________________
-पृष्ठ १६४] उपासकाध्यनटीका
४२१ पुरातनसूत्रे परिम्लिष्टानि परिमृष्टानि विनाशितानि पुरातनसूत्राणि पूर्वतनानि वाक्यानि यत्र तथाभूते पत्रे लेखान्तरम् अन्यं लेखं लिलेख । तथाहि - "यदि श्रेष्ठिनी माम् अवधेयवचनम् अवधेयानि ग्राह्याणि प्रमाणभूतानि वचनानि यस्य तथाभूतं यदि मां मन्यते, महाबलश्च यदि माम् अनुल्लङ्गनीयवाक्प्रसरं पितरं गणयति, वाचां प्रसरः वाक्प्रसरः अनुल्लकनीयो वाक्प्रसरो यस्य आदेयभाषणस्तं यदि मां पितरं जनकं महाबलो मन्यते, तदा अस्मै निकामं नितरां सप्तपरुषपर्यन्तपरीक्षितान्वयसंपत्तये धनकीतये सप्तपुरुषावसानं यावत् अवलोकितवंशशुद्धये अस्मै धनकीर्तये कूपदप्रक्रमेण जामातृदेयं वस्तु कूपमुच्यते । हिरण्यकन्यादायी कूपदः कथ्यते । हिरण्यकन्यादानक्रमेण द्विजदेवसमक्षम अविचारापेक्ष विचारस्य अपेक्षाम अक्रत्वा श्रीमतितिव्य ततो यथाम्नातविशिखम इमं लेखम आमच्य यथा आम्नाता प्रोक्ता विशिखा इकार-उकारादिमात्राचिहानि यत्र तथाभूतम् इमं लेखम् आमुच्य गले निबध्य समाचरितगमनायां विहितस्वस्थानगतो अनङ्गसेनायां सत्यां धनकोतिश्चिरेण विद्राणसान्द्रनिद्रोद्रेकः विद्राणः विनष्टः सान्द्रः निबिड: अवबोधरहितः निद्रोद्रेकः स्वापस्य अतिशयो यस्य, सोत्सेकं सगर्वम् उत्थाय प्रयाय च गत्वा च श्रीदत्तनिकेतनं श्रीदत्तगृहम्, जननीसमन्विताय महाबलाय प्रदर्शितलेखः श्रीमतिसखः श्रीमतिः सखा यस्य स श्रीमतिजानिः अजायत [श्रीदत्तो धनकीर्ति मारणार्थ कात्यायनीमन्दिरं प्राहिणोत्, परं तच्छयालः तं गृहं प्रेष्य स्त्रयं देवीमन्दिरम् अवजत् तत्र च स श्याल: मारकर्मारितः । ] श्रीदत्तो वार्ताम् इमाम् आकर्ण्य प्रतूर्ण शीघ्र प्रत्यावत्ये प्रतिनिवृत्य निधाय स्थापयित्वा च तद्वधाय तन्मारणाय राजधानीबाहिरिकायां चण्डिकायतने चण्डिकानामदेव्या मन्दिरे कृतसंकेत. संनद्धवपुष मारणसंकेते संनद्धं वपुः यस्य तं नरं कच्चराचरणपिशाची मलिनाचारो जीववधः तत्र पिशाची पिशाचवदाचरणशीला देवद्रीचों देवमञ्चति देवघड पुरुषः, देवपूजिका स्त्री देवद्रोची तां च तद्वधाय स्थापयित्वा, परिप्राप्तोदवसितः परिप्राप्तः उदवसितं निजगृहं रहसि धनकीर्ति मुहराहय बहुकूटकपटमतिः कूटो राशिः बहुराशियुक्तकपटेषु मतिर्यस्य स श्रीदत्तः एवम् आबभाषे अब्रवीत् । वत्स, मदीये कुले किलवम् आचारः, पटुतरयामिनीमुखे कृष्णचतुर्दशीरात्रिप्रारम्भे कात्यायनीदेव्याः प्रमुख प्राङ्गणे चण्डिकादेवीमन्दिरे इति भावः, प्रतिपन्नाभिनवकङ्कणबन्धेन प्रतिपन्नोऽङ्गकृीतः अभिनवो नूतनः कणबन्धः विवाहमङ्गलसूत्रबन्धो येन । स्तनंधयागोधेन स्तनंधया बाला तस्याः गोधेन पतिना। महारजनरसरक्तांशकसमाश्रयः स्वयमेव माषमयमोरमौकुलिर्बलिरुपहर्तव्यः। महारजनानि कुसुम्भपुष्पाणि तेषां रसेन रक्तं रागयुक्तं यदंशुकं वस्त्रं तस्य समाश्रयः अवलम्बनं यस्य लोहितवस्त्रेणाच्छादित इत्यर्थः । स्वयमेव वरेणैव माषपिष्टविनिर्मितमोरमौकुलिः मोरः मयूरः काकः बलि: उपहाररूपेणं उपहर्तव्यः समर्पणीयः । धनकीतिः–तात तात, यथा तातादेशः भवतः पूज्यस्य आदेशस्तथा तम् अनुरु धे। इति निगीर्य उक्त्वा, गृहीतकुलदेवतादेयहन्तकारोपकरणः गृहीतानि स्वीकृतानि कूलदेवतायै निजान्वयरक्षिकायै देवतायै देया: हन्तकारास्तण्डुला उपकरणानि च येन स घनकीतिः, तेन श्यालेन पत्नीभ्रात्रा महाबलेन पुरप्रदेशान्निःसरन्नवलोकितश्च समालापितश्च भाषितश्च । हहो धनकीर्ते, प्रवर्धमानान्धकारावध्यायाम् अस्यां वेलायाम् अवगणः क्वोच्चलितोऽसि । प्रवर्धमानः वृद्धि गच्छंश्चासो अन्धकारः तेन अवध्यायां युक्तायाम्, अस्यां वेलायाम् अस्मिन्नवसरे, अवगणः एकक एव गणेन परिवारेण रहितः अवगणः क्व उच्चलितोऽसि । क्व गन्तुमुद्यतोऽसि । महाबल, मातुलनिदेशान्नमसितनिवेदनाय दुर्गालये। श्वशुराशायाः उपयाचितस्य निवेदनं कर्तुं देयवस्तुनिवेदनाय चण्डिकामन्दिरं यामि । यद्येवं नगरजमासंस्तुतत्वात्वं निवासं प्रति निवर्तस्व । यदि गन्तुमिच्छसि, मागच्छ, यतः स चण्डिकामन्दिरमार्ग: नगरजनान् प्रति असंस्तुतः अस्मिन् समये तेन मार्गेण गन्तुं नोचितम् । त्वं निवासं स्वगृहं प्रति निवर्तस्व याहि । अहम् एतदुपयाचितम्. ऐशान्याः स्पर्शयितुं प्रगच्छामि इष्टसिद्धय देयद्रव्यम् ऐशान्याः कात्यायन्याः अर्पयितुं प्रगच्छामि यद्यत्र तातो रोषिष्यति तद्रोषमहमपनेष्यामि। ततो धनकोतिर्मन्दिरमगात्, महाबलश्च कृतान्तोदरकन्दरम् कृतान्तस्य यमस्य उदरकन्दरं कुक्षिगह्वरम् । महाबलस्तत्रत्यैः मारणार्थ नियुक्तैः पुरुषर्मारितश्च । [श्रीदत्तभार्या विशाखा धनकीर्तिमारणोपायं रचयति परं सोऽपि विफल एव भवति । विषमोदकं भक्षयित्वा उभावपि श्रेष्ठिश्रेष्ठिन्यौ प्रियेते । ] श्रीदत्तः सुतमरणशोकातङ्कोपान्तः प्रकाशिताशेषवृत्तान्तः पुत्रमृत्युजातदुःखज्वरसमीपागतान्तकः, निवेदितसकलोदन्तः, "सकलनिकाय्यकार्यानुष्ठानपरमेष्ठिनि, मन्मनोह्लादचन्द्र लेखे