________________
-पृ० १६४]
उपासकाध्ययनटीका
४१६
चाण्डालाय समर्पयामास । सोऽपि जनंगमः चाण्डाल: स्वर्भानप्रभेण करेण राहसमेन कृष्णवर्णेन हस्तेन रामरश्मिमिव रामाः मनोज्ञाः रश्मयः किरणा यस्य तम इव चन्द्रमिव तं स्तनंधयम् उपरुध्य गृहीत्वा । निःशलाकावकाशं निर्जनप्रदेशं देशं स्थानमाश्रित्य । पुण्यपरमाणपजमिव पुण्यानां परमाणूनां पुञ्जमिव शुभदेहवन्तम् एनं बालं दृष्टवा। संजातकरुणारसप्रसरप्रसन्नमुखः संजातः उत्पन्नश्चासौ करुणारसः दयारसः तस्य प्रसरः प्रवाहः तेन प्रसन्नवदनः, सुखेन विनिधाय स्वकीयं गहमटोकत अगच्छत् । पुनरस्यैव अधरभवभगिनीपतिः अशेषापणिकपणपरमेष्ठी इन्द्रदत्त श्रेष्ठी अधरभवा लघीयसी सा चासो भगिनी तस्याः पतिः। अशेषाश्च ते आपणिकाः पण्यानां क्रयविक्रयादियोग्यानां वस्तूनां व्यवहारकारिणः, तेषां पणो व्यवहारस्तस्मिन् परमेष्ठी चतुरः इन्द्रदत्तश्रेष्ठी, विक्रयाडम्बरितशण्डमण्डलाधीनं विक्रयणक्रियया डम्बरिताः शोभिताः ये शण्डा वृषभाः तेषां मण्डलं समूहः तस्य अधीनम् आयत्तम्, पेठोपकण्ठगोष्ठीनं पेठस्य (?) उपकण्ठं समीपं गोष्ठीनं भतपर्वकं गोष्ठं गोष्ठीनम अनुमतः गतः, वत्सीयविषयसनोडक्रीडागतगोपालबालकलपनपरस्परालापात् वत्सेम्यो हितः वत्सीयः स चासो विषयः वत्सहितो निवासप्रदेशः तस्य सनीडं समीपं क्रोडार्थम् आगता ये गोपालबालकाः बल्लवानां शिशवः, तेषां लपनानि मखानि तेषां परस्परालापात अन्योन्यसंभाषणात । वत्सतरतानकसंतानपरिवतं वत्सतराः दम्याः तानका: सद्योजाताः गोशिशवः, तेषां संतानः समूहः तेन परिवृतम् । अनेकेति-अनेके बहवः ते च ते चन्द्रकान्तोपलाः चन्द्रकान्तमणयः तेषाम् अन्तराले मध्ये निलोनं स्थितम् । अरुणेति-पद्मरागरत्ननिधिमिव तं जातं बालम् उपलभ्य दृष्ट्वा स्वयम् अवीक्षितपुत्रमुखत्वात् तबुद्ध्या 'मदीयस्तनयोऽयमिति मत्या' साधु अनुरुध्य सम्यक् विज्ञप्य 'स्तनंधयावधानधृतबोधे राधे स्तनंधयः शिशुः तस्य अवधानं 'कदा मे पुत्रो भविष्यतीति अवधानं चिन्ता तस्यां धृतो बोधो ज्ञानं यया तत्संबोधनम्, राधा इति । इन्द्रदत्तस्य जायाया नाम तत्संबोधनं हे राधे इति । तवायं गूढगर्भसंभवः तनद्भवः, तन्वाः शरीरात उद्भवः उत्पत्तिर्यस्य इति प्रवर्द्धिता प्रसिद्धिर्येन सः श्रेष्ठी महान्तम् अपत्योत्पत्तिमहोत्सवम् अकार्षीत् अकरोत् ।
[पृष्ठ १६०-१६४] [श्रीदत्तः भगिन्या सह तं बालं गृहमानीय पुनः तं मातङ्गाधीनं मारणायाकरोत् । सोऽपि वृक्षाकुले नदीतटनिकटे त्यक्त्वा ततो निजगृहम् अगमत् । ] श्रीदत्तः श्रवणपरंपरया कर्णपरंपरया तमेनं वृत्तान्तं वार्ताम् उपलभ्य श्रुत्वा, शिश्विति-शिशोः स्तनंधयस्य विनाशस्याशयेन अभिप्रायेण, कीनाश इव यम इव तन्निवेशम् आश्रित्य इन्द्रदत्तश्रेष्ठिनः गृहं गत्वा 'इन्द्रदत्त, अयं महाभागधेयो महाभाग्यः भागिनेयः भगिन्याः पुत्रः स्वस्रीयः ममैव तावद्धाम्नि गृहे वर्धतां वृद्धि यातु' इत्यभिधाय उक्त्वैवम् सभगिनीकं भगिनीसहितं तोकं पुत्रम् आत्मावासं निजगृहम् आनीय, पुरावत् पूर्वमिव क्रूरप्रज्ञः निर्दयमतिः संज्ञपनार्थ मारणार्थम्, अन्तावसायिने चाण्डालाय प्रायच्छत् समर्पयामास । सोऽपि दिवाकीर्तिश्चाण्डाल: उपात्तपुत्रभाण्डः गृहीतपुत्रपात्रः, सत्वरम् उपह्वरानुसारी निर्जनप्रदेशमनुगच्छन् । समीरेति-समीरस्य वायोर्वशात् गलितं विनष्टं घना मेघा एव अम्बराणि वस्त्राणि तेषाम् आवरणम् आच्छादनं यस्य, हरिणकिरणमिव हरिणाः मनोहराः किरणा: करा यस्य तमित्र चन्द्रमिव ईक्षणरमणीयं नेत्रालादकम् , गुणपालतनयमालोक्य सदयहृदयः प्रबलविटपिसंकटे प्रबला दृढाः सारवन्तः ये विटपिनः वृक्षाः तैः संकटे व्याप्ते सरित्तटनिकटे नदीतीरसमीपे परित्यज्य अश्वल्लीत् आशु अगमत् । [गोविन्दो नाम गोपालस्तं- गृहीत्वा स्वभार्याय सुनन्दायै समर्पितवान् ] तत्राप्यसो पुरोपाजितपुण्यप्रभावात् पूर्वजन्माजितपुण्यमाहात्म्यात्, धेनुभिः उपरुद्ध सविधभागः, कथंभूताभिः धेनुभिः । उपमातृभिरिव धात्रीभिरिव एतद्वीक्षणात अस्य बालकस्यावलोकनात क्षरत्क्षीरस्तनाभिः निर्गलदग्धकूचाभिः। आनन्देति-आनन्देन उदीरिता उच्चारिता निर्भराः विपुला हंभेति ध्वनयो याभिः धेनुभिः पुनः कथंभूताभिः । प्रचाराय तृणभक्षणाय आगताभिः, कुण्डोनोभिः कुण्डमिव ऊधांसि यासां ताभिः, व्रजलोकधेनुभिः गोपाललोकगोभिः उपरुद्धसविधभागो व्याप्तसमोपदेशः अपदान्तरं पदं स्थानम् अन्यत्पदं पदान्तरं स्थानान्तरमिति, न पदान्तरम् अपदान्तरं तदेव स्थानमागतेन तद्रक्षणदक्षेण तस्य बालकस्य रक्षणे दक्षेण चतुरेण गोपालजनेन (सूर्यास्तसमये विलोकितः) कथंभूते सूयें। अस्तेति-अस्तोऽस्ताचलः तस्य अवतंस इव भूषणवत् भासः किरणाः यस्य तस्मिन्, पुनः कथंभूते । अशोकेति-अशोकपुष्पगुलुञ्छमनोज्ञे सरोजसुहृदि सरोजानां दिनविकासिकमलानां सुहृदि मित्रे सति विलोकितः दृष्टः ।