________________
-पृ० १४२]
उपासकाध्ययनटीका
४०१
वर्तते एवं वदन् एष वादी मद्यमातसमागमो ईहताम् इच्छत् । यथा स्त्रीत्वं पल्यां विद्यते तथैव जनन्यामपि अतो भार्यासमागममिव जननीसमागमोऽपि वादिनेष्येत । यथा जले पेयत्वसामान्यं वर्तते तथा मद्येऽपि वर्तते अतो जलवन्मदिरापि पीयतां वादिना परं तेन मदिरा त्यज्यते जलं पीयते । स्त्री सेव्यते माता वन्द्यते अत: पेयत्वं स्त्रोत्वं च सर्वत्र समानं नैव भवेत् ॥३०३।। शुद्धेति-शुद्धं दुग्धं न गोमांसम् । एकस्या एव गोदुग्धं शुद्ध सेव्यं भवति परं तस्या मांसम् अशुद्धत्वात् सेव्यं नैव भवति । एतादृशं पदार्थस्वभाववैचित्र्यं वर्तते । आहेयम् अहेः सर्पस्य इदम् आहेयं सर्पसंबन्धि सर्पमस्तके स्थितं रत्नं विषम् अपहरति । परं तद्दन्तस्थितं विषं विपदे मरणाय स्यात् ।।३०४॥
[पृष्ठ १३९ ] अथवा-हेयमिति-कारणे समे सत्यपि मांसं त्याज्यं पयः दुग्धं पेयम् । धेन्ववयवत्वसाम्येऽपि मांसं हेयं न दुग्धम् । विषतरोः पत्रम् आयुषे जीवनकारणं भवति परं तन्मूलं मतये मरणाय स्यात् । विषतर्ववयवसमत्वेऽपि पत्रं भक्ष्यं भवति न मूलमिति ॥३०५॥ अपि च-शरीरेतिशरीरावयवत्वेऽपि मांसे दोषः तद्भक्षणं निन्द्यम्, न सपिषि घृते न दोषोऽतस्तद्भक्षणीयम् । द्विजातिषु जिह्वायां मद्यं दोषाय भवति । पादे मद्यं द्विजातिषु ब्राह्मण-क्षत्रिय-वैश्येषु न दोषाय भवति ॥३०६॥ विधिरितिसंप्रोक्षणं यज्ञादिश्चेद् विधिः शुद्धय भवति तहि द्विजैः सर्व भुज्यताम् तत्र मांसादिकं हेयम्, ओदनादिकं भोज्यम् इत्याग्रहो न विधेयः । केवलं वस्तु शुन्य चेत् अन्नादिकम्, यत्र अन्नादिकं शुद्धं लभ्येत तत्र तद्ग्राह्यमिति मन्यते चेत् श्वपचालये मातङ्गगृहे भुज्यताम् । अतः केवलं विधिना अन्नादेः दातुः पात्रस्य च शुद्धिर्भक्तीति न मन्तव्यम् । यदि अन्नं शुद्धय भवेत् तर्हि तेनान्नेन दाता पात्रमपि शुद्धं भवेत् । ततश्च तच्छुद्धं यत्र कुत्रापि मातङ्गगहेऽपि लभ्येत तद्ग्रहणे दोषो न स्यात् । अतः केवलया अन्नशुन्या भाव्यमिति न । तहि केषां शुद्धया विधिशुद्धिः स्यादिति प्रश्ने आह-॥३०७॥ तद्रव्येति-तस्मात् द्रव्यदातृपात्राणां विशुद्धौ द्रव्यशुद्धी सत्यां, दातृशुद्धौ सत्यां, पात्रशुद्धौ च सत्यां विविशुद्धता भवति । द्रव्यादीनाम् अशुद्धो केवलं विधिशुद्धया पर्याप्तं स्यात् इति न मन्तव्यम् । केवलं द्रव्यशुद्धयापि पर्याप्तता न संभवति, केवलं दातृशुद्ध यापि सा न भवति अतः द्रव्यदातृपात्रशुद्धया सहिता विधिशुद्धता विशुद्धं फलं जनयतीति ज्ञेयम् । अशुद्धोऽपि दाता शुद्धो भवेदिति चेदुच्यते-यत्संस्कारशतेनापि नाजातिद्विजतां व्रजेत् । संस्कारशतेनापि द्विजान्मुक्त्वा अन्यो अजातिः शद्रो जनः द्विजतां न व्रजेत् । गर्भजन्म सत्कुले जन्म दीक्षायोग्ये कुले जन्म यस्य तस्यैव संस्कारजन्म भवति स एव संस्कारजन्मना द्विजतां गच्छति । संस्कारहीनो द्विजः जात्या द्विजो भवति । स नामधारको द्विजो ज्ञेयः । यस्य सत्कुले जन्म न स संस्कारशतेनापि अजातिरेव नामधारकाद् द्विजादपि स हीन एव । किरणाकुलोऽपि काचः असंस्कृतमणेरपि समानतां न याति कथं संस्कृतमणेः समतां स बिभूयात् ॥३०८॥ तच्छाक्येतितस्मात् शाक्यानां बौद्धानां सांख्यानां पंचविंशतितत्त्ववादिनां कापिलानाम, चार्वाकाणां बृहस्पतिशिष्याणां नास्तिकानाम्, वेदवादिनां मीमांसकानाम्, वैद्यानाम्, कपदिनां कापालिकानां मतं विहाय श्रेयोऽथिभिः मुक्तिकाम: सदा मांसं हातव्यम् आजन्म मांसत्यागो विधेयः ॥३०९॥ यस्तु इति-यो जनः लोल्येन जिह्वालाम्पटोन मांसाशी मांसम् अश्नाति भक्षयति, तेन मांसभक्षणेन तथा यज्ञे, प्राणिवधेन धर्मों वर्धते इति च मन्यते स द्विपातकः ज्ञेयः । हिसां धर्म मन्यमानः मांस च भुजानः देवान् मांसं प्रोणयतीति मिथ्या संकल्पयन् द्विपातको भवति । यथा मात्रा सत्रं परदाराक्रियाकारी नरः मातृगमनपातकं परस्त्रीसेवनपातकं च कुरुते ॥३१०॥
[पृष्ठ १४०-१४२] श्रूयतामत्र मांसाशनाभिध्यानमात्रस्यापि पातकस्य फलम्-मांसभक्षणसंकल्पमात्रस्यापि पापस्य फलं दृष्टान्तद्वारेण कथयति सूरिः सुदत्ताचार्यः तच्छ यतामाकर्ण्यताम्-श्रीमदिति-श्रीः अस्यास्तीति श्रीमान् स चासो पुष्पदन्तः श्रीमत्पुष्पदन्तः नवमो जिनपतिः स एव मदन्तः भव्यजनकल्याणविषायी ऋषिः तस्य अवतारे जन्मसमये अवतीर्णः स्वर्गात्समागतो यस्त्रिदिवपतिः स्वर्गनाथः सौधर्मेन्द्रः तेन संपादितो विहितो विधापितश्च य उद्याव उत्सवः तस्य या इन्दिरा लक्ष्मीस्तस्यै आसन्दो आसनभूता या काकन्दीपुरी तस्यां चार्वाकवंशोद्भवः सौरसेनो नाम भूपतिः कुलधर्मानुरोधबुदधा निजवंशधर्मानुसरणमत्या, गृहीतपिशितव्रतः अङ्गीकृतमांसत्यागः । पुनर्वेदवैद्याद्वैतमोहितमतिः श्रुतिविपर्यासितमतिः वैद्यविपर्यासित प्रज्ञः अद्वैतमतपरावर्तितमतिश्च , संजातजाङ्गलजिघित्सानुमतिः उत्पन्नमांसबुभुक्षानुसृतबुद्धिः । अङ्गीकृतवस्तुनिर्वहणात् जनापवादाज्जुगुप्समानः ।