीत्वा । निखिलागमसमीक्षां सकल. जिनसिद्धान्तानां सम्पक ईक्षणं यस्याः भवति तां शिक्षा पठनम् अनुश्रित्य चातुर्वर्ण्यश्रमणसंघसंतोषणं गणपोषणम् आत्मसात्कृत्य । मुनि-ऋषि-यति-अनगारभेदः चातुर्वर्ण्यसाधुसमहः तस्य मनःप्रसादसंपादनं गणपोषणं निजाधीनं कृत्वा, आचार्यपदं धुत्वेत्यर्थः । एकत्वादिभावनापुरस्कारम् अात्मसंस्कार विधाय, तपोभावनैकत्वमावनाश्रुतभावनासत्वभावनाधुतिभावनानाम् अभ्यासं विधाय कायकषायकर्शनां सल्लेखनाम् अनुष्ठाय कायः शरीरं कषायाश्च क्रोधादयः तेषां यथाक्रमं कर्शनम् अल्पीकरणं विषाय निःशेषेति-सकलमूलगुणादिदोषाणाम् आलोचनां कृत्वा अङ्गविसर्गसमर्थम् देहत्यागक्षमम् उत्तमायं यावज्जीवं चतुर्विधाहारत्यागं प्रतिपद्य अङ्गीकृत्य सुरसुखकृतार्थो बभूव देवसुखं लब्बा कृतप्रयोजनो जज्ञे [ एकदा पर्वतनारदयोरजर्यष्टव्यमिति प्रवचनवाक्यमधिकृत्य वादोऽजनि, तत्र वसुरध्यक्षो जातः ] पूर्वमेव तदादेशात् क्षीरकदम्बगुरोः आशामनुसृत्य, आत्म
SR No.022417
Book TitleUpasakadhyayan
Original Sutra AuthorSomdevsuri
AuthorKailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2013
Total Pages664
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy