________________
४१० पं० जिनदासविरचिता
[पृ० १४२स्वीकृतप्रतिज्ञावसानगमनात् जननिन्दनात् च भीतिमतिः, मनोविश्रान्तिहेतुना मनःसमाधानकारणेन कर्मप्रियति नाम . एवं केतुः ध्वजः यस्य तेन बल्लवेन पाचकेन रहसि एकान्ते बिलस्थल जलान्तरालचरतरसमानाययन्नपि बिलचराः मूषकादयः, स्थलचरा: अजादयः, जलचराः मत्स्यादयः, अन्तरालचरा: शुकादयः तेषां तरसं पाचकेन अनाययन अपि, अनेकराजकार्यपर्याकुलमानसतया नानाविधराजकीयविधानव्याप्तचित्ततया मांसभक्षणवेलां नावाप न प्राप्नोत् । कर्मप्रियोऽपि तथा अनुदिनम् अहरहः पृथ्वीश्वरनिदेशमनुतिष्ठन् महीपतेरादेशम् आचरन्, एकदा पदाकुपाकोपद्रुतः पृदाकुः सर्पः तस्य पाकः शिशुः तेन उपद्रुतः पीडितः तेन दष्टः इति भावः, प्रेत्य मृत्वा स्वयंभूरमणाभिधानमुद्रे समुद्रे स्वयंभ्रमणेति अभिधानं नाम तदेव मुद्रा चिह्नं यस्य तस्मिन् समुद्रे सागरे महादेवबल: महादेववत् बलं यस्य स तिमिङ्गिलगिल: तिमिङ्गिलो नाम महान् मत्स्यः तमपि गिलति इति तिमिलिगिलः जज्ञे । भूपालोऽपि चिरकालेन कथाशेषतामाश्रित्य कथा एव शेषा यस्य स कथाशेषस्ताम् आश्रित्य मृत्वैत्यर्थः । पिशितेतिपिशितस्य मांसस्य अशनं भक्षणं तस्याशयोऽभिध्यानम् इच्छा तस्य अनुबन्धात् संस्कारात् । तत्रैव सिन्धौ तस्यैव महामीनस्य कर्णबिले तन्मलाशनशीलः तस्य कर्णस्य यो मल: तस्याशनं भक्षणं शीलं स्वभावो यस्य । शालिसिक्यकलकलेवरः शाल्याः सिक्थं तण्डुलः तत्प्रमाणं कलं मनोहरं कलेवरं शरीरं यस्य तथाभतः शफरः मत्स्योऽभवत् । तदनु तदनन्तरम् एष शालिसिक्यो मौनः पर्याप्तोभयकरणः पूर्णलब्धद्रव्यभावेन्द्रियः । वदनं मुखं व्यादाय उद्बाटय निद्रायतः निद्राणस्य स्वपतः, गलगुहावगाहे गल: कण्ठः स एव गुहा गह्वरं तस्य अवगाहे विस्तारे वेलानदीप्रवाह इव समुद्रकूले संप्राप्तसरिदोघ इव अनेक जलचरानोक नानाविधमत्स्यादिजलजन्तु. समूहः प्रविश्य तथैव निष्क्रामन् निर्गच्छन् निरीक्ष्य ( तन्दुलमत्स्यः मनसि विमशति ) पापकर्मा पापम् अन्तरायाख्यं कर्म यस्य सः, अत एव निर्भाग्याणां दुर्दैववतां च अग्रणीधर्मा अग्रेसरधर्म बिभ्राणः, खल्वेष झषः मत्स्यः, यद्वक्त्रसंपातनचेतांस्यपि यस्मात् वक्त्रे वदने संपातनम् उत्पतनं तत्र चेतांसि येषां तथाभूतानि यादांसि जलजन्तून् अशितुं भक्षयितुं न शक्नोति समर्थो न भवति । मम पुनर्यदि हृदयेप्सितप्रभावान्मनोऽभिलषितसामर्थ्यात् दैवात् एतावन्मात्रं गात्रम् एतच्छरीरप्रमाणं शरीरं स्यात् तदा समस्तमपि समुद्रं विद्रुतसकलसत्त्वसंचारमुद्रं विद्रुता नष्टो सकलसत्त्वानां सर्वप्राणिनां संचारस्य भ्रमणस्य मुद्रा चिह्नं यस्य तं विदधामि । यदि मे महामत्स्यदेहतुल्यो देहो भविष्यति तदा सकलाञ्जलचरान् भक्षयित्वा समुद्रं जलशेषं करिष्यामि । इति अभिध्यानान्मनःसंकल्पनात् अल्पकायकल: शकुल: अल्पकायम अल्पशरीरं कलति धारयति इति अल्पकायकलः शकुल: मत्स्यः निखिल. नक्रचक्रचाराच्च महादेहाधीनो निखिला: सकलास्ते नक्राः मकराः तेषां चक्रं समूहः तस्य चारो भक्षणं तस्मात महादेहवान् स मीनः कालेन विपद्य मत्वा उत्पद्य च जनित्वा च उत्तमतः त्रयस्त्रिशत्सागरोपमायुः निलये निरये त्रयस्त्रिंशत्समुद्रतुल्यदीर्घकालजीवनस्य गृहे नरके सप्तमे भवप्रत्ययायत्ताविर्भूतज्ञानविशेषो भवो जन्म स प्रत्ययो हेतुः तस्य आयत्तः अधीनः आविर्भूतः प्रकटीभूतः ज्ञानविशेषो ययोस्तो अनिमिषचरी भूतपूर्वमत्स्यो नारकपर्यायधरी किल एवं वक्ष्यमाणम् आलापम् अन्योन्यसंबोधनपूर्वकं भाषणं चक्रतुः। अहो क्षमत्स्य, तथा निर्मितकर्मणः दुष्कर्मणः निर्मितम् उत्पादितं क्रूरतया जलचरजीवभक्षणात्मकं कर्म कार्य येन सः तस्य मम दुष्कर्मणः पापकर्मणो नारकायुष उदयात् मम अत्रागतिः आगमनम् उचितव योग्या एव । तव तु मत्कर्णबिले मलोपजीवनस्य कर्णमलेन उपजीवनम् उदरनिर्वाहो यस्य कथमत्रागमनमभूत् सर्वथा मांसाहाररहितस्य प्राणिवधरहितस्य च तवात्रागमनं शक्यं नेति (महामत्स्येनोक्ते तन्दुलमत्स्यो वदति) हे महामत्स्य, चेष्टितादपि दुरन्तदुःखसंबन्धनि बन्धनादशुभध्यानात् । शारीरिकाज्जोववधविरहितव्यापारादहं विमुक्तोऽस्मि । परं तु दुष्टः अन्तो यस्य स्यात् तथाभूतदुःखसंबन्धस्य निबन्धनात् कारणात् अशुभध्यानात् ममात्रागमनमभूत् । भवति चात्र श्लोक:-क्षुद्रमत्स्येति-स्वयंभूरमणसमुद्रे महामत्स्यस्य कर्णस्थः एकः क्षुद्रमत्स्यः किल स्मृतिदोषात् अशुभध्यानात अधो गतः सप्तमनरके त्रयस्त्रिशत्सागरोपमायुषा जन्म अलभत ॥३१॥
इत्युपासकाध्ययने मांसामिलापमात्रफलप्रलपनो नाम चतुर्विंशतितमः कल्पः ॥२४॥