________________
-पृ० १६६]
उपासकाध्ययनटीका
४२३
ग्रहाणां महानरपार्श्वाश्रितानां गुणानां समवायः संचयः अभवत् । तथाहि — स्थानं वदान्यतायाः दातृत्वस्य, समाश्रयः निकेतनम् अवदानकर्मणः प्रशस्तकर्मणः, गृहम्, क्षेत्रं मैत्रेयिकाया: मैत्रीभावस्य निवासः, स्वप्नेऽपि न स्वजनस्य अजनि अजायत मनोमन्तुः मनसाध्यपराधः । कन्तुरिव च मदन इव च कामिनी लोकस्य ना रोजनस्य । तदस्य भवन्त महामुने, प्रापणिकपरिषत्प्रवणस्य प्रापणिकाः क्रयविक्रयकारिणो वैश्याः तेषां परिषत् संघः तस्मिन् प्रवणस्य चतुरस्य । निःशेषेति - सकलागमचतुरचित्तस्य निसर्गादेिव । निखिलेति - सकलपरिच्छदा भाषणतत्परस्य । विनेयेति - विनेतुं शिक्षितुं योग्याः विनेयाः भव्याः श्राद्धजनाः तेषां मनः कुमुदमोदिकथावतारे अमृतमूर्तेः चन्द्रस्य सुकीर्तेः शोभनयशसः पुरोपार्जितं पूर्वजन्मलब्धं सुकृतं पुण्यं कथयितुमर्हसि । भगवान् — श्रेष्ठिन् श्रूयताम् । तत्संबन्धसक्तं धनकीर्तिश्रेष्ठिनः प्राग्जन्म संबन्धसहितं पूर्वोक्तं वृत्तान्तम् अचकथत् कथयति स्म । या चास्य पूर्वभवनिकटा पूर्वजन्मना समीपस्था घण्टाभिधेया वधूटी पत्नी आसीत्, सा पूर्वजन्मकृताभिलाषा दमूनसि अग्नौ प्रवेशादियं संप्रति अधुना श्रीमतिः संजाता, यश्च मीनः स कालक्रमेण व्यतिक्रम्य उल्लङ्घ्य पूर्वं प्राक्तनं पर्यायपर्व अवस्थाग्रन्थिम् इयं अनङ्गसेना अजनि अजायत । अतोऽस्य महाभागस्य एक दिवसासाफलं एतद्विजृम्भते परिवर्धते । धनकीर्तिः एतद्वचत्र पवित्रश्रोत्रवत्र्मा एतस्य वचत्रेण वाक्येन पूतकर्णमार्गः, तथा श्रीमतिः अनङ्गसेना च पुराभवभवं प्राग्जन्मभवं भवं जन्म संभाल्य श्रुत्वा, उन्मूल्य च तमःसंतानतरुनिवेशमिव तमसाम् अज्ञानानां संतानं समूहः स एव तरुः वृक्षः तस्य निवेशमिव रचनामिव केशपाशं तस्यैव दोषज्ञस्य अन्तिके दोषान् रागद्वेषमोहादीन् जानातीति दोषज्ञः तस्य मुनेः यशोध्वजस्य अन्तिके समोपे, यथायोग्यताविकल्पं योग्यतायाः विकल्पं भेदम् अनुसृत्य, जिनमार्गोचितेन जिनकथितचारित्रोपाययोग्याचरणेन चिराय दीर्घकालम् आराध्य रत्नत्रयम्, विधाय च विधिवत् आगमम् । अनुसृत्य निरजन्यमनोवर्तनं प्रायोपवेशनम् । अजन्यम् उपसर्गः विघ्नः निर्गतम् अजन्यात् मनोवर्तनं यस्मिन् तथाभूतं निर्विध्नं भावः प्रायोपवेशनमिति मासादिकमवधिं कृत्वा चतुराहारत्यागं विधाय । तदनु घनकोर्तिः सर्वार्थसिद्धिसाधनकीर्तिबभूव । सर्वार्थसिद्धिनामकस्य पञ्चमानुत्तरस्य साधने कीर्तिर्यस्य तथा बभूव । समाधिमरणेन धनकीर्तिमुनिः सर्वार्थसिद्धि जगामेति भात्रः । श्रीमतिरनङ्गसेना च कल्पान्तरसंयोज्यं षोडशस्त्रर्गेषु केनचिदन्यतमेन कल्पान्तरेण स्वर्गान्तरेण संयोज्यं देवसायुज्यं देवपदसंयोगम् अभजत् । भवति चात्र श्लोकः सर्वार्थः । पञ्चकृत्वः इति - किलेत्यागमे । आगमे इति कथितमिति भावः । पुरा एकस्य मत्स्यस्य पञ्चकृत्वः पञ्चवारम् अहिंसनात् पञ्चवारम् अभयदानात् घनकीर्तिः पञ्चापदः पञ्च संकटानि अतीत्य उल्लंघ्य, श्रियः पतिः राजलक्ष्म्याः पति: स्वामी अभवत् ॥ ३६३॥
इत्युपा सकाध्ययने अहिंसा फळ । वलोकनो नाम षट्विंशः करूपः ॥ २६ ॥
२७. स्तेयफलप्रलपनो नाम सप्तविंशः कल्पः ।
[ पृष्ठ १६६ ] अदत्तस्येति- - अदत्तस्य वित्तस्वामिना यत्र समर्पितं तस्य परस्वस्य परकीयधनस्य ग्रहणं स्तेयं चौर्यम् उच्यते । परं सर्वभोग्यात् सकलैः जनैः स्थिरः आगन्तुभिश्च भोक्तुं योग्यात् तोयतृणादितः भावात् जलतृणादितः पदार्थात् अन्यत्र तत् स्तेयम् उच्यते । जलतुणादीनां सर्वभोग्यत्वात् न तद्ग्रहणं चौर्यम् । तत्र स्वस्वामिकत्वाभावात् ॥ ३६४ ॥ ज्ञातीनामिति - ज्ञातीनां दायादानाम् अत्यये मरणे तैः अदत्तमपि धनं ग्राह्यम् इति संमतम् । तु अन्यथा जीवतां ज्ञातीनां निवेशेन दुरभिप्रायेण राजवर्चसां धनं गृह्यते चेत् व्रतक्षतिः अचौर्यव्रतनाशः स्यात् । जीवतां ज्ञातीनां निदेशेन इदं त्वं गृहाणेति दत्तं चेत् चौयं न भवति ।। ३६५ ॥ संक्लेशेति - संक्लेशाभिनिवेशेन रागाद्यावेशेन आर्त रौद्राभिप्रायेण वा यत्र स्वपराश्रिते रायि धने प्रवृत्तिः स्यात्
१. 'ब' प्रती सर्वार्थः इति नास्ति 'क' प्रती च नास्ति सर्वार्थः ।