________________
-पृ० १४३]
उपासकाध्ययनटीका २५. मांसनिवृत्तिफलाख्यानो नाम पञ्चविंशतितमः कल्पः [पृ० १४२-१४३ ] श्रूयतामत्र मांसनिवृत्तिफलस्योपाख्यानम्-चण्डमातङ्गस्य कथा-अवन्तिमण्डलेति-अवन्तयश्च ते मण्डलाश्च अवन्तिमण्डलास्त एव नलिनं कम तस्मिन्नभिनिवासे सरसी रसयुक्ता या एकानसोनाम पुरी तस्याः पुरबाहिरिकायां तस्याः पुरो बाह्यप्रदेशे । देविलेति-देविला चासो महिला पत्नी देविलाख्या पत्नी तस्या विलासा एव विशिखा बाणास्तेषां वृत्त्या संबन्धेन कोदण्डस्य धनुःसदृशस्य चण्डनाम्नो मातङ्गस्य एकस्यां दिशि । निवेशितेति-निवेशितं स्थापितं पिशितं मांसम् उपदंशश्च तद्रोचकभक्ष्यद्रव्यं च येन तस्य । अपरस्यां दिशि । विन्यस्तेति-विन्यस्तः स्थापितः सुरया मदिरया संभृतः पूर्णः कलशो येन तस्य । पुनः कथंभूतस्य चण्डमातङ्गस्य पलोपदंशोदारां सुरां मांसभक्षणे रुच्युत्पादकरूपाम् उदारां विपुलां सूरां पायं पायं पीत्वा पीत्वा तदुभयान्तराले तयोरुभययोः अन्तराले मध्ये चर्मनिर्माणतन्त्रां चर्मणा निर्माणं रचना तदेव तन्त्रं हेतुर्यस्यां तां वरत्रां वद्धों वर्तयतः रचयतः चण्डमातङ्गस्य । वियदिति-वियति आकाशे विहारो भ्रमणं तदर्थम् उड्डोनः उत्पतनं कुर्वाणः अण्डजडिम्भः पक्षिशिशुः तस्य तुण्डेन मुखेन यत्खण्डनं तस्मात् । विनिष्यन्दि स्रवत् यद्विषधरविषं सर्पविषं तस्य दोषस्यावसरो यत्र तथाभूता सुराभवत् । सर्पविषबिन्दोः पतनात्मविषा मदिरा जातेति भावः । अत्रैवावसरे अस्मिन्नेव प्रस्ताव तत्समीपवमंगोचरे चण्डमातङ्गनिवासस्य समीपमेव मार्गे धर्मेति-धर्मश्रवणम्, जन्मान्तरादिप्रकटनम् इत्याद्युपाययुक्ताभिः कथाभिः विनेयजनाः शिष्यास्तेषामुपकाराय कृतेति-कृतः उत्पन्ना कामचारः इच्छा तेन प्रचारो भ्रमणं यस्य, पुनः कथंभूतम् ऋषियुगलम् । मूर्तिमदिति-मूर्तिमत् सदेहं स्वर्गमोक्षमार्गयुग्ममिव अम्बरात् आकाशात् अवतरत् अधः आगच्छत् ऋषियुग्मम् अवलोक्य संजातकुतूहल: उत्पन्न विस्मयः । तं देशं मुनिप्रदेशम् अनुसृत्य नगरे मुनिवरावलोकनात् श्रावकलोकं व्रतानि समाददानं गृह्णन्तम अनुस्मृत्य ज्ञात्वा । समाचरितप्रणामः विहितवन्दनः । सुनन्दमुनेः अग्रेसरगमनम् अभिनन्दनं भगवन्तम् आत्मोचितं तमयाचत । भगवान् । उपकारायेति-पर्जन्य इव यथा मेघवृष्टि : सर्वस्य उपकाराय तथा धार्मिकः सर्वस्य उपकाराय हितोपदेशेषु प्रवर्तते । यथा मेघवृष्टेः स्थानास्थानचिन्ता नास्ति तथा हितोक्तिपु अपि धार्मिकस्य सान भवति ॥३१२॥ इत्यवगम्य ज्ञात्वा सम्यगिति-सम्यक् सम्यग्दर्शनयुक्तं यदवधिज्ञानं तस्योपयागात् अवगतः ज्ञातः एतस्य चण्डमाङ्गस्य आसन्नारासुतायोगः आसन्नः समीपः परासुताया मरणस्य योगः संबन्धः येन स भगवाञ्चारणषिः तं मातमेवम् अवोचत । 'अहो मातङ्ग, तभयान्तराले सजां रज्जं भिन्नदिशोः स्थितयाः पिशितसुराकुम्भयोरन्तराले मध्ये सज्जां स्थितां रज्जू वरत्रां सजतः निमिमाणस्य तन्मध्ये तव तन्निवृत्तिव्रतम् तयोः पलसुरयोस्त्यागस्य व्रतम्' इति मातङ्गस्तथा प्रतिपद्य स्वीकृत्य तम् अवकाशं तत्स्थानम् उपसद्य प्राप्य पिशितं प्राश्य भक्षयित्वा यावदहम् इदं स्थानकं नायामि यावत कालम् अहम् एतत्स्थान प्रदेश नायामि नागच्छामि तावन्मेऽस्य पिशितस्य निवत्तिस्त्यागः। इत्यभिधाय समासादितमदिरास्थानः लब्धसुराकलशप्रदेशः प्रतिपन्नपानः पीतसुरः। तदुग्रतरगरभरात् तस्य विषधरस्य उग्रतरं तीव्रतरं यत् गरं विषं तस्य भरात्प्रभावात् लघुल्लङ्गितमतिप्रसर: लघु शीघ्रम् उल्लंधितः विनष्टः मतिप्रसर: चेतनाविलासः यस्य । विषवेगान्मच्छितस्येत्यर्थः-तन्निवत्ति मद्यमांपयोः निवति त्यागम अलभमानचित्तोऽपि अप्राप्तमानसोऽपि प्रत्य मृत्वा तावन्मावतमाहात्म्येन स्तोककालं यावद्गहीतव्रतप्रभावेन यक्षकूले यक्षमख्यत्वं प्रतिपेदे प्राप । भवति चात्र श्लोकः-चण्डेति-अवन्तिपु देशेषु चण्डो मातङ्गः अत्यल्पकालभाविन्या: अतिस्तोकसमयसंजातायाः विशितस्य निवत्तितः मांसस्य त्यागात् यक्षमुख्यतां प्राप यक्षाणां व्यन्तरदेव विशेषाणाम् अग्रणीमहद्धिकोऽभवत् ।।३१३॥
इन्युपासकाध्ययने मांसनिवृत्तिफलाख्यानो नाम पञ्चविंशतितमः कल्पः । २५॥