________________
पं० जिनदासविरचिता
[ पृ० -१५५ निद्रादिकं विधेयम्-आप्रवृत्तेरिति-पुनः भोगादिषु आप्रवृत्तेः प्रवृत्तिर्यदा भवेत्तावत्कालं मे सर्वस्य भोगोपभोगादेः निवृत्तिस्त्यागोऽस्ति इति कृतक्रियः कृतप्रतिज: सन, , गरुनामानि पञ्चपरमेष्ठिमन्त्रं स्मरन निद्रादिकं विधिं कुर्यात् ।।३५९।। प्रत्याख्यानस्य महाफलं निवेदयति-देवादिति-दैवात् विधेः आयुविरामे सति आयुषि समाप्ति गते सति । यद्भोगोपभोगप्रत्याख्यानं निद्रायाः पूर्व विहितं तस्य महत्फलं तेन प्रत्याख्यानवताऽवाप्यते । अतः व्रती नरः भोगशून्यं भोगरहितम् अव्रतं कालं व्रतरहितं कालं न आवहेत्, न नयेत, न यापयेत् । प्रतिदिनं वतिना प्रत्याख्यानं कृत्वैव सुप्यताम् इति भावः ॥३६०॥ जीवदयायाः फलं चिन्तामणेरिवेति प्रतिपादयतिएकेति-एकत्र एका जीवदया। एकस्मिन्पार्वे एका जीवदया।परत्र अन्यस्मिन् पार्वे सकलाः सत्याचौर्यादिकाः क्रियाः । पूर्वत्र पूर्वस्यां जीवदयायां परं फलं चिन्तामणेरिव यथा चिन्तामणेः यदिष्यते तत्फलम् इच्छासममेवाप्यते, परत्र सत्याचौर्यादिकानां क्रियाणां फलं कृषेरिव अद्य भूमि-कृष्ट्वा धान्य मुप्यते परं तत्फलं त्रिचतुभिर्मासरवाप्यते । अतो जीवदयैवान्यक्रियाभ्यः श्रेष्ठेति विद्धिविज्ञेयम् ॥३६१।। अहिंसावतमाहात्म्यं व्यनक्तिआयुष्मानिति-एकस्मादेव अहिंसाव्रतप्रभावात् नरः आयुष्मान् दीर्घायुः, कीर्तिमान् प्रथितयशाः सुभगः सौभाग्यवान् श्रीमान् लक्ष्मीसंपन्नः सुरूपः सुन्दराङ्गो जायते ।।२६२॥
[पृष्ठ १५५] श्रूयतामत्राहिंसाफलस्योपाख्यानम्-अवन्तिदेशेषु सकललोकेति-सकलजनचित्तहराः आगमाः वृक्षाः येषु, ते आरामाः उपवनानि यत्र तस्मिन् शिरीषग्रामे, मृगसेनाभिधानो मत्स्यबन्धः धीवरः । स्कन्धेति-निजांसावलम्बितबडिशपाशादिसाधनः । पृथुरोमेति-पृथुरोमाणो मत्स्याः तेषाम् आनयनाय उपनीतं कृतं विहारणं गमनं येन सः। कल्लोलेति-कल्लोलजलस्तरङ्गनीरैः प्लावितानि आद्रितानि उल्लङ्घितानि कूलस्थानि तटवर्तीनि शालेयमालवप्राणि, शालिघान्ययुतोच्चक्षेत्राणि यया सा ताम् । सृप्रां सरितं नदीम् अनुसरन् अनुगच्छन् । स मगसेनो धीवरः यशोधर्माचार्य निचाय्य अवलोक्येति संबन्धः । कथंभूतं तम् । अशेषेतिसकलसाधुपरिषदि सभायां वयं श्रेष्ठम् । पुनः कथंभूतम् । अखिलेति-सकलमहाभाग्यवद्ध भत्कृतपूजम्, पुनः कथंभूतम् । मिथ्येति-मिथ्यात्वरहिता धर्मचर्या धर्मानुष्ठानं यस्य सः तं यशोधर्माचार्य निचाय्य विलोक्य । समासन्नेति-समासन्नं समीपस्थं यत्सुकृतं पुण्यं तेन आसाद्यं प्राप्यं हृश्यं यस्य तस्य भावस्तस्मात् । दूरादेवेति-दूरादेव परिहृतपापोपार्जनसाधनसमूहः, ससंभ्रमम् आदरेण । संपादितेति-संपादितः कृतः दीर्घप्रणामः येन कृतसाष्टाङ्गनमस्कारः । प्रकामेति-प्रकामं प्रतिक्षणम् अतिशयेन प्रगलत् विनश्यत् एनः पापं यस्य सः, समाहितमनाः सावधानचित्तः, [स धीवरः आचार्य प्रति गत्वा व्रतमयाचत]। साधु इतिसाधूनां मुनीनां समाजे सत्तम श्रेष्ठ, सकलमहामुनिजनेषूत्तम, दैवात् शुभविधेः उपपन्नं प्राप्तं यत्पुण्यं तेन गृह्मभावः स्वपक्षभावः यस्य, एवंभूतोऽयं जनः कस्यचिद्वतस्य प्रदानेन अनुगृह्यताम् इत्यभाषत ।
[पृष्ठ १५६-१५९ ] भगवान्-ननु वितर्के, शकुलीति-शकुलयो मत्स्याः तेषां विनाशे मारणे निःसूकाशयः क्रूराभिप्रायस्तेन वशस्य, पयःपतङ्गो बकः तस्येव, व्रतग्रहणोपदेशे कथं प्रवीणम् अन्तःकरणमभूत । अस्ति हि लोके प्रवादः हि यस्मात् जगति किंवदन्ती प्रचलति । "न खलु प्रायेण बहुशः, प्राणिनां
स्वभावस्य विकृतिः विकारः आयत्यां भाविनि काले शभम अशभं वा विना भवति ।" भाविनि काले यस्य शुभं भवेत् तस्य करोऽपि स्वभावः परिवर्तते स मृदुर्भवति । तथा भाविनि काले यस्य अशुभं भवेत् तस्य मृद्वो प्रकृतिरपि क्रूरा भवेत् । एवं विमर्श कृत्वा उपयुक्तावधिः सम्यग्ज्ञातसमीपतदायुरवधिभगवान् तमेवमवदत् । “अहो शुभाशयायतन शुभपरिणाममन्दिर । अद्यतनाहनि अद्यतनदिवसे प्रथमदिवसे इति भावः । यः तव आदावेव प्रथमत एव आनाये जाले मीनः समापतितः स त्वया न प्रमापयितव्यः न हिंस्यः इति । यावच्च यावत्परिणामम् आत्मप्रवृत्तिविषयं स्वजीविका निर्वाहपर्याप्तम् आमिषं मासं प्राप्नोषि तावता मांसेन तव तन्निवृत्तिर्मत्स्यमारणत्यागः । अयं पुनः पञ्चत्रिशदक्षरपवित्र: मन्त्रः सर्वदा सुस्थितेन दुःस्थितेन च त्वया ध्यातव्यः इति । मृगसेनः-यथादिशति बहुमानस्तथास्तु । इत्यभिनिविश्य इति मनसि तद्वचनमङ्गीकृत्य । तां शैवलिनी समां नदीम अनुगत्य, कृतजालक्षेपणः । अकालक्षेपं कालविलम्बनम् अकृत्वा शीघ्रमिति भावः, अतनुकरणम् अतनूनि महान्ति कारणानि नेत्रादीनि इन्द्रियाणि यस्य स अतनुकरणः महान् तं वैसारिणं मत्स्यम् ,