________________
- पृ० १५६ ]
उपासकाध्ययनटीका
४१७
आसाद्य । स्मृतव्रतः आयो मत्स्यो न हन्तव्यः इति गृहीतव्रतस्य स्मरणं मृगसेनस्याजायत । तस्य मत्स्यस्य श्रवसि कर्णे चिह्नाय चोरचोरि वस्त्रखण्डं वस्त्रस्य दशां निबध्य तम् अत्यजत् । पुनः अपरावकाशे अन्यस्थाने । तारिणीप्रदेशे नद्याः प्रदेशे । तथैव अदूरतरशर्मा समीपतरसुखः, समाचरितकर्मा कृतजालक्षेपणः । तमेव अषडक्षीणं मत्स्यम् अक्षीणायुषम् अनष्टजीवितम् अवाप्य लब्ध्वापि अमुञ्चत् । तस्मात् एतस्मिन् अनणिष्ठे अलघिष्ठे पाठीनवरिष्ठे पाठीनेषु मत्स्येषु वरिष्ठे महिष्ठे, पञ्चवारं जाले लग्ने पतिते विपदमग्ने संकटेन अमग्ने अस्पृष्टे मुच्यमाने त्यज्यमाने सति, गभस्तिमाली सूर्यः अस्तमस्तकमध्यास्त अस्ताचलशिखरमध्या रोहत । कथंभूतः सूर्यः । घनघुसृणेति - घनं विपुलं यत् घुसृणं काश्मीरजम् तस्य रसेन अरुणिता लोहितवर्णा याः वरुणपुरस्य पुरन्ध्रयः सुचरिताः स्त्रियः तासां कपोला: गण्डाः तेषां कान्तिरिव कान्तिस्तया शालते शोभते इति । तदनु तदनन्तरम् । गृहीतव्रतस्यापरित्यागात् ह्लादमानज्ञानं मृगसेनम् अधार्मिकलोकात् व्यतिरिक्तम् अन्यम् । रिक्तम् अप्राप्तमीनम् आयान्तं परिच्छिद्य ज्ञात्वा । अतुच्छो महान् कोपः क्रोधः अपरिहार्यस्त्यक्तुमशक्यो यस्याः तथाभूता तद्भार्या मृगसेनस्य जाया घण्टाख्या । यमघण्टेव किमपि कर्णकटु श्रोत्रपरुषं क्वणन्ती ब्रुवाणा | कुटीरान्तः श्रितशरीरा उटजस्यान्तः मध्ये आश्रितं शरीरं देहो यस्याः मृगसेनं निरुद्धान्तःप्रवेशं कृत्वा स्वयम् उटजे स्थितेति भावः । निर्विवरं निश्छिद्रम् अररं कपाटं निरुध्य अस्थात् अतिष्ठत् । मृगसेनोऽपि तया प्रतिरुद्ध सदनप्रवेश: तन्मन्त्रस्मरणसक्तचित्तः पञ्चत्रिंशदक्षर पवित्रस्य णमोकारमन्त्रस्य स्मरणे चिन्तने निरतहृदयः, पुराणतरतरुभित्तं जीर्णतरद्रुमस्य शकलम् उच्छीर्षे विधाय सान्द्रं निबिडं निद्रायन् स्वपन्, एतत्तरुभित्ताम्यन्तरविनिःसृतेन उच्छीर्षीकृतस्य द्रुमखण्डस्य अन्तरिछद्राद् बहिरागतेन सरीसृपसुतेन भुजगतनयेन दष्टः । कष्टम् अवस्थान्तरं मरणदशाम् आविष्टः प्राप्तः । व्युष्टसमये प्रभातकाले घण्टया दष्टः । पुनरनेन सार्धं सह उषर्बुधमध्यानुमोचितेति—उषर्बुधोऽग्निः तस्य मध्ये पतिशरीरानन्तरम् अनुमोचितः त्याजितः स्व स्वदेहो यया । आत्मनि विहितबहुनिन्दया स्वस्मिन् कृतबहुगर्हणया । शोचितश्च शोकविषयं नीतः । ततः "सा देवास्य व्रतं तदेव ममापि । जन्मान्तरे अपि चायमेव मे पतिः भूयात्" इत्यावेदितनिदाना इति प्रकटीकृतभाविपतिस्नेहा । समित्समिद्धमहसि समिद्भिः काष्ठैः समिद्धं प्रवृद्धं महस्तेजः यस्य तस्मिन् द्रविणोदसि अग्नी हव्यसमस्नेहम्, हव्येन देवेभ्यो दीयमानं द्रव्यं हन्यं घृतं तेन समः स्नेहो वस्मिन् तं देहं घृतवत् स्निग्धं सा जुहाव अजुहोत् अग्निसात् चकार । अथ विलासिनीति - विलासिनीनां शृङ्गाररसप्रियाणां स्त्रीणां विलोचनान्येव नेत्राण्येव उत्पलानि कमलानि तैः पुनरुक्ता वन्दनमाला तोरणमाला यस्याम् । विशालायां पुरि उज्जयिन्यां नगर्याम् । विश्वगुणामहादेवीश्वरो विश्वगुणानाम्न्या महादेव्याः पतिः विश्वंभरो विश्वं निर्भात इति विश्वंभरो जगत्पालकः विश्वंभरो नाम नृपतिः । घनश्रीपतिः घनश्रियाः पतिः, दुहितुः कन्यायाः सुबन्धोः पिता च सुबन्धुनाम्न्याः कन्यायाः पितेत्यर्थः । गुणपालो नाम श्रेष्ठी । तस्य किल गुणपालस्य मनोरथपान्थप्रीतिपापालिकायाम् एतस्यां कुलपालिकायाम्, गुणपालस्य मनोरथा एव पान्थाः पथिकाः तेषां प्रीतेः प्रपा पानीयशालिका तस्याः पालिकायां रक्षिकायाम् । एतस्यां कुलपालिकायां कुलीनपत्ल्याम् अनेन मृगसेनेन समापन्नसत्त्वायां समापन्नः प्राप्तः सत्त्वो जीवो यस्यां सा एवंभूतायां गर्भिण्यां जातायाम् इत्यर्थः । असो वसुधापतिः वसुधायाः भूमेः पतिः राजा विश्वंभरः विटकथा संसृष्टतया विटा जाराः तेषां कथा: ताभिः संसृष्टतया संसगं प्राप्तत्वात् प्रतिपन्नपाञ्चजनीनभावः पञ्चभिर्भूतैर्जन्यतेऽसौ पञ्चजनः पञ्चजनाय हितो भावः पाञ्चजनीनभावः प्रतिपन्नः स्वीकृतः पाञ्चजनीनभावः नास्तिकत्वभावः येन सः नास्तिको भूत्वा पञ्चेन्द्रिय विषयासक्ति गतः भाण्डादिरतो वा नर्मभर्मनाम्नो नर्मसचिवस्य परिहासे कुशलस्य नर्मभर्मनाम्नो मन्त्रिणः सुताय नर्मधर्मणे गुणपालश्रेष्ठिनम् अखिलकलाकलापालंकृतरूपसमन्वितां सुतामयाचत । अखिलाश्च ताः कला नृत्यगायनादिविद्याः तासां कलापः समूहः तेन अलंकृतं च तद्रूपं सौन्दर्यं तेन समन्वितां युक्तां सुताम् अयाचत । [ श्रेष्ठी गुणपाल: दुहित्रा सुबन्धुना सह कौशाम्बीदेशमयात् ] श्रेष्ठी दुष्प्रज्ञेन राज्ञा दुष्टा प्रशा बुद्धिर्यस्य तेन राज्ञा याचितः प्रार्थितः यदि नर्मसचिवसुताय सुतां वितरामि तदावश्यं कुलक्रमव्यतिक्रमो दुरपवादोपक्रमश्च निजवंशपरम्पराचा रोल्लङ्घनं भवेत् दुष्टोऽपवादो निन्दा च तस्याः उपक्रमः प्रारम्भः स्यात् । अथ स्वामिशासनं अतिक्रम्य उल्लङ्घ्यात्रैवासे तिष्ठामि तदा सर्वस्वापहारः सर्वस्वस्य धनदारादेः अपहारो लुण्ठनं
1
नृपत्याज्ञाम् ५३