________________
४२२
पं० जिनदासविरचिता
[पृ०१६४
विशाखे, समस्तगृहकार्याचरणचतुरे, मदीयचित्तानन्ददाने चन्द्रलेखासदशे विशाखे, कथमयं वधेयः ममान्वयापायहेतुः प्रयुक्तोपायविलोपनकेतुः प्रवासयितव्यः। कथमयं वैधेयः गृहकर्मा मूर्खः मम वंशविनाशहेतुः प्रयुक्तोपायविनाशे केतुतुल्यः हन्तव्यः । विशाखा-श्रेष्ठिन्, मेलभावात् सर्वमनुपपन्नं त्वया चेष्टितम् । श्रेष्ठिन्, मेलभावात् मूर्खत्वात् वृद्धत्वात चञ्चलत्वाद्वा। सर्वम् अनुपपन्नं अयुक्तिकं कायं त्वया कृतम् । अतः कुरुण्डतः दारुपुत्तलकात् मार्जाराद्वा भीतः कुक्कुटपोत इव ताम्रचूडशिशुरिव तूष्णीं मोनेन आस्स्व उपविश । भविष्यति भवतोऽशेषं मनीषितम् । यदिष्टं ते पूर्ण भविष्यति इत्याभाष्य उक्त्वा, अपरेयुः अन्यस्मिन्दिवसे दयितजीवितव्यतोदकेषु मोदकेषु विषं संचार्य, दयितस्य वल्लभस्य-जीवितव्यं जीवनं तस्य तोदकेष दुःखदायिषु मोदकेषु लड्डकेष विषं संचार्य मेलयित्वा, सुते श्रीमते, य एते कुन्दकुमदकान्तयो मोदकास्ते स्वकीयाय कान्ताय देयाः कुन्दपुष्पवत श्वेतकमलवत च सितद्यतयो - लड्डकाः निजाय कान्ताय देयाः, श्यावश्यामाकश्यामलरुचयश्च जनकाय, धूसरारुणवर्णतणधान्यविशेषवर्धसरकान्तयो मोदकाः पित्रे देयाः। इति समर्पितसमया अवगमितसंकेता समासन्नमरणसमया समीपागतमृतिवेला सरिति नद्यां सवनाय स्नानं कर्तुम् अनुससार अन्वगच्छत् । श्रीमतिः यच्चोक्ष(?) भक्ष्यं तत्प्रतीक्ष्याय, ताताय वितरितव्यम् । चोक्षं भक्षं सुन्दरः शुचिर्मोदकः स प्रतीक्ष्याय पूज्याय ताताय पित्रे देयः इत्यवगस्य विज्ञाय अविज्ञातसवित्रीचित्तकौटिल्या अबुद्धमातृमनःकपटभावा, निःशल्यहृदया सरलमानसा तान्मोदकान् एतयोः जनकपत्योः विपर्ययेण अवीवृधत् पर्यवेषयत् । ये धूसरवर्णा मोदकास्ते निजपतये, चन्द्रकान्तास्ते पित्रे तया पर्यवेष्यन्त । विशाखापतिशून्यं मरणं प्राप्तत्वात् पतिरहितम्, अरण्यसामान्यं वनसदृशम् अगारं गहम् आप्य आगत्य परिदेव्य च शोकं विधाय च दीर्घसमयम् । पुनः पुत्रि, किमन्यथा भवति महामनिभाषितम् । केवलं तव वापेन मया च
र्यात्मोयान्वयविलोपाय कृत्योत्थापनमाचरितम् । तव वापेन पित्रा थेर्या स्थविरया जरत्या मया च आत्मीयान्वयो निजवंशः तस्य विलोपाय विनाशाय कृत्या नाम क्रूरदेवताया उत्थापनम् आचरितम् । सा जागरूका कृतेति भावः। तदलमत्र बहुप्रलापेन । कल्पद्रुमेण कल्पलतेव त्वमनेन देवदेयदेहरक्षाविधानेन धवेन सार्धम् आकल्पम् इन्द्रियश्वर्यसुखमनुभव इति संभाविताशीर्वादा तमेकं मोदकमास्वाद्य पत्युः पथि प्रतस्थे। कल्पद्रुणा कल्पवल्लीव त्वमनेन विधिना देयस्य देहस्य शरीरस्य रक्षणविधानेन धवेन पत्या सह आकल्पं कल्पान्तकालं यावत् इन्द्रियसुखम् ऐश्वर्यसुखं च अनुभव इति समर्पिताशीः तमेकं लड्डुकं भक्षयित्वा पत्युः पथि मार्ग प्रतस्थे जगाम मतेति भावः । [विश्वंभरेण राज्ञा स्वकन्या धनकीर्तये दत्ता, गुणपालोऽपि धनकीर्तेः पिता कौशाम्बीदेशात्पद्मावतीपुरम् ( उज्जयिनी ) आगत्य पुत्रेण साधं समतिष्ठत । ] एवं विहितेति एवं पूर्वोक्तप्रकारेण कृतपापाभिप्रायाधीनतया प्राप्तासोमसूतशोकदशे तस्मिन् भार्यापितरि तन्मातरि च दशमीस्थे मते सति स पुरातनसुकृतप्रभावात् । उल्लंघितेति-अतिक्रान्तभयानकप्राणविनाशकपञ्चसंकटः, प्रतिदिवसं वधिष्यमाणश्रीः एकदा तेन . विश्वंभरेण राज्ञावलोकितः, तदङ्गसौन्दर्ये उत्पन्नविपुलाश्चर्येण तनूजया स्वसुतया सह उभयेन विशाम् आधिपत्यपदेन वैश्यानाम् आधिपत्यपदेन श्रेष्ठिपदेन, तथा विशां मनुजानाम् आधिपत्यपदेन स्वामित्वपदव्या योजितश्च गुणपाल: किंवदन्तोपरंपरया जनश्रुत्या परंपरया अस्य कल्याणपरंपराम् आकर्ण्य कौशाम्बोदेशात्पद्मावतीपुरमागत्य अनेन आश्चर्ययुक्तविभवसहितेन अनुजातेन लघीयसा पुत्रेण सह संजग्मे समगच्छत ।
[पृष्ठ १६४-१६६ ] अथान्यदा सकलेति-कलत्रं पत्नी, पुत्रः मित्रं च तन्त्रं सैन्यं च तेन सहितेन धनकोतिना, दर्शनायागतया अनङ्गसेनया च अनुसरणतारः गुणपालश्रेष्ठी मतिश्रुतावधिमनःपर्ययगोचरसभ्राजम्, सकलसंयतजनवृन्दराजं श्रीयशोध्वजनामपात्रं भगवन्तम् अभिवन्द्य स बहुविनयेन वक्ष्यमाणम् अपृच्छत्-भगवन्, किं नाम जन्मान्तरे धर्ममूर्तिना धर्मस्य पूजादानादिसुकृतस्य मूर्तिना शरीरेण धनकीर्तिना सुकृतं पुण्यमुपाजितम् । येन बालकालेऽपि तानि तानि देवैकशरणप्रतीकाराणि देवम् एव एक मुख्यं शरणं रक्षक तेन प्रतीकारः संकटविनाशोपायो येषां तानि व्यसनानि संकटानि व्यतिक्रान्तः उल्लङ्गितवान् । येन सुकृतेन अस्मिन् जगति व्यतिरिक्तम् अधिकं रसायां पृथिव्याम् अनुपलभ्यमानं यद्रूपं लावण्यं तेन संपन्नः अभूत् । येन अदभ्रः विपुल: अभ्रियः आकाशसंबन्धी विभावसुः विद्युदग्निः तस्य प्रभासंभारः कान्तिसमूहः इव देवानाम् अपि अप्रतिहतमहः अनिराकृतकान्तिः समजनि। येन चापरेषामपि अन्येषाम् अपि तेषां तेषां महापुरुषकक्षाव