________________
-पृ० १३१] उपासकाभ्ययनटीका
४०५ प्रासादस्य उपबृहकं शोभासंवर्धकं भवति । यथा पुरुषकारानुष्ठानं पौरुषशक्तिकर्तव्यम् उद्यमविधानं देवसंपदः पूर्वोपाजितपुण्यस्य उपबहक पोषणकरं भवति । यथा नीतिमार्गस्य सदाचारस्य पराक्रमावलम्बनम् उपबंहकं समद्धिकरं भवति । सेव्यत्वस्य आराध्यस्य पुज्यस्य विशेषवेदित्वं विशेषेण विवेकविमर्शादिसहितं वदित्वं विद्वत्त्वम् उपबंहकम् उन्नतिकरं वर्तते । तथा हि यस्मात् व्रतं खलु सम्यक्त्वरत्नस्य उपबंहकं गुणोत्कर्षविधायकं भवति । तच्च व्रतं देशयतीनां द्विविधं मूलोत्तरगुणावयात् मूलगुणावलम्बनात् उत्तरगुणावलम्बनाच्च । तत्र-मोति-सहोदुम्बरपञ्चकाः उदुम्बराणां पञ्चकम् उदुम्बरपञ्चकम् उदुम्बरपञ्चकेन सह वर्तमानाः सहोदुम्बरपञ्चकाः पिप्पलफलानि, उदुम्बरफलानि, प्लक्षफलानि, वटफलानि, फल्गुफलानि 'अजीर' इत्याख्यानि इति पञ्चफलैः सह मद्यमांसमधुत्यागाः एते अष्टो मूलगुणाः गृहस्थानाम् उक्ताः । क्व । श्रुते जिनागमे । मूलगुणाः उत्तरगणप्ररोहणनिमित्तत्वात संयमाथिभिः प्रागनुष्ठेयत्वात् मूलगुणाः ते चाष्टो इलोकेऽस्मिन्प्रदर्शिताः ॥२७॥ सर्वदोषेति-मद्य त् सर्वदोषोदयः सर्वेषां हिंसासत्यस्तेय मथुनादिदोषाणामपराधानाम् उदय उत्पत्तिर्भवति । कथंभूतान्मद्यात् महामोहकृतः महामाहं करोतीति महामोहकृत् तस्मान्महामोहकृतः । अहिते हितबुद्धिहिते चाहितभावना मोहात् जायते । स च मोहो मद्यादुद्भवति अतः सर्वेषां पातकानाम् अग्रणीत्वेन स्थितं मद्यम ॥२७१॥ मद्यात्संसारपरिभ्रमणम-हिताहितयोर्यदा मोहो अज्ञानं देहिषु प्राणिपु जायते तदा ते देहिनो जीवाः संसार एव कान्तारं वनं तत्र परिभ्रमणम् अटनं तस्य कारणं निदानं किं पातकं न कुर्युः । मद्यात्सर्वपापानि जायन्ते इति भावः ॥२७२॥ मद्येन यादवाः नष्टाः, नष्टा द्यतेन पाण्डवाः, इति अस्मिन लोके सर्वत्र सर्वदेशेष कथानकं प्रसिद्धमस्ति ॥२७३॥ समुत्पद्येति-इह मद्ये देहिनः जीवाः अनेकशः बहुकृत्वः । समुत्पद्य जनित्वा विपद्य मत्वा च कालेन देहिनां मनोमोहाय मद्योभवन्ति । मृतोत्पन्नजीवानां कलेवराणि मद्यरसतया परिणमन्ते ॥२७४॥
[पृष्ठ १३०-१३१] मद्यैकेति-मद्यकबिन्दुसंपन्नाः मद्यस्य एकस्मिन् बिन्दो संपन्ना उत्पन्नाः प्राणिनो जोवा बिन्दोनिर्गत्य बहिः प्रचरन्ति भ्रमन्ति चेत् समस्तमपि विष्टपं जगत् पूरयेयुः व्याप्नुयुः न संदेहं तत्र संशयो नास्ति ॥२७५॥ मद्यस्य त्याज्यताकारणानि-मनोमोहस्येति-मद्यं सद्भिः सज्जनः सदा त्याज्यं मनोमोहस्य हेतुत्वात् । दुर्गते१र्भवान्तरे निदानत्वाच्च कारणत्वाच्च । तन्मद्यम् इहलोके, अमुत्र परलोके च दोषकृत् दोषोत्पादकमस्ति ॥२७६॥ श्रूयतामत्र मद्यप्रवृत्तिदोषस्य उपाख्यानम्-तदुर्वीश्वरेति-स चासो उर्वीश्वरश्च पृथ्वोपतिश्च तदुर्वीश्वरः, तस्य अखर्वः महान् स चासो गर्वश्च स एव और्वानलो वडवानल: तस्मिन् । आहतीभूताः देवोद्देशेनाग्नी यथा मन्त्रोच्चारणं कृत्वा हविनिक्षिप्यते तथा आहतिवत् निक्षिप्ता ये अहिताः शत्रयस्तेषामन्वया वंशास्त एव नका यादांसि यत्र तस्मात्, एकचक्रात्पुरात् एकपानाम परिव्राजको परित्यज्य विषयान व्रजतीति परिव्राजकः कश्चित् साधुः, जाह्नव्या गङ्गाया जलेषु मज्जनाय स्नानाय वजन गच्छन् मातङ्गः उपबध्य किल एवमुक्तः । क्व एवमुक्तः । विन्ध्याटवीविषये विन्ध्यारण्यदेशे कथंभूते निजच्छायेति-निजा चासौ छाया प्रतिबिम्ब सा एव अपरद्विपः अन्यः करी तस्य आशङ्का संशयस्तस्मात अतिक्रदा ये मदान्धगन्धसिन्धराः मदेन दानजलेन अन्धाः विवेकरहिताये गन्धसिन्धराः उन्मत्तद्विपाः येषां गन्धं समाघ्राय अन्ये द्विपाः समदाः भवन्ति, तेषां उधरा दीर्घा ये विषाणा दन्तास्तविदार्यमाणं मेदिन्याः पृथिव्या हृदयं मध्यप्रदेशो यत्र तस्मिन, विन्ध्याटवीविषधे। महतो मातङ्गसमूहस्य मध्ये निपतितः चाण्डालवृन्दस्य मध्ये आपतितः पुनः कथंभूतस्य प्ररूढेति-प्ररूढं च तत् प्रादुर्भूतं च तत् प्रौढम् उत्कटं यौवनं तारुण्यं तदेव आसवो मदिरा तस्य आस्वादो रसानुभवः पुनरुक्तं च कादम्बरीपानं मदिराप्राशनं तस्मात् प्रसूतः प्रादुर्भूतः स चासो असराल: उत्कटो यो विलासः तेन पहिलाभिः उन्मत्ताभिः महिलाभिः नारीभिः सह पलोपदंशवश्यकश्यं पलं मांसं तस्य उपदंशभूतं रुच्युत्पादकं व्यंजनभूतं यदावश्यक कश्यं मद्यं तत् आसेवमानस्य भजमानस्य महतो मातङ्गसमूहस्य मध्ये निपतितःसन् सोधुसंबन्धविधुरसंगैः सीधुर्मदिरा तस्याः संबन्धेन पानेन विधुरो विह्वल: संगं आसक्तिर्येषां तथाभूतः मातङ्गश्चाण्डालः उपबध्य निरुध्य असौ एकपानामा परिव्राजकः किल एवमुक्तः-त्वया मद्यमांसमहिलासु मध्ये अन्यतमसमागमः कर्तव्यः अन्यथा जीवन्न पश्यसि मन्दाकिनीम् । मन्दकिनी गङ्गानदीम् । सोऽपि परिव्राजको एवं भाषित: मनसि एवं वक्ष्यमाणप्रकारेण