SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ ४१८ पं० जिनदासविरचिता [पृ० १४स्यात् । प्राणसंहारश्च प्राणानां दशानां विनाशः भवेत् । इति निश्चित्य प्रियसुहृदः वल्लभमित्रस्य श्रीदत्तस्य वणिक्पतेः वैश्यस्वामिमः निकेतने गहे। समणिमेखलकलत्रं मणिमयरशनायुतं कलत्रं श्रोणिर्यस्य तथाभूतं कलत्रं भार्याम् अवस्थाप्य, स्वापतेयसारं स्वापतेयेषु धनेषु सारं मणिकनकमौक्तिकादिकं दुहितरं च सुतां च मात्मसात्कृत्वा स्वायत्तं कृत्वा, सुलभकेलिवनवनाशयनिवेशं कौशाम्बीदेशम् अयासीत् । सुलभा केलि: क्रीडा यत्र तानि वनानि उद्यानानि वनाशया जलाशयाश्च तडागादयः तेषां निवेशो रचना यत्र तं कौशाम्बीदेशा अयासीत् । अत्रान्तरे श्रीमद्दरिद्रमन्दिरनिविशेषम् आचरितपर्यटनी अस्मिन्समये श्रीमतां धनिनां दरिद्राणां मन्दिरेषु गृहेषु निविशेष समतां मत्वा कृतविहारी उभयेषां गृहेषु विहितगमनी शिवगुप्त-मुनिगुप्तनामानी मुनी श्रीदत्तप्रतिवेशनिवासिनोपासकेन यथाविधिविहितप्रतिग्रही कृतोपचारविग्रही च तामङ्गनाश्रयां धनश्रियम् अपश्यताम् । श्रीदत्तश्रेष्ठिनो गहस्य समीपे निवासिना बसता उपासकेन श्रावण आगमोक्तप्रतिग्रहादिनवविधान: कृतसत्कारी कृतो य उपचारः सेवा वैयावृत्त्यं तेन युक्तौ विग्रही देही ययोस्तो मुनी आजिरगतां धनश्रियम् ऐक्षेताम् । तत्र मुनिगुप्तभगवान्किल, धनश्रियं निध्याय वोक्ष्य कोऽपि पापी कक्षावस्या अवतीर्णोऽत इयं दुःखार्ता जातेति अभाषत । कथंभूतां धनश्रियम् । केवलखलिस्नानपरुषाम् तैलविरहिततिलकिट्रेन केवलेन कृतस्नानत्वात् परुषां रूक्षाङ्गाम, उद्गमनीयसंगतानाभोगत्विषम् उद्गमनीयं धोतवस्त्रद्वयं तेन संगता एकत्वमापन्ना अङ्गानाम् आभोगा सुविस्तरा त्विट् कान्तिर्यस्यास्ताम् । अवैधव्येति-अवैधव्यचिह्नं जीवत्पतिकालक्षणं दवरकमात्र मङ्गलसूत्रं तदेव जुषते सेवते इति ताम । पुनः कथंभूताम् । आप्तेति-आप्तो विश्वस्तो जनः कान्तः पतिः, अपत्यं कन्या सुतश्च, परिजनः किंकरगणः एषां विरहेण वियोगेन देहसादः शरीरकृशता यस्याः ताम् । गर्भगौरवखेदां गर्भभारक्लान्ताम् च, शिशिराजस्रवासवशवर्तिनी (?) शिशिराणि शीतानि अजस्राणि सततगलन्नेत्रजलानि तेषां वशवर्तिनी । स्थलकमलिनीमिव मलिनच्छवि मलिनकान्तिम्, उदवसितपरिसरे उदवसितस्य गृहस्य परिसरे पर्यन्तभुवि परगृहे वासो निवासस्तेन विशीर्यमाणा म्लायमाना मुखस्य श्रीः शोभा यस्यास्तां धनश्रियं निध्याय विलोक्य 'अहो महीयसां खलु एनसाम् आवासः महीयसां महताम् एनसां पापानाम् आवास: गृहं खलु कोऽपि अस्याः कुक्षी उदरे महापुरुषोऽवतीर्णः आगतो भवेत् । येन अवतीर्णमात्रेणापि प्रविष्टमात्रेणापि दुष्पुत्रेणेव कुसुतेनेव दोना इयदावेशां दशाम् अशिश्रियत् इयान् आवेशो यस्यास्ताम् एवंस्वरूपाम् अवस्थाम् अवालम्बत इत्यभाषत ( मुनिगुप्तो मुनिः ) मुनिवृषा शिवगुप्तः-मैवं भाषिष्टाः मुनिषु वृषेव इन्द्र इवेति मुनिवृषा शिवगुप्तः मैवं वोचः। यतो यद्यपीयं श्रेष्ठिनी कानिचिद्दिनानि एवंभूता सती पराधिष्ठाने परस्य अन्यस्य अधिष्ठाने गृहे तिष्ठति, तथाप्येतन्नन्दनेन एतस्याः पुत्रेण सकलवणिक्पतिना सर्ववैश्यस्वामिना राजश्रेष्ठिना निरवधिशेवधीश्वरेण निःसीमनिधीनाम् ईश्वरेण स्वामिना विश्वंभरसूतावरेण च विश्वंभराख्यनपसुताया वरेण पत्या भवितव्यम् इत्यवोचत्। एतच्च स्वकीयमन्दिरालिन्दगतः निजगहबहिरिप्रकोष्ठं यातः श्रीदत्तः निशम्य श्रुत्वा 'न खलु प्रायेण असत्यमिदम् उक्तं भवति महर्षेः' इत्यवधार्य इति विनिश्चित्य सूचामुखसर्पवत् दुरीहितदत्तचेतोवृत्तिः आसीत् । सूचीवत् तीक्ष्णं मुखं यस्य स चासो सर्पश्च स इव, दुरीहितं दुष्कार्य तत्र दत्ता चेतोवृत्तिः मनोव्यापारो येन स तथाभूत आसीत् अजायत । धनश्रीश्च परिप्राप्तप्रसवदिवसा सती सुतमसूत परिप्राप्ता प्रसवदिवसं प्रसूतिदिनं यया एवंभूता सती पुत्रम् अजनयत् । श्रीदत्तः-चित्रभानुरिव अग्निरिव । अयं खलु बालिशः बालकः। आश्रयाशः आश्रयम् आधारवस्तु अश्नाति इति आश्रयाशः मम विनाशकरो भवेत् । तत् तस्मात् कारणात् असंजातस्नेहायामेव अनुत्पन्नप्रीती एव अस्य मातरि सत्याम अस्य उपांशुदण्डः एकान्ते निगूढतया दण्डः श्रेयान् हितकृद् भवेत् । इति परामृश्य इति विचार्य । प्रसूतिदुःखेन अतुच्छमछपिाश्रयां दीर्घसंमोहात् काष्ठवनिष्पन्दीभूतदेहां धनश्रियम् आकलय्य ज्ञात्वा, निजपरिजनजरतीमुखेन निजपरिकरजनानां जरतीनां वृद्धस्त्रीणां च वदनेन प्रमीत एवायं तनयः मृत एवायं सुतो जातः इति प्रसिद्धि विधाय, आकार्य आहूय च एक श्वपचं मातङ्गं कथंभूतम् आचरितोपचारप्रपञ्चम् आचरितः विहितः उपचारस्य आदरस्य प्रपञ्चः विस्तारो यस्य तम् । जिह्मब्राह्मीरहस्यनिकेतः कृतापायसंकेतः जिह्मा कपटयुक्ता सा चासो ब्राह्मी भाषा तस्या रहस्यस्य निगूढताया निकेतः गृहभूतः, कृतः अपायस्य विनाशस्य संकेतो येन तथाभूतः श्रीदत्तः तं स्तन्यपं स्तनाज्जातं स्तन्यं दुग्धं तत्पिबतीति स्तन्यपः तं दुग्धपं बालम् एतस्मै
SR No.022417
Book TitleUpasakadhyayan
Original Sutra AuthorSomdevsuri
AuthorKailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2013
Total Pages664
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy