________________
-पृ० १५५]
उपासकाध्ययनटीका एकस्मिन्निति-उत्साहशालिनां पुंसां मनसः एकस्मिन् कोणे अनायासेन चतुर्दशभवनानि संमान्ति । उत्साहन शोभमानानाम् उद्यमिनां नराणां मनसः एकस्मिन विभागे अनायासेन विना परिश्रमं चतुर्दशभुवनानि संमान्ति । अर्थात् मनसः तादृशी शक्तिरस्ति यया चतुर्दशभुवनान्यपि जायन्ते । अथवा चतुर्दशभुवनानां स्वरूपं दर्पणतले यथा पुरत: स्थितः सकलोऽपि वस्तुनिवहों दश्यते तथा प्रतिभाति । अतः लोकोक्तिरियं सत्यति ज्ञातव्या ॥३४६॥ तृणादीनामपि हिंसनं यावता निजं प्रयोजनं सिद्धयत्तावदेव कुर्यात इति कथयति-भपेति-गवः भूमेः पयसो जलस्य पवनस्य वायोः अग्नेश्च तथा तणादीनाम आदिशब्देन वल्लीगल्मतर्वादीनां हिंसनं तावदेव कुर्यात् यावता स्वस्य कायं स्यात् कोऽसौ कुर्यात् अयं गृहस्थः । कथम् अजन्तु यत् यत्र स्थाने असा न सन्ति तस्मात्स्थानाद् गृहीतव्यं जलतणादिकमिति भावः ॥३४७।। ग्रामेति-ग्रामस्वामिस्वकार्येषु ग्रामकार्य सकलजनानां यत् कार्य तस्मिन् राज्ञा नियुक्तः गृहस्थः यथालोकं लोकस्यानतिक्रमेण लोकानुसारेण कुर्यात् एवं स्वामिकार्य निजप्रभुणा आदिष्टम्, स्वकार्यं च लोकानुसारेण कुर्याद्वा यो य आलोक आप्तोपदेशप्रकाशस्तेन तेन तत्तत्कार्यमाचरेत् इति ग्राह्यम् , यतः अत्रास्मिञ्जगति गुणदोषविभागे लोक (व गुरुतिव्यः ॥३४८।। दर्पणेति-दर्पण इन्द्रियमदेन प्रमादाद्वा कषायावेशवशतया वा। द्वीन्द्रियादिविराधने द्वीन्द्रियादिप्राणिविनाशने यथादोष दोषमनतिक्रम्य यथागमम् आगमं प्रायश्चित्तशास्त्रम् अनुसृत्य प्रायश्चित्तविधिं कुर्यात् ॥३४९॥ प्रायश्चित्तनिरुक्तिमाह-प्राय इति-लोकः प्राय इत्युच्यते माय इति शब्दो लोकस्य वाचकः । तस्य लोकस्य चित्तं मनः उच्यते । एतस्य मनसः शुद्धिकरं कर्म तपः अनशनादिकं प्रायश्चित्तं प्रचक्षते आख्यान्ति । योऽपराधी जनः प्रायश्चित्तं करोति तस्य मनसस्तत्करणाच्छुद्धिर्जायते अन्ये च ये सधर्माणः सन्ति तेषामपि मनसः संतोषोत्पादन भवति, प्रायश्चित्तं गहणतो जनस्य पुनरकार्ये प्रवृत्तिन भवति । जिनाज्ञा च प्रतिपालिता भवति ।।३५०॥ प्राज्ञाः प्रायश्चित्तस्य दातारः-द्वादशेति-आचारादिद्वादशाङ्गश्रतधारकोऽपि एकः गुरुः कृच्छ प्रायश्चित्तं दातुं नार्हति तस्मादब्रहश्रुतज्ञाः विद्वांसः प्रायश्चित्तप्रदाने अधिकारिणो मताः । एको विद्वान् देशकालादिसकलावस्थानां विमर्श कर्तुं न प्रभवति अतः विशिष्टप्रायश्चित्तदाने आचार्यों बहूनां विदुषामभिप्रायस्य सम्यगालोचनं कृत्वा प्रायश्चित्तं दातुं समर्थो भवति ॥३५१।। येन साधनेन दुष्कृतं कृतं तेनैव तस्य विनाशः कार्य इत्याह-मनसेतिमनसा चित्तेन, कर्मणा हस्तपादादिना शरीरेण, वाचा च परुषया दुरभिप्राययुतया यदुष्कृतमघम् उपाजितं संचितं तत तेनैव मनसा कर्मणा वाचा विशुद्धाभिप्रायतया तदुष्कृतं तत्पापं तथैव विहापयेत् विनाशयेत् ॥३५२॥ योगस्वरूपं निगदति-आत्मदेशेति-आत्मनः प्रदेशानां परिस्पन्दः कम्पनं योगः इति स योगविदां योगमार्गणास्वरूपस्य ज्ञातणां मतः अभिमतः । स च मनोवाक्कायतः जायते मनसा आत्मप्रदेशानां कम्पने जातो योगः मनोयोगसंज्ञां लभते । वचसात्मप्रदेशकम्पनं वचोयोगः, कायेन जोवप्रदेशचञ्चलता भवति तदा काययोगो जायते । इति त्रियोगाः पुण्यपापासवाश्रयाः पुण्यास्रवकारणत्वात् शुभयोगत्रितयम् । पापास्रवकारणत्वादशुभयोगत्रितयमुच्यते ॥३५३।। अशुभयोगत्रितयं क्रमशो दर्शयति-हिंसनाब्रह्मचौर्येति-हिंसनं प्राणिवधः अब्रह्म मैथुनसेवनम्, चौर्यादिकं च काये शरीरे कर्म अशुभं विदुः । अशुभं पापोत्पादकम् । असत्यम् असभ्यं सम्यजनायोग्यम्, पारुष्यं कर्कशम्, इत्यादि वचनविषयं कर्म अशुभवाग्योगयुक्तं ज्ञायताम् ॥३५४।। मदेयेतिमदो गर्वः, ईा द्वेषः, असूया परगुणासहनम् आदिशब्देन रागादयो विकाराः एतत्सर्व मनोव्यापाराश्रितम अशुभमनोयोगसंज्ञमुच्यते । एतद्विपर्ययात्, हिंसनादेविपर्ययात् असत्यासम्यादेविपर्ययात् मदेष्यासूयनादेविपर्ययात् शुभं कायवाङ्मनोगतं कर्म ज्ञेयम् ॥३५५।। तत्पुनः पापम् एतेषु हिरण्यादिदानेषु दत्तेषु न शाम्यतीति कथयतिहिरण्येति-हिरण्यं सुवर्ण पशुर्धेन्वादिकं भूमिः सस्योत्पत्तिक्षेत्रम् कन्या प्रसिद्धा शय्या तल्पम् अन्नम् ओदनादिकम्, वासांसि वस्त्राणि, एतेषां वस्तूनां दानः अन्यश्च पदार्थेनं पापम् उपशाम्यति । पापनाशने एतानि दानानि नोपायः। यथा लड्नेन आहारत्यागेन ओषधग्रहणेन साध्यानाम् उपशान्ति जतां रोगाणां बाहो विधिः हस्तपादमर्दनादिकम् अकिंचित्करम् रोगहरणेऽनमम् । तथा पापेऽपि दानादिकं मन्यताम्, तेन पापापायो न भवति ॥३५६-३५७॥ निहत्येति-मनोवाग्देहदण्डनः मनोनिग्रहं कृत्वा, भाषानिग्रहं विधाय, देहनिग्रहं ष कृत्वा सकलं पापं निहत्य विनाश्य, ततः दानपूजादिकं कर्म व्रतिकः करोतु ॥३५८॥ प्रत्यास्यानं विधाय