________________
-पृ० १३५] उपासकाध्ययनटीका
४०७ काष्ठासु दिशासु विहितपुरसारापहाराः विहितं कृतं पुरसारस्य पुरजनधनस्यापहारो हरणं यैस्ते चौराः पुरबाहिरिकोपवने पुरस्य नगरस्य बाहिरिके उपवने उद्याने धनं विभजन्तः धनविभागं कुर्वन्तः, तवेदं ममेदम् इति विवदमानाः कलहं कुर्वन्तः, कन्दलं युद्धम् अपहाय त्यक्त्वा समानायितमैरेयाः आनायितमद्या: पानगोष्ठी पानाय गोष्ठी तां पानगोष्ठों संभूय मद्यपानम् अनुतिष्ठन्तः कुर्वन्तः, पूर्वाहितकलहकोपोन्मेषकलुषधिषणाः पूर्वाहितः मद्यपानात्पूर्वम् आहितः कृतश्चासौ कलहः विवादः तस्य कोपस्य उन्मेषः उदयः तेन कलुषा मलिना धिषणा बुद्धिः येषां ते पञ्चचौराः यष्टायष्टि, दण्डादण्डि, मुष्टामुष्टि, मुष्टिभिर्मुष्टिभिश्च युद्धं विधाय सर्वेऽपि मम्रः पञ्चत्वं जग्मुः अन्यत्र विना धूर्तिलात् । धूतिलो जीवितः, चत्वारश्चौराः मृता इत्यर्थः । स किल धूर्तिलः यथादर्शनसंभवं यथा येन प्रकारेण दर्शनस्य मुन्यवलोकनस्य संभव उत्पत्तिः स्यात्तथा महामुनिविलोकनात् तस्मिन्नहनि दिने एकं व्रतं गृह्णाति, तत्र च दिने तदर्शनात् मुनिदर्शनात् आसवव्रतं मदिरात्यागवतम् अग्रहीत् गृहीतवान् । तदनु धूर्तिलः समानशीलेषु सदृशस्वभावेषु कश्यवश्यं मदिराधीनां विनाशलेश्यामात्मसमक्षम् उपयुज्य मरणावस्थां दृष्ट्वा, असुखबीजात् दुःखकारणात् आजवंजवात् संसाराद् विरज्य विरक्तो भूत्वा, मनोजकुजजटाजालनिवेशमिव केशपाशम् उत्पाटय मनोजो मदनः स एव कुजो वृक्षः तस्य जटानां प्रारोहाणां जालनिवेशमिव समूहरचनेव केशपाशम् उत्खाय चिराय दीर्घकालम् अपरत्र परलोके अहितजैत्राय कर्मारिजयाय समीहांवक्रे प्रयत्नम् अकरोत् । भवति चात्र श्लोकः-धूतिल: एकस्मिन्नेव दिवसे मद्यत्यागात् अनापदं मृत्युरूपसंकटाभावम् आपत् । एतद्दोषात् मदिराप्राशनदोषात्सहायेषु मित्रेषु मृतेषु सत्सु ॥२७८॥
इत्युपासकाध्ययने मद्यनिवृत्तिगुणनिदानो नाम त्रयोविंशतितमः कल्पः ॥२३॥
२४. मांसाभिलाषमात्रफलप्रलपनो नाम चतुर्विशतितमः कल्पः [पृष्ठ १३३-१३४] सन्तो मांसभक्षणं त्यजन्ति-स्वभावेति-प्रकृत्यैव मांसम् अशुचि अपवित्रं दुर्गन्धं च । अन्यापायदुरास्पदम् अन्येषां पशुपक्षिणाम् अपायात् घातात् दुरास्पदं दुःखस्थानम् । अथवा दुरास्पदे सूनाकारगहे लभ्यम् । तथा विपाके अवसाने दुर्गतिप्रदं तिर्यङनरकगतिदायकम् । सन्तः सज्जनाः कथम् अदन्ति अपितु नैव ते भक्षयन्ति ॥२७९॥ कर्मेति-प्राणी अकृत्यम् अपि कर्म, कर्तुम् अयोग्यम् अकृत्यं कर्म कार्य करोतु यदि आत्मनः हन्यमानविधिन स्यात् । चेत् स्वस्य केनापि हन्यमानविधिः मारणकार्य न क्रियेत । यथा पशहतस्तथा चेत् स पशुस्तं हिंसकं न हन्यात् । अथवा अन्यथा अन्येन प्रकारेण जीवमारणं विना जीवनम् उदरपोषणं न स्यात् । अन्नफलाद्यभावे मांसभक्षणं करोतु परम् अन्नफलाभावः कदापि न भवति अतः मांसभक्षणं न करोतु जनः ॥२८०॥ धर्मादिति-धर्मात् संसारदुःखनिवारकात् शर्मभुजां सुखं भुजानानां धर्मे कि नु विद्वेषकारणं धर्मे द्वेषो नोचित एव । प्रार्थितेति-अभिलषितपदार्थदायिनम् अमरपादपं कल्पवृक्षं कः द्वेष्टु । को द्वेष कुर्यात् ॥२८१॥ अल्पाक्लेशात् इति-अल्पक्लेशात् स्वल्पदुःखात् । सुधीः विबुधः । स्वस्य आत्मनः । सुष्ठु सुखं न्याय्यं शर्म चेत् वाञ्छति अभिलष्यति । आत्मनः प्रतिकूलानि स्वस्य विरुद्धानि यानि कर्माणि यथा स्वस्य दुःखप्रदानि तानि परेषां न समाचरेत् ॥२८२॥ यः जनः परानुपघातेन अन्येषां पातम् अकृत्वा सुखसेवापरायणः सुखभोगतत्पसे भवेत् । स सुखं भुजानोऽपि जन्मान्तरसुखाश्रयः स्यात् । अन्यजन्मलम्यशर्माधारो भवेत् ॥२८३॥ यः पुमान् नरः तदात्वसुखासंगात् तदाभवं तदात्वं तच्च सुखं तस्य आसंगात तात्कालिकसुखेष्वासक्तेः धर्मकर्मणि देवपूजादिके कार्य न मुह्येत् संशयं न कुर्यात् स पुमान् ननु वित अस्मिन् लोके उदर्के उत्तरभवे दुःखजितः भवति ॥२८४॥ स इति-यः धर्मे अर्थे कामे च अन्यसमाश्रयः त्रिषु एकस्यापि आश्रयं न करोति सः प्राणी परं भूभारः, स जीवन्नपि मृतश्च सः ॥२८५॥
(पृष्ठ १३५] स इति-यःधर्मात्पुण्यात्फलं स्त्रीधनादिभवं सुखम् अश्नन्नपि अनुभवन्नपि धर्मे मन्दधीः मन्दादरो भवति स मूर्खः । स जडः । स मशः, स पशोरपि पशुर्भवति ॥२८६।। स विद्वानिति-यः स्वतः अन्यस्मादपि वा अधर्माय पापाय पापं कर्तुं न समीहते न प्रयतते । स विद्वान्, स महाप्राज्ञः, स महाबुद्धिमान्,