________________
४०६ पं० जिनदासविरचिता
[पृ० १३१व्यमशत् । तिलसर्पपप्रमितस्यापि हि पिशितस्य तिलप्रमाणस्य सर्षपप्रमाणस्य तन्तुभः प्रमाणस्यापि मांसस्य प्राशने भक्षणे स्मृतिषु महाव्रतविपत्तयः श्रूयन्ते । स्मृतिग्रन्येषु महाव्रतस्य अहिंसाव्रतस्य विपत्तयः दोषाः प्रतिपाद्यन्ते । मातङ्गोसंगे च मृतिनिकेतनं मरणचिह्न प्रायश्चेतनम् । देहान्ताख्यं प्रायश्चित्तम् । य एवंविधां सुरां पिबति न तेन सुरा पोता भवति इति निखिलमखशिखामणौ सकलयज्ञेषु च डामणिरिव श्रेष्ठे सौत्रामणिनामयज्ञे मदिरास्वादाभिसंधिरनुमतविधिरस्ति । मद्यप्राशनस्य अभिलाषा चेत् तत्पानं विधेयम् इति आगमस्य वेदस्य अनुमतिर स्ति । यश्च पिष्टोदकगुडधातकीप्रायः गोधूमादिकं चूर्ण पिष्टम्, उदकं जलम्, गुडः इक्षुपाकः धातकीसोधुपुष्पोप्रभृतिभिः वस्तुकायैः वस्तूनां कार्यः अवयवः सुरा मद्यं संधोयते निर्मीयते । तान्यपि वस्तूनि विशुद्धान्येव शुचिन्येव इति चिरं दीर्घकालं विचार्य अनार्यविद्याविधानः अनार्या अक्षरम्लेच्छास्तेषां विद्या वेदः तस्य विधानम् अनुसरणं यस्य सः विहितमदिराभक्षणः तन्माहात्म्यात् मदिरामप्रभावात् । आविर्भूतमनोमहामोहः प्रकटीभूतचित्तमहामोहभावः कौपीनं पुरुषलिङ्गाच्छादनवसनम् अपहाय त्यक्त्वा हारहरव्यवहारातिलघितमातङ्गिकागीतानुगतकरतालिकाविडम्बनावसरो हारहराव्यवहारेति द्राक्षासंजातमद्यविशेषस्य व्यवहारेण पानेन अतिलचिता मदमत्ताः या मातङ्गिकाः चाण्डाल्यस्तासां गीतानुगता गानमनुसता याः करतालिकाः हस्ततालिकाः तासां विडम्बनस्य अनुकरणस्य अवसरो यस्य स एकपाद्विजः पिशाचाविष्टदेह इव आनीतानेकविकारः प्रकटीकृतकाममदादिभावः । पुनः बुभुक्षेति-चुभुक्षा क्षुत् सा एव आशुशुक्षणिः अग्निः तेन क्षीणं कुक्षिकुहरमेव कुहरं बिलं यस्य सः तरसमपि मांसमपि भक्षितवान् खादितवान् । व्यक्तीभवदसह्योत्कटकामविकारः मातङ्गी कामितवान बभजे। भवति चात्र श्लोकः हेतशद्धरिति-हेतुशद्धेः यस्य कारणानि शद्धानि तद्वस्तु भक्षणाहम इति श्रुतेर्वेदस्य वाक्यात् पीतमद्यः कृतमद्यपानः एकपात् ब्राह्मणः मूढमानसो भूत्वा मांसमातङ्गिकासंभोगम् अकरोत् ॥२७७॥
इत्युपासकाध्ययने मद्यप्रवृत्तिदोषदर्शनो नाम द्वाविंशः कल्पः ॥२२॥
२३. मद्यनिवृत्तिगुणनिदानो नाम त्रयोविंशतितमः कल्पः [पृष्ठ १३१-१३३ ] श्रयतां मद्यनिवृत्तिगुणस्योपाख्यानम्-अशेषेति-अशेषाश्च ता: न्यायव्याकरणादिविद्याः तेषां वैशारा नैपुण्यं तस्य मदेन मत्ताः सगर्वा ये मनीषिण: विद्वांसःत एव मत्तालयः क्षीबभ्रमराः तेषां कुलं वन्दं तस्य केल्य क्रीडाय कमलनाभिः कणिकेव तस्यां मध्यकोशसदशायां वलभ्यां पुरि । खात्रचारित्रशोलः करवालः, खातं खननं तस्य चरित्रं कार्य खननकार्य तत् शीलं यस्य धनार्थ जनधनस्थानखननस्वभाव: चौरकर्म कुर्वाणः करवालो नाम चौरः । कपाटोद्घाटनपटुः बटुः पिहिताररोद्घाटननिपुणः वटुनामस्तेनः महानिद्रासंपादनकुशलः धूतिलः दीर्घस्वापोत्पादनचतुरो धूर्तिलाभिधश्चौरः। परगोपायितद्रविणदेशविशारदः शारदः, धनिक\पायितं भूमिभित्त्यादिषु निह्न तं यद्दविणं धनं तस्य देशः प्रदेशस्तस्य ज्ञाने विशारदः चतुरस्रः विशारदो नाम दस्युः । खरपटागमविलासः कृकिलासः 'सधनः हन्तव्यः । गर्भिणी हन्तव्या' इति प्रतिपादके खरपटागमे विलासश्चातुर्य यस्य स कृकिलासो नाम मोषकः । एते पञ्च मलिम्लुचाः पाटच्चराः स्तेनाः प्रतिपन्नपरस्परप्रीतिप्रपञ्चाः स्वीकृतान्योन्यस्नेहविस्ताराः। स्वव्यवसायसाहसाम्यां निजोद्योगबलात्काराभ्याम् ईश्वरशरीरार्धवासिनी महादेव देहावसनशीला भवानीमपि पार्वतीमपि, मुकुन्दहृदयाश्रयधियं श्रियमपि मकून्दः कृष्णस्तस्य हृदयं मनः वक्षःस्थलम् स एवाश्रय आधारः ममेति बुद्धियुक्तां श्रियं लक्ष्मीम् अपि, कात्यायनीलोचनासंजनं कात्यायनी पार्वतो तस्या लोचनयोर्नेत्रयोः संजनं लेपनं यस्य तदञ्जनमपि कज्जलमपि हतुं समर्थाः। पश्यतोहराणामपि पश्यतो जनाननादत्य धनं हरन्तीति पश्यतोहराश्चौराः तेषामपि पश्यतोहराश्चौरा: तान चौरानपि चुराकौशल्येन वञ्चयन्तः । कृतान्तदूतानामपि यमदूतानामपि यमदूताः । कदाचित् एकस्यां निशि रात्री चेलक्रोपं वर्षति देवे वस्त्रार्द्रता यथा स्यात्तथा वष्टि कूर्वति पर्जन्ये । कज्जलपटलकालकायप्रतिष्ठासु सकलासु काष्ठास कज्जलानां पटलः समहः तद्वत्कालस्य यमस्य यः काय: शरीरं तद्वत प्रतिष्ठा स्थितिर्यासां तासु, सकलासु