________________
४१२
पं० जिन्दासविरचिता
[पृ०१४३२६. अहिंसाफलावलोकनो नाम षड्विंशः कल्पः [पृ० १४३-१४९ ] अथ के ते उत्तरगुणा:-उत्तरे मूलगुणानन्तरं सेव्यत्वादुत्कृष्टत्वाच्च ते च ते गुणाश्च उत्तरगणाः के ते इति प्रश्ने उत्तरमाह-अणुव्रतानीति–पञ्चैव अणुव्रतानि, त्रिप्रकार त्रिविधं गुणवतम् । चत्वारि शिक्षाव्रतानि एवं द्वादश उत्तरे गुणाः स्युः । गुणार्थम् अणुव्रतानाम् उपकारार्थ व्रतं गुणवतं दिग्विरत्यादीनाम् अणुव्रतानुबृहणार्थत्वात् । शिक्षाप्रतम्-शिक्षायै अभ्यासाय व्रतं देशावकाशिकादीनां प्रतिदिवसाभ्यसनीयत्वात् । अतएव गुणदतादस्य भेदः । गुणवतं हि प्रायो यावज्जीविकमाहुः । अथवा शिक्षा विद्योपादानं शिक्षाप्रधानं व्रतं शिक्षाप्रतम् । देशावकाशिकादेविशिष्टश्रुतज्ञानभावनापरिणतत्वेनव निर्वाह्यत्वात् ॥३१४।। तत्र-हिंसास्तेयेति-हिंसायाः प्राणिवधस्य देशतः स्थूलत्वेन त्रसजीववधस्य विनिग्रहो विरतिस्त्याग इति, प्रथमम् अणुव्रतम् । स्तैयस्य देशतो विनिग्रहः, अनुतस्य देशतो विनिग्रहः, अब्रह्मणो देशतो विनिग्रहः तथा परिग्रहाणां देशतो विनिग्रहः एतानि पञ्चाणवतानि प्रचक्षते ख्यान्ति ॥३१५॥ व्रतस्य लक्षणम-संकल्पेतिसेव्ये स्वदारताम्बूलादी, संकल्पपूर्वक: इदं इयदेतावन्तं कालं न सेविष्ये इति मनसा अध्यवसायं कृत्वा नियमः प्रतिज्ञा व्रतं स्यात् अथवा अहम् इदम् इयत् एतावन्तं कालं सेविष्याम्येवेति संकल्पेन नियम: प्रतिज्ञा व्रतं स्यात । अथवा सत्कर्मसंभवा प्रवृत्तिव्रतं स्यात् । किं विशिष्टा संकल्पपूर्विका शुभकर्मणि पात्रदानादिके संभवो यस्याः सा। अथवा असत्कर्मसंभवा निवृत्तिव॑तं स्यात् हिंसादिकम् असत्कर्म तस्मानिवत्तिः विरतिः संकल्पपविका एवं व्रतस्य स्वरूपम् ॥३१६॥ हिंसादिभ्यो विपत्तिदुर्गतो अत्र परत्रेति चोच्यते-हिंसायामितिहिंसायाम्, अनृते असत्यभाषणे, चौर्या स्तेये, अब्रह्मणि मैथुने, परिग्रहे ममत्व अत्रैव विपत्तिर्दृष्टा वधबन्धपरिक्लेशादिरूपा। परत्र परलोके नरकादौ दुर्गतिर्लभ्यते ॥३१७॥ हिंसाहिसयोः स्वरूपमाह - यदितियस्मात प्रमादयोगेन कषायावेशेन अनवधानतया इन्द्रियाणां प्रचारमनवधार्य वा। प्राणिषु प्राणहापनम इन्द्रियादयो दशप्राणाः तेषां यथासंभवं व्यपरोपणं वियोगकरणं हिंसेत्यभिधीयते । तेषां प्राणानां रक्षणम् अहिंसा सा सतां मुनीनां मान्या ॥३१८॥ विकथेति--स्त्रीकथादयश्चतस्रः । अक्षाणि इन्द्रियाणि पञ्च । कषायाश्चत्वारः क्रोधमानमायालोभाः । निद्रा प्रणयश्च । एषाम् अभ्यासे पुनः पुनरावर्तने रतो जन्तुः प्रमत्तः परिकीर्तितः प्रतिपादितः ॥३१९॥ अहिंसावतमाह-देवतेति-देवतायै, अतिथये, पितृभ्यः, मन्त्राय, औषधाय, भयाय च सर्वान् जीवान् न हिंस्यात् न घातयेत् । अहिंसा नाम तद्वतं भवेत् ॥३२०॥ गृहकार्याणीति-सर्वाणि गृहकार्याणि पेषणादिकानि पञ्च दृष्टिपतानि दृष्टया सम्यनिरीक्षितानि कारयेत् । सर्वाणि द्रवद्रव्याणि जलघततैलादीनि पटपतानि वस्त्रगालितानि योजयेत् पानादिकार्येषु ॥३२१॥ आसनमिति-आसनं पीठम्, शयनं शय्या,मार्ग पन्थानम, अन्नम् ओदनादिकम् अन्यच्च यत् वस्तु तत् अदृष्टं दृष्टया अवीक्षितं न सेवेत नोपयुज्यात् । यथाकालं भजन्नपि यस्मिन्काले यदासनादिकं सेव्यते तत् दृष्टया सम्यग्वीक्ष्य भजेत् तथा च हिंसादोषस्पर्शो न भवेत विपदादिकप्राप्तिर्वा न भवेत् ॥३२२॥ दर्शनेति-भोजनान्तरायान् विवृणोति-दर्शनेत्यादि-दर्शनत्यक्तभोजिसा. स्पर्शत्यक्तभोजिता, संकल्पत्यक्तभोजिता, संसर्गत्यक्तभोजिता, हिंसनाक्रन्दनप्रायाः प्राशप्रत्यूहकारकाः आर्द्रचर्मास्थिसूरामांसासकपयानां दर्शनात प्रतिकेन अशनं दृष्ट्वा स्पृष्ट्वा च तात्कालिकाहारस्त्यक्तव्यः । इयं दर्शनत्यक्तभोजिता। स्पर्शत्यक्तभोजिता चैवम्-रजस्वला स्त्री. शके चर्मास्थिनी, शनकमार्जारश्वपचादिक स्पृष्ट्वा आहारस्त्यक्तव्यः । संकल्पत्यक्तभोजिता-इदं भुज्यमानं वस्तु, मांसं सादृश्यात्, इदं रुधिरम, इदमस्थि, अयं सर्प इत्यादिरूपेण मनसा भोज्यवस्तुनि विकल्प्यमाने अशनं त्यजेत् । संसर्गत्यक्तभोजिता-द्वित्रिचतुरिन्द्रियप्राणिभिः अन्ने संसृष्टः भोज्यद्रव्यात्पृथक् कर्तुमशक्यः जीवद्भिः मृतैर्वा बहुभिस्त्रिचतुरादिभिः युक्तम् अशनं त्यजेत् । तथा हिंसनाक्रन्दनप्रायाः अतिकर्कशस्वरम् अस्य मस्तकं कृन्धि इत्यादिरूपम् आक्रन्दनिःस्वनं हाहेत्याद्यार्तस्वस्वभावं विड्वरप्रायनिःस्वनम् परचक्रागमनातङ्कप्रदीपनादिविषयम् आकर्ण्य भोजनं त्यजेत् । प्रायः शब्देन नियमितं प्रत्याख्यातं वस्तु भुक्त्वा अशनं त्यक्तव्यम् । एवं प्राशप्रत्यूहकारकाः भोजनान्तरायकारका ज्ञातव्याः ॥३२३॥ अतिप्रसंगेति-सद्भिः गणधरादिदेवैः अन्तरायाः भक्तजनहेतवः स्मृताः कथिताः । किमर्थ स्मृताः अतिप्रसंगहानाय अतिप्रसंगस्य विहितातिक्रमेण उपर्युपरि प्रवृत्तिः तस्य हानाय त्यागाय। तपः