________________
-पृ० १४६] उपासकाध्ययनटीका
४१३ इच्छानिरोधः तस्य परिवृद्धये समन्तादुपचयाय। व्रतबीजवृतिक्रियाः बीजस्येव व्रतानाम् आवेष्टकक्रियाः रक्षोपायाः येषु ते अन्तरायाः सन्ति ॥३२४॥ अहिंसाव्रतेति-अहिंसाव्रतस्य पालनार्थम् । मूलवतानाम् अष्टमूलगुणानां विशुद्धये अतिचाररहितत्वाय निशायां भुक्ति भोजनं वर्जयेत् परिहरेत् । यतः सा इहामुत्र दुःखदायिनी भवति ॥३२५॥ आश्रितेष्विति-सर्वेषु आधितेषु मनुष्येषु पक्षिषु पशुषु च अनन्यस्वामिकेषु। यथाव. द्विहितस्थितिः यस्य येन अन्नादिना शरीरपोषणं स्यात् तेन तस्य तथा करणीयम् । एवम् आश्रितानां भरणं विधाय शारीरे अवसरे आहार ग्रहणसमये स्वयं गृहाश्रमी गृहस्थः समीहेत यत्नं कुर्यात् ॥३२६॥ संधानमिति-यत्र रसकायिका जीवा अनन्तशो जायन्ते तत्संधानकम् । पानक दधिगुडचातुर्जातकादिद्रव्योद्भवम् । धान्यं शाल्यादिकम् । पुष्पं कुसुमम् । मूलं वृक्षवल्ल्यादेः पादाः, दलं पत्रम् । यद् यद् जीवयोनि जीवस्य यदुत्पत्तिस्थानं तत् न संग्राह्यम् । यच्च जीवरुपद्रुतं कीटकः उपद्रुतं छिद्रितं तत् न संग्राह्यम् ॥३२७॥ अमिश्रमिति-अन्येन अन्नादिना मिश्रणम् अकृतमपि कालाश्रयेण वर्षाकालाद्य वलम्बन उत्सगि ग्राह्यमपि किंचिद्वस्तु जीवयोनित्वात् जीवरुपद्रतत्वाद्वा जिनागमे त्याज्यं भवति । किंचिद्वस्तु शीतोष्णादिदेशाश्रयेण, किंचिद्वस्तु जीर्णादि पुष्पितादि. दशाश्रयेण प्रागुत्सगि सपि जिनागमे त्याज्यं भवति । किंचिद्वस्तु मिश्रमपि कालदेशदशा अवलम्ब्य अग्राह्यं भवति ॥३२८॥ यदन्त इति-यस्य अन्त: मध्ये सुषिरं छिद्रं प्रायः बहुशः वर्तते तन्नालीनलादि कमलनालं नलादि देवनालवेत्रादिकं मदु वेवादिकं हेयं त्याज्यम, तत्सपिरे सजीवानाम् आगन्तुकानां संभवात् । तथा अनन्तकायिकप्रायम् अनन्तजीवानां शरीरं यद्भवति तदनन्तकायिकं प्रायः बहुशः अनन्तकायिकतुल्यं च यद्बहजीवनिचितं त्रसजीवसंकीणं च भवति तद्वल्लीकन्दादिकं त्यजेत् । या वल्ली. कोमला विद्यते, तस्याः किसलयवृन्तादिकं कोमलम् अनन्तकायिकं च भवति अतस्तत् प्रतिभिहेयम् । कन्दादिकं च पलाण्डुसूरणादिकं च बहुतराणां तदाश्रितजीवानाम् आश्रयस्थानत्वात् त्याज्यम् । अन्यथा तद्भक्षयतां जिह्वेन्द्रियप्रीणनमात्रं फलमल्पं भवति बहुजीवानां घातश्च भवति ॥३२९।। द्विदलभिति-द्विदलं मुद्गमापादिधान्यं द्विदलं द्वे दले विभागी यस्य पृथक्तया पेषणादिना जाते तद्विदलं मद्गमाषादिकं सखण्डं प्राश्यं भक्षणीयम् तत्र सखण्डत्वात् अङ्करशक्त्यभावः । अनवतां गतं द्विदलम् अकृतद्विदलभावं द्विदलं जीणं प्रायेण प्राश्यम् यदि अदृष्टजन्तुसम्मछेनं विद्येत । जन्तुसम्मूर्छन तद्धेयम् । सिम्बयः भल्लराजमाषप्रमुखफलिकाः सकलाः त्याज्या न भक्षणीयाः । कदा न भक्षणीयाः । याः सकलाश्च साधिता स्युः अकृतद्विधाभावा एव यदि अग्निना पाचिताः स्युस्तहि तासां भक्षणं पापप्रदं स्यात्, अखण्डत्वात् तद्गतत्रसजीवानाम् अग्निसंयोगेन मृति प्राप्तत्वात् ।।३३०।। दयालुतायाः यत्राभावस्तद्वर्णनम्तत्रेति-यत्र बह्वारम्भपरिग्रहस्तत्राहिंसा कुतः । प्राणिपीडाहेतुव्यापार आरम्भः । ममेदं बुद्धिलक्षणः परिग्रहः । बहव आरम्भपरिग्रहा यस्य तस्मिन्नरे अहिंसा कुतो भवेत् । तत्र कोमलपरिणामाभावात् लोभाकुलत्वात् च दयाभावो न भवति । वञ्चके परप्रतारणशीले नरे कुशीले परललनालम्पटे च दयालुता नास्ति ।।३३१।। कस्य जीवस्य असद्वेद्यं कर्म बध्यते । शोकेति-स्वपरयोः शोकसंतापसंक्रन्दपरिदेवनदुःखधीः भवजन्तुः असāद्याय जायते । अन्यस्मिञ्जने स्वस्मिश्च शोकायुत्पादिका यस्य बुद्धिर्भवति स जन्तुः प्राणी असāद्याय असत् अशुभं दुःखदायकं वेद्यं वेदनीयाख्यं कर्म असद्वेद्यं तस्मै हेतुर्जायते भवति । शोकादीनां व्याख्याः क्रमशः-अनुग्राहकसंवन्धविच्छेदे वैक्लव्यविशेषः शोकः । परिवादादिनिमित्तादाविलान्तःकरणस्य तीव्रानुशयः संतापः । परितापजाताथुपातप्रचुरविलापादिव्यक्तक्रन्दनं संक्रन्दनम् । संक्लेशपरिणामावलम्बनं गणस्मरणानुकीर्तनपूर्वकं स्व. परानुग्रहाभिलाषविषयमनुकम्पाप्रचुरं रोदनं परिदेवनम् ॥३३२।। चारित्रमोहास्रवं निगदति-कषायेति-यस्य भावः कषायोदयतीवात्मा उपजायते असौ जीवः चारित्रमोहस्य समाश्रयो जायेत । यस्य जीवस्य भावः क्रोधादिकपायाणाम् उदयात्तीव्र उत्कट: भवति स चारित्रमोहकर्मणः समाश्रयः अवलम्बनं भवति । ततश्च स जीवः व्रतादिपालने समर्थो न भवति । तस्मिन हिंसादिपापसंभवो भवति ॥३३३॥
१. सर्वार्थसिद्धौ ‘दुःखशोकादि' सूत्रस्य टोकायां व्याख्या इमाः द्रष्टव्याः ।