________________
पं० जिनदासविरचिता
[पृ० १६४कथितश्च कस्मै। गोविन्दनामधेयाय गोपालाय, कथंभूताय सकलगोपज्येष्ठाय सर्वबल्लवजनेभ्यो ज्येष्ठाय वयसा अधिकाय बल्लवकूलवरिष्ठाय ब्रजवंशश्रेष्ठाय, निजमुखेन तिरस्कृतकमलाय, गोविन्दाय । सोऽपि तनयप्रोत्या आनन्दमहत्या च आनीय उत्पादितमनोमोदायाः सुनन्दायाः समपितवान् । कृतम् अस्य इन्दिरामन्दिरस्य लक्ष्मीगेहस्य धनकोतिरिति नाम गोविन्देन । ततोऽसौ क्रमेण परित्यक्तशिवदशः कमलेश इव परित्यक्ता मुक्ता शैशवदशा बाल्यावस्था येन सः कमलेश इव हरिरिव । युवजनेति-युवजनास्तरुणास्तेषां मनः पण्येन मनोग्रहणे यत्पण्यं क्रयाणम् अर्थप्रायं तारुण्यं तेन उत्फुल्लानि विकास प्राप्तानि यानि बल्लवीनां गोपाङ्गनानां लोचनानि एव अलिकुलानि भृङ्गसमूहाः तैः अवलेह्यं स्वाधं लावण्यमेव मकरन्दः यस्य । पुनः कथंभूतम् । अमन्देति-अमन्दः महान् स चासो आनन्दः तस्य कामः इच्छा तां ददातीति । अतिकान्तरूपायतनम् अतिमनोहरसौन्दर्यगेहम् यौवनम् - आसादितः प्राप्तः । पुनरपि प्राज्यम् उत्तम यत् आज्यं घृतं तस्य वणिज्या व्यवहारः तस्य उपार्जनं लाभः तदर्थ सज्जम् आगमनं यस्य तेन श्रीदत्तेन दुष्टः । पुष्टश्च गोविन्दः तस्य अवाप्तिप्रपञ्चः प्राप्तिविस्तर: [श्रीदत्तः मत्पत्रं दर्शयन्तं त्वं विषेण मुशलेन वा जहि इति निजपुत्राय पत्रं लिखितवान् ] श्रीदत्तः-गोविन्द, मदीये सदने किमपि महत्कार्यम् आत्मजस्य तनयस्य निवेद्यं कथनीयमस्ति । तदयं प्रजुः प्रकर्षवेगवती जानुनो यस्य स प्रजुरयं धनकीति: इमं लेखं ग्राहयित्वा सत्वरं प्रहेतव्यः प्रेषणीयः । गोविन्द:-श्रेष्ठिन, एवमस्तु । लेखं चैवमलिखत् 'अहो विदितसमस्तपौतवकल ज्ञातसकलतुलामानपरिमाणकल, महाबल, एष खलु अस्मद्वंशविनाशवैश्वानरः अस्माकं वंशस्य कुलस्य विनाशाय वैश्वानरः अग्निरिवास्ति । अवश्यं विष्यो विषेण वध्यः, मुशल्यो मुशलेन वध्यो वा विधातव्यः इति धनकोतिस्तथा तातवणिक्यतिभ्याम् आदिष्टः सावष्टम्भम् अवष्टम्भ आधारः तेन सहितं सावष्टाम्भं मुद्रासहितं गलालंकारसखं लेखं कृत्वा दवरकेन लेखपत्रं निबध्य तद्गले स बढवानित्यर्थः । गलबद्धभूषणेन सहेदं लेखपत्रमपि तेन गले बद्धम् । गत्वा च जन्मान्तरोपकाराधीनमोनावतारसरस्याम् एकानस्याम् अन्यज्जन्म जन्मान्तरं पूर्वजन्मेत्यर्थः । तस्मिन्कृतो य उपकारः तस्याधीनमोनस्य अवतारः उत्पत्तिः प्रवेशो वा यस्यां तथाभूतायाम् एकानस्याम् उज्जयिन्याम् । पूर्वजन्मनि यो मत्स्यो मगसेनेन अहिंसावतरक्षाय जालाजले मुक्तः स मृत्वा उज्जयिन्यां वेश्याऽजायत। तत्प्रवेशपदिरपर्यन्ततिनि वने तस्यां प्रवेशः तत्प्रवेशः तत्र यत्पदिरं महासरः तस्य पदिर. पर्यन्त (?) वतिनि वने उद्याने वर्मश्रमापनयनाय वर्त्मन: मार्गस्य श्रमहरणाय पिकप्रियालवालपरिसरे पिकानां कोकिलानां प्रियः आम्रतरुस्तस्य आलवालस्य समन्ततोऽम्भसो धारणार्थ यद्वक्षमले वेष्टनं क्रियते तदालवालमुच्यते तस्य परिसरे समीपप्रदेशे नि:संज्ञम् अवबोधरहितं गाढम् अस्वाप्सीत् अनिद्रात् । [ तत्रोद्याने अनङ्गसेना गणिकागता सा गाढनिद्रं तं विज्ञाय तस्य गलाल्लेखम् आदायावाचयत् । तल्लेखस्य परिवर्तनं कृत्वा तत्र लेखे धनकीर्तये मदीया कन्या मदागमनमनपेक्ष्य दातव्येति लिलेख अत्रावसरे अस्मिन् प्रस्तावे, विहितपुष्पावचयविनोदा कृतकुसुमोपचयकेलिः । सपरिच्छदा सपरिवारा । निखिलविद्याविदग्धा सकलगाननर्तनादिकलाचतुरा । पूर्वभवो. पकारस्निग्धा पर्वजन्मकृतोपकृत्या स्नेहला । संजीवनौषधिसमाना संजीवनी नामौषधिर्यस्या उपयोगे मतवदृशो नरो जीवति तया सदृशी अनङ्ग सेना नाम गणिका तस्यैव सहकारतरोः आम्रवृक्षस्य तलम् उपढौक्य गत्वा, विलोक्य च निष्पन्दलोचना निश्चलनेत्रा चिराय दीर्घसमयं तम् अनङ्गम् इव मदनमिव, मुक्तकुसुमास्त्रतन्त्र मुक्तं त्यक्तं कुसुमास्त्राणां पुष्पबाणानां तन्त्रं धनुरादिपरिच्छदो येन, लोकान्तरमित्रम् अन्यो लोकः स्वर्गलोक विना मध्यलोकः तस्य मित्रम् अशेषलक्षणेति सामुद्रिकोक्तसकलशुभलक्षणैर्युक्तदेहं धनकीर्तिम्,पुनरायुः-श्री-सरस्वती समागमं प्रतिपादयता रेखात्रितयेनेव प्रकाशं वितकितम् ऊहितं कर्कोटानां नागाकारभूषणानां त्रितयेन बन्धुरः सुन्दरः मध्यप्रदेशः यस्य तस्मात् कण्ठदेशात् आदाय अपायप्रतिपादनाक्षरालेख लेखम् अवाचयत् । अपायो मृत्युः तस्य प्रतिपादनं कुर्वताम् अक्षराणां पदवाक्यस्वरूपाणाम् आलेखो लेखनं यत्र तथाभूतं लेखम् अवाचयत् पठति स्म । [ अनङ्गसेनया संमृज्य मृत्युलेखं श्रेष्ठिपुत्री श्रीमती धनकीर्तये दातव्येति लिलिखे ] तं वाणिजकापसदं खलं वैश्यं हृदयेन विकुर्वती जुगुप्समाना लोचनाञ्जनकरण्डादुपात्तेन लोचनार्थम् अञ्जनं कज्जलं लोचनाञ्जनं तस्य करण्डात् संपुटात् , उपात्तेन गृहीतेन वनवल्लीपल्लवनिर्यासरसद्रुतेन उपवनलताकिसलयानां मर्दनात् निर्गतक्षोररसेन द्रवभावमापनेन कज्जलेन, अर्जुनशलाकया अर्जुनाख्यतृणस्य शलाकया लेखन्या, तव परिम्लिष्ट