________________
४१४ पं० जिनदासविरचिता
[पृ० १५०[पृष्ठ १५०-१५५] अहिंसादिगुणलाभाय मैत्र्यादिभावनाभ्यास: कार्य:-मैत्रीति-मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि यथाक्रमं । सत्त्वे गुणाधिक क्लिष्टे निर्गुणेऽपि च भावयेत् । मंत्र्यादीनां सत्त्वादीनां च क्रमशो वैशा स्वयं ग्रन्थकारः पृथक्तया कथयति ॥३३४॥ कायेनेति-कायेन शरीरेण मनसा वाचा च परे अन्यस्मिन् सर्वस्मिन् देहिनि प्राणिनि अदुःखजननी दुःखं कस्यापि माभूत् इति मनोवृत्तिः मैत्रीविदां मंत्री विदन्ति जानन्ति इति मैत्रीविदः तेषां मैत्री मता परेषां दुःखानुत्पत्त्यभिलाषो मैत्री संमता ।।३३५।। तपोगुणेतितपसा अधिके गुणः सम्यग्दर्शनादिभिश्च अधिके गरीयसि सि साधर्मिके जने । प्रश्रयाश्रयनिर्भरः प्रश्रयः विस्रम्भो विनयो वा तस्य आश्रय आधारः तेन निर्भरः पर्णः जायमानः- मनोरागः मनोभक्तिः प्रमोदः । वदनप्रसादादिभिरभिव्यज्यमानान्तभक्तिरागः प्रमोदः इति विदुषां मत: विबधानां मतः संमतः ॥३३६॥ दीनेतिअसāद्योदयापादितक्लेशा: क्लिश्यमानाः दीनाः तेषां दोनानाम अभ्यद्धरणे दारिद्रयरोगादिपीडापनयने या बुद्धिः संकल्पः तत्कारुण्यम् । माध्यस्थ्यस्य लक्षणमेवम-निर्गणात्मनि तत्त्वार्थश्रवणग्रहणाभ्यामसंपादितगुणो निर्गुणात्मा तस्मिन् अविनेये हर्षामर्षोज्झिता वृत्तिर्माध्यस्थ्यं रागद्वेषरहितो मनःस्वभाव: उपेक्षाभावः माध्यस्थ्यमुच्यते ॥३३७॥ इत्थमिति–एवं मंत्र्यादिभावनोपेतस्य प्रयतमानस्य ईर्यादिसमितितत्परस्य गृहस्थस्यापि देहिनः स्वर्ग: करस्थो जायते । अस्य गृहस्थस्य च तत्पदं मुक्तिपदं दूर नास्ति स्तोकभवैलभ्येत एव तत् ॥३३८॥ दयावति नरे पापाभावः-पुण्य मिति-पुण्यं तेजःस्वरूपम्, पापं दुष्कृतं तमोमयम् अन्धकारमयम् प्राहुब्रुवन्ति विद्वांसः । तत्पापं दयादोधितिमालिनि दयारूपा दीधितिमाला किरणमाला यस्य स दयादीधितिमाली तस्मिन् दयादीधितिमालिनि कृपारश्मिमति पुरुषसूर्ये तत्पापं किं तिष्ठेत् अपि तु वत्र पापं नैव तिष्टेत् ॥३३९॥ सेतियस्यां क्रियायां हिंसा नंवास्ति सा क्रिया कापि इहलोके नास्ति परम् अत्र क्रियायां मुख्यानुषङ्गिको भावी विशिष्यते । यदा इम प्राणिनं हिनस्मीति संकल्पो यत्र क्रियायां वर्तते सा क्रियव हिंसामयो ज्ञायते । यदा च क्रिया भवति परं तया साकं हिंसासंकल्प: न विद्यते तत्र गौणो भावो हिंसायाः भवति अत एव स भाव: आनुषङ्गिको ज्ञेयः ।।३४०॥ हिंसकाहिंसकयोः स्वरूपम्--अध्नन्नपि इति-कश्चन जनः अघ्नन्नपि प्राणिमारणम् अकुर्वाणोऽपि अभिध्यानविशेषेण हिंसासंकल्पेनैव पापी भवेत् । निघ्नन्नपि पापभाक् न प्राणिपीडां कुर्वाणोऽपि पापवान् न भवति । कथम् । प्राणिहिंसायाः असंकल्पनात् । यथा धीवरः सततहिंसाध्यवसायवान् भवति अतः स अघ्नन्नपि पापी स्यात् । कर्षकस्य भूमिवर्षणसमये जीवहिंसनम् अनिवार्य तथापि जीवहिंसासंकल्पेन स भूमिकर्षणे न प्रवर्तते अतः स पापभाक् न भवति । कर्षकस्य अभिध्यानविशेषः जीवमारणसंकल्परहितो भवति । धीवरस्य च अभिध्यानविशेषे तद्वधसंकल्पः सर्वदा विद्यते अत: अघ्नन्नपि पापी भवत्येव ॥३४१।। अभिध्यानविशेष द्वितीयेन निर्देशेन व्यनक्ति-कस्यचिदिति-दारान्मातरमन्तरा एकपाचे दारास्तिष्ठन्ति द्वितीयपावें माता तिष्ठति तयोर्मध्ये संनिविष्टस्य उपविष्टस्य तस्य वपुःस्पर्शाविशेषेऽपि उभयोर्जननीभार्ययोरङ्गस्पर्श समानेऽपि शेमुषी त विशिष्यते बद्धिविशेषो भवत्येव पथक्त्वेन, इयं माता, भार्येयमिति च भिन्नविषया बद्धिर्यगपत्पद्यते ॥३४२।। तदुक्तम्-परिणाममेवेति-कुशलाः पण्डिताः खलु पुण्यपापयोः परिणाममेव अभिध्यानमेव कारणं ब्रुवन्ति । तस्मात्पुण्योपचयः शुभपरिणामेभ्यः सुकृतसंचयः सुविधेयः कार्यः । तथा पापापचयः पापानां दुरितानाम् अपचयः हानिविनाशः सुविधेयः करणीयः ॥३४३।। वपुषः इति-वपुषः शरीरस्य । वचसः भाषणस्य वा शुभाधारा अशुभाधारा या क्रिया भवति सा कियत्स्वेव वस्तुषु स्थू पदार्थेषु क्रमेणैव भवेत् । युगपत् नैव भवेत् । सूक्ष्मवस्तुपु तथा गुणेषु वचसः प्रवृत्तिः शरीरस्य च नैव भवति । अतः आभ्यां पृथक् विशेषतां मनो बिभर्ति । यां काचन शुभाम् अशुभां वा प्रवृत्तिं वपुर्वचसी कुरुतस्तां मनः अवलम्ब्यैवेति ज्ञेयम् । विना चित्तं ते तां कर्तुं न क्षमे अतः अत्र मनोविषयक्रियासु नरः प्रयत: सावधानो भवेत् । मनसो या क्रिया भवति सा लोकत्रितयादपि महत्तरा जायते । तथा एकस्मिन्क्षणे जायते । अतः मनःक्रियासु विवेकेन भाव्यमन्यथा महान् पापबन्धः स्यात् ।।३४४।। क्रियान्योति-कियत्स्वेव वस्तुषु दानपूजादिषु शुभेषु हिमादिष्वशु भेषु या कायिकी व वःसंबन्धिनी वा क्रिया भवति सा क्रमेणैव भवति परं। मनसो या क्रिया भवति स लोकत्रितयादपि महत्तरा जायते तथा एकस्मिन् क्षणे जायते । अतः मनःक्रियासू विवेकेन भाव्यमन्यथा महान् पापबन्धः स्यात् ॥३४५।।