________________
४०४ पं० जिनदासविरचिता
[पृ०-१२५[पृ० १२५-१२८ ] ज्ञानभेदान् कथयति-ज्ञानमेकमिति-ज्ञायते अनेन वस्तुतत्त्वमिति ज्ञानम् इति लक्षणात् ज्ञानम् एकम् । पुनः तवेधा प्रत्यक्षपरोक्षभेदात् । पुनः पञ्चधा अपि मतिश्रुतावधिमनःपर्ययकेवलानि ज्ञानमिति तद्भवेत् । केवलज्ञानात् अन्यत्र केवलज्ञानं विना तत्प्रत्येक मतिमारभ्य मनःपर्ययान्तम् अनेकधा भवति । अनेकभेदभिन्नं भवति । केवलज्ञानं तु सर्वद्रव्यपर्यायविषयत्वादेकमेव ।।२६१॥ चारित्रलक्षणम्अधर्मति-अधर्मकर्माणि हिंसा, अनृतम्, स्तेयम्, मैथुनसेवा, ममत्वम् एतेभ्यः पञ्चपापेभ्यः अधर्मकर्मभ्यः निर्मुक्तिः रहितत्वं चारित्रलक्षणम, तथा धर्मकर्म विनिमिति: धर्मकर्मणां संसारदुःखतः उद्धत्य उत्तमसुखे धारयतां कर्मणां निर्मितिः आचरणम् अहिंसापालमम्,सत्यभाषणम्,चुरात्यागः, ब्रह्मचर्यम्, ममत्वत्याग, एतदाचरणं चारित्रम् तच्च सागारानगारयतिसंश्रयं गृहस्थैर्मुनिभिश्च धार्यमाणम् ॥२६२॥ देशत इति-यस्य नरस्य स्वर्गापवर्गयोः स्वर्गमोक्षयोः अन्यतरयोग्यता नास्ति स्वर्गगमन गात्रता मुक्तिगमनपात्रता वा नास्ति स नरः देशतः व्रतम् अणुव्रतस्वरूपं सर्वतो वा व्रतं महाव्रतस्वरूपं न लभते ॥२६३॥ देशत इति-चारुचारित्रविचारोचितचेतसां चारु सुन्दरं निर्दोषं तच्च तच्चारित्रं तस्य विचार विमर्श उचितं योग्यं मनो येपां तेषां निर्दोषचारित्रपालनेन स्वहितं कर्तुमिच्छतां जनानां गृहस्थानां मुनीनां च । प्रथमं चारित्रं देशतः स्यात् अणुव्रतरूपं तद्गृहस्थानां भवति । द्वितीयकं महाव्रतरूपं चारित्रं स्यात्तच्च मनीनां स्यात् । हिंसादिभ्यो देशतो विरतिरूपम् अणुव्रतम् । तेभ्यश्च सर्वतो विरतिरूपं महायतं भवति । गृहस्थानां देशचारित्रम, मनीनां च सर्वचारित्रमिति ॥२६४॥ तुण्डेति-सम्यक्त्वविधुरे नरे सम्यग्दृष्टि रहिते मनुष्ये शास्त्रं तुण्डकण्डूहरं मुखखर्जुविनाशकम् एव भवति । ततस्तस्य स्वात्मानुभवो न भवतीति भावः । तु ज्ञानहीने चारित्रं दुर्भगाभरणोपमं दुर्दुष्टं भगं भाग्यं यस्याः सा तस्याः आभरणधारणोपमम् । यस्या उपरि पतिस्नेहो नास्ति तस्या आभरणधारणं यथा विफलं भवति तथा ज्ञानहीनस्य चारित्रधारणं विफलं भवति ॥२६५।। सम्यक्त्वादीनां प्रत्येकं फलमभिलपति-सम्यवस्वात सुगतिः स्वर्गगतिरुक्ता । ज्ञानात् इहलोके कोतिः उदाहृता कथिता । वृत्तात्पूजाम् अवाप्नोति चारित्रधारणात् पूजां लोकादरं लभते। त्रयाच्च एकलोली भावं प्राप्ताद्रत्नत्रयाच्छिवं मोक्षं लभते जीवः।।२६६।। सम्यक्त्वादोनां लक्षणानिरुचिरिति-तत्त्वेषु जीवादिषु रुचिः प्रीतिः सम्यक्त्वम् । तत्त्वनिरूपणं स्याद्वादेन जोवादितत्त्वकथनं ज्ञानम् । सर्वनियोज्झितं सकलकायवाइमनोयोगरहिताम् आत्मनि स्थितिम उदासीनरूपां परम् उत्तमं वृत्तं : ब्रुवन्ति ।।२६७॥ आत्मपारदसिद्धरुपायः-वृत्तमिति-वृत्तं चारित्रम् अग्निः अग्नितुल्यम्, धी: सम्यग्ज्ञानम् उपायः साध्यसाधने हेतुः, च सम्यक्त्वम्, रसौषधिः पारदसिद्धिकरणे विशिष्टवनस्पतिरूपम् पारदौषधम्, तल्लाभात् तेषां त्रयाणां प्राप्तेः आत्मा एवं पारद: सूतः स साधु समीचीनरूपेण सिद्धः प्राप्यः लभ्यः भवेत् ॥२६८।। सम्यक्त्वादीनाम् आश्रयादोन् वर्णयति-सम्यक्त्वस्येति-चित्तं मनः सम्यक्त्वस्य आश्रयः आधारः। मतिसंपदः ज्ञानसंपत्तेः आश्रयः अभ्यासस्तस्माद् ज्ञानं वर्धते इति । चारित्रस्य आधारः शरीरं देहः स्यात् । दानादिकर्मणः दानम् आदौ यस्य कर्मणः देवपूजादेः तस्य वित्तं धनम् आधारः स्यात् ।।२६९।।
इत्युपासकाध्ययने रत्नत्रयस्वरूपनिरुपणो नाम एकविंशतितमः कल्पः ॥२१॥
२२. मद्यप्रवृत्तिदोषदर्शनो नाम द्वाविंशः कल्पः [पृष्ठ १२८-१२६ ] पुनरिति-यथा गुणमणिकटक, गुणा एव मणयो रत्नानि तेषां कङ्कणभूत हे मारिदत्त नृप । यथा माणिक्यस्य पद्मरागमणेः यत् वेकटकर्म अग्निशोधनलेखनादिकर्म तत्तस्य उपबृंहकं गुणवर्धकं भवति । यथा प्रासादस्य महाहर्यस्य सुधाविधानं सुधया चर्णेन विविधरङगाणां लेपनेन क्रियमाणं कर्मः
१. अत्र यशस्तिलकचम्पूकाव्यस्य षष्ठ आश्वासः समाप्यते, यथा-इति सकलताकिकलोकचूडामणे: श्रीमन्नेमिदेवभगवतः शिष्येण सद्योनबद्य पद्यगद्य विद्याधरचक्रवर्तिशिखण्डमण्डनीभवच्चरणकमलेन थीसोमदेवसूरिणा विरचिते यशोधरमहाराजचरिते यशस्तिलकापरनाम्न्यपवर्गमहोदयो नाम षष्ठ आश्वासः ॥६॥