Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 537
________________ -पृ० १५५] उपासकाध्ययनटीका एकस्मिन्निति-उत्साहशालिनां पुंसां मनसः एकस्मिन् कोणे अनायासेन चतुर्दशभवनानि संमान्ति । उत्साहन शोभमानानाम् उद्यमिनां नराणां मनसः एकस्मिन विभागे अनायासेन विना परिश्रमं चतुर्दशभुवनानि संमान्ति । अर्थात् मनसः तादृशी शक्तिरस्ति यया चतुर्दशभुवनान्यपि जायन्ते । अथवा चतुर्दशभुवनानां स्वरूपं दर्पणतले यथा पुरत: स्थितः सकलोऽपि वस्तुनिवहों दश्यते तथा प्रतिभाति । अतः लोकोक्तिरियं सत्यति ज्ञातव्या ॥३४६॥ तृणादीनामपि हिंसनं यावता निजं प्रयोजनं सिद्धयत्तावदेव कुर्यात इति कथयति-भपेति-गवः भूमेः पयसो जलस्य पवनस्य वायोः अग्नेश्च तथा तणादीनाम आदिशब्देन वल्लीगल्मतर्वादीनां हिंसनं तावदेव कुर्यात् यावता स्वस्य कायं स्यात् कोऽसौ कुर्यात् अयं गृहस्थः । कथम् अजन्तु यत् यत्र स्थाने असा न सन्ति तस्मात्स्थानाद् गृहीतव्यं जलतणादिकमिति भावः ॥३४७।। ग्रामेति-ग्रामस्वामिस्वकार्येषु ग्रामकार्य सकलजनानां यत् कार्य तस्मिन् राज्ञा नियुक्तः गृहस्थः यथालोकं लोकस्यानतिक्रमेण लोकानुसारेण कुर्यात् एवं स्वामिकार्य निजप्रभुणा आदिष्टम्, स्वकार्यं च लोकानुसारेण कुर्याद्वा यो य आलोक आप्तोपदेशप्रकाशस्तेन तेन तत्तत्कार्यमाचरेत् इति ग्राह्यम् , यतः अत्रास्मिञ्जगति गुणदोषविभागे लोक (व गुरुतिव्यः ॥३४८।। दर्पणेति-दर्पण इन्द्रियमदेन प्रमादाद्वा कषायावेशवशतया वा। द्वीन्द्रियादिविराधने द्वीन्द्रियादिप्राणिविनाशने यथादोष दोषमनतिक्रम्य यथागमम् आगमं प्रायश्चित्तशास्त्रम् अनुसृत्य प्रायश्चित्तविधिं कुर्यात् ॥३४९॥ प्रायश्चित्तनिरुक्तिमाह-प्राय इति-लोकः प्राय इत्युच्यते माय इति शब्दो लोकस्य वाचकः । तस्य लोकस्य चित्तं मनः उच्यते । एतस्य मनसः शुद्धिकरं कर्म तपः अनशनादिकं प्रायश्चित्तं प्रचक्षते आख्यान्ति । योऽपराधी जनः प्रायश्चित्तं करोति तस्य मनसस्तत्करणाच्छुद्धिर्जायते अन्ये च ये सधर्माणः सन्ति तेषामपि मनसः संतोषोत्पादन भवति, प्रायश्चित्तं गहणतो जनस्य पुनरकार्ये प्रवृत्तिन भवति । जिनाज्ञा च प्रतिपालिता भवति ।।३५०॥ प्राज्ञाः प्रायश्चित्तस्य दातारः-द्वादशेति-आचारादिद्वादशाङ्गश्रतधारकोऽपि एकः गुरुः कृच्छ प्रायश्चित्तं दातुं नार्हति तस्मादब्रहश्रुतज्ञाः विद्वांसः प्रायश्चित्तप्रदाने अधिकारिणो मताः । एको विद्वान् देशकालादिसकलावस्थानां विमर्श कर्तुं न प्रभवति अतः विशिष्टप्रायश्चित्तदाने आचार्यों बहूनां विदुषामभिप्रायस्य सम्यगालोचनं कृत्वा प्रायश्चित्तं दातुं समर्थो भवति ॥३५१।। येन साधनेन दुष्कृतं कृतं तेनैव तस्य विनाशः कार्य इत्याह-मनसेतिमनसा चित्तेन, कर्मणा हस्तपादादिना शरीरेण, वाचा च परुषया दुरभिप्राययुतया यदुष्कृतमघम् उपाजितं संचितं तत तेनैव मनसा कर्मणा वाचा विशुद्धाभिप्रायतया तदुष्कृतं तत्पापं तथैव विहापयेत् विनाशयेत् ॥३५२॥ योगस्वरूपं निगदति-आत्मदेशेति-आत्मनः प्रदेशानां परिस्पन्दः कम्पनं योगः इति स योगविदां योगमार्गणास्वरूपस्य ज्ञातणां मतः अभिमतः । स च मनोवाक्कायतः जायते मनसा आत्मप्रदेशानां कम्पने जातो योगः मनोयोगसंज्ञां लभते । वचसात्मप्रदेशकम्पनं वचोयोगः, कायेन जोवप्रदेशचञ्चलता भवति तदा काययोगो जायते । इति त्रियोगाः पुण्यपापासवाश्रयाः पुण्यास्रवकारणत्वात् शुभयोगत्रितयम् । पापास्रवकारणत्वादशुभयोगत्रितयमुच्यते ॥३५३।। अशुभयोगत्रितयं क्रमशो दर्शयति-हिंसनाब्रह्मचौर्येति-हिंसनं प्राणिवधः अब्रह्म मैथुनसेवनम्, चौर्यादिकं च काये शरीरे कर्म अशुभं विदुः । अशुभं पापोत्पादकम् । असत्यम् असभ्यं सम्यजनायोग्यम्, पारुष्यं कर्कशम्, इत्यादि वचनविषयं कर्म अशुभवाग्योगयुक्तं ज्ञायताम् ॥३५४।। मदेयेतिमदो गर्वः, ईा द्वेषः, असूया परगुणासहनम् आदिशब्देन रागादयो विकाराः एतत्सर्व मनोव्यापाराश्रितम अशुभमनोयोगसंज्ञमुच्यते । एतद्विपर्ययात्, हिंसनादेविपर्ययात् असत्यासम्यादेविपर्ययात् मदेष्यासूयनादेविपर्ययात् शुभं कायवाङ्मनोगतं कर्म ज्ञेयम् ॥३५५।। तत्पुनः पापम् एतेषु हिरण्यादिदानेषु दत्तेषु न शाम्यतीति कथयतिहिरण्येति-हिरण्यं सुवर्ण पशुर्धेन्वादिकं भूमिः सस्योत्पत्तिक्षेत्रम् कन्या प्रसिद्धा शय्या तल्पम् अन्नम् ओदनादिकम्, वासांसि वस्त्राणि, एतेषां वस्तूनां दानः अन्यश्च पदार्थेनं पापम् उपशाम्यति । पापनाशने एतानि दानानि नोपायः। यथा लड्नेन आहारत्यागेन ओषधग्रहणेन साध्यानाम् उपशान्ति जतां रोगाणां बाहो विधिः हस्तपादमर्दनादिकम् अकिंचित्करम् रोगहरणेऽनमम् । तथा पापेऽपि दानादिकं मन्यताम्, तेन पापापायो न भवति ॥३५६-३५७॥ निहत्येति-मनोवाग्देहदण्डनः मनोनिग्रहं कृत्वा, भाषानिग्रहं विधाय, देहनिग्रहं ष कृत्वा सकलं पापं निहत्य विनाश्य, ततः दानपूजादिकं कर्म व्रतिकः करोतु ॥३५८॥ प्रत्यास्यानं विधाय

Loading...

Page Navigation
1 ... 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664