________________
४०८
पं० जिनदासविरचिता
[ पृ० १३६
1
स घोमान्, स च पण्डितः || २८७।। तत्स्त्रस्येति तस्मात् स्वस्थात्मनः हितम् अभिलषन्तः च मुहुः पुनः पुनः अहितम् असुखं मुञ्चन्तः । अन्यमांसः पशुपक्ष्यादिमांसः स्वमांसस्य वृद्धिविधायिनः कथं स्युः ॥ २८८॥ यदिति- - इह यो जनः । परत्र अन्यप्राणिनि । सुखं वा दुःखम् एव वा करोति । वृद्धये दत्तं धनवत् तत् सुखं वा दुःखं वा स्वस्य अधिकम् एव जायते । उत्तमर्णो यथा स्त्री धनम् अधमर्णाय वृद्धयं ददाति ततश्च तद्धनं पूर्वतोऽप्यधिकं वर्धते तथा परस्मिन् जने यः सुखं वा दुःखं वा करोति तत् परस्मिन् जन्मनि पूर्वजन्मतोऽपि अधिकं तेन लभ्यते ।।२८९ || मद्यमांसमधुप्रायमिति - मद्यपानं मांसभक्षणम्, मन्त्रशनं च एतत्कर्म चेत् धर्माय पुण्याय मतम् । अपर: अधर्मः कः । अपरं पापं किं भवेत् । किं वा दुर्गतिदायकं वा अपरं किं कर्म स्यात् ।। २९०॥ स धर्म इति - पत्र अधर्मः पापं मिथ्यात्वादिकं हिंसादिकं वा नास्ति स धर्मः यत्र अखं नरकादिदुःखं नास्ति तत् सुखम् । यत्र अज्ञानं नास्ति तज्ज्ञानम् । यत्र पुनः आगतिः संसारे आगमनं नास्ति सा गतिः ।। २९९ ।। स्वकीयमिति यथा स्वकीयं जीवितं सर्वस्य प्राणिनः प्रियम् इष्टं भवति तद्वत् एतत् परस्यापि जीवितं प्रियं भवति । ततो हिंसां परित्यजेत् ॥ २९२ ॥
[ पृष्ठ १३६ ] मांसादिषु इति - मांसम् अदन्तीति मांसादिनः मांसभक्षकाः तेषु दया नास्ति । मद्यपायिषु मद्यं पिबन्तोति मद्यनायिनः सुरापानशीलास्तेषु सत्यं न वर्तते । मधूदुम्बरसेवेषु मधुनः क्षौद्रस्य उदुम्बराणां च पञ्च फल्याः भक्षणं कुर्वाणेषु मर्त्येषु अनृशंस्यम् अक्रूरता दयालुता न वर्तते ।। २९३ ।। मधुसेवनं सन्तो न कुर्वन्ति - मक्षिकेति - मक्षिकाणां क्षुद्राणां गर्भात् संभूतानि यानि बालाण्डानि तेषां यदा मर्दनं क्रियते तदा मधुन उत्पत्तिर्भवति । तच्च कललाकृति मधु रजोवीर्यमिश्रणात् ताम्रवर्णो यो द्रवपदार्थः स्त्रिया उदरे जायते । सकललमुच्यते तद्वद्भासमानं मधु सन्तः दयार्द्रहृदयाः पुरुषाः कथं सेवन्ते भक्षयन्ति ।। २९४ ।। उद्भ्रान्तेति - उद्भ्रान्ताश्चलवलिताः अर्भका: मक्षिकाबालकाः गर्भे मध्ये यस्य तस्मिन् मधुच्छत्रे मधुगोलके अण्डजाण्डकखण्डवत् पक्षि बालकसमूहवत् । मधु माधुर्यं कुतः । यतस्तत् मधुच्छत्रं व्याघलुब्धकजीवितं व्याधा मृगवधाजीवा लुन्धकाः शराः तेषां जीवितं भक्ष्यं वर्तते । मधु नोचलोकानां भक्ष्यं जीवनिवितम् अतस्तदुत्तमानां न भक्ष्यम् ।। २९५ ।। पञ्चोदुम्बरेषु जीवानां दर्शनात्तेषां त्याज्यत्वमाह - अश्वत्थेति - अश्वत्थफलानि पिप्पलफलानि । उदुम्बरफलानि जन्तुफलानि । प्लक्षफलानि पर्कटीफलानि । न्यग्रोधफलानि बटफलानि । आदिशब्देन फल्गुफलानि 'अंजीर' इति देशभाषायाम् । इत्यादि फलेब्वपि प्रत्यक्षाः स्थूलाः प्राणिनो जीवा दृश्यन्ते । सूक्ष्माश्च सन्ति परं ते आगमविषयाः अतः तेषां भक्षणं पापप्रदत्वात्तत्याज्यम् ||२९६ ।। मद्यादीति – ये मद्यमांसमधुभक्षिण: सन्ति तद्गेषु अनं पानं च नाचरेत् । अन्नं न भक्षणीयं जलं च न पेयम् । तेषाम् अमत्राणि भाजनानि आदिशब्देन तेषां स्त्रीवस्त्रादिसंपर्कं च कदाचिदपि न कुर्याद् व्रतिकः ।। २९७ ।।
[ पृष्ठ १३७- १३९ ] अव्रतिनां संगात् लोके वाध्यता भवति — कुर्वन्निति - भोजनादिषु भोजन- जलपानादिकार्येषु अवतिभिः सह संसमं संबन्धं कुर्वन् अत्र अस्मिन् लोके वाच्यतां निन्दां प्राप्नोति । परत्र परलोके च इह् च सत्फलं न लभते तेन नरेण सत्कलं स्वर्गलोकसुखं न लभ्यते ॥ २९८ ॥ दृतीति - दृतिप्रायेषु चर्मपुकादिचर्मभाजनेषु पानीयं जलं व्रतस्थो जनः वर्जयेत् । कुतपादिषु चर्मनिर्मितात्पस्नेहभाजनेषु स्नेहं तैलं घृतं परित्यजेत् अत्र तोचिताः अग्रतिजन योग्याः स्त्रियः मद्यमांससेविन्यः व्रतिभिः नित्यं परिहार्याः त्याज्याः ॥ २९९ ॥ जीवेति-मयः उष्ट्रः, मेष: अज:, तो आदो येषां ते मयमेषादयः तत्कायवत् तच्छरीरवत् यथा तच्छरीरं मांसं तथा मुद्गमाषादिकमपि जोवयोगस्य समानतया मांसम् इति इतरे जगुः ब्रुवन्ति स्म ॥ ३०० ॥ तदयुक्तम् । तदाहमांसमिति- - नांसं प्राणिशरीरं स्यात्तरं जोवशरीरं मांसं भवेश वा । यथा निम्बो वृक्षो भवति परं वृक्षस्तु निम्बो भवेन्न वा ॥ ३०१ ॥ कि च - द्विजाण्डजेति — द्विजनिहन्तॄणां ब्राह्मण क्षत्रिय-वैश्यानां घातं कुर्वताम् अण्डजाः पक्षिणः तेषामपि घातं कुर्वतां पापं विशिष्यते विशिष्टं वर्धते । तथा जीवयोगाविशेषेऽपि तथा फलपलाशिनां पापं विशिष्यते । फलेब्वपि जोवाः सन्ति मांसेऽपि जीवाः सन्ति परं फलेषु एकेन्द्रिया एव जीवाः सन्ति मां तु द्वीन्द्रियानारभ्य पञ्चेन्द्रियपर्यन्तं जीवराशयः सदैव सन्ति अतः फलाशिनां स्तोकं पापं स्यात्परं पलाशिनां महापापबन्धो भवेत् ॥ ३०२ ॥ स्त्रीत्वेति — स्त्रीत्वसामान्यं दारेषु वर्तते, पेयत्वसामान्यं वारिणि