Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 545
________________ -पृ० १६६] उपासकाध्ययनटीका ४२३ ग्रहाणां महानरपार्श्वाश्रितानां गुणानां समवायः संचयः अभवत् । तथाहि — स्थानं वदान्यतायाः दातृत्वस्य, समाश्रयः निकेतनम् अवदानकर्मणः प्रशस्तकर्मणः, गृहम्, क्षेत्रं मैत्रेयिकाया: मैत्रीभावस्य निवासः, स्वप्नेऽपि न स्वजनस्य अजनि अजायत मनोमन्तुः मनसाध्यपराधः । कन्तुरिव च मदन इव च कामिनी लोकस्य ना रोजनस्य । तदस्य भवन्त महामुने, प्रापणिकपरिषत्प्रवणस्य प्रापणिकाः क्रयविक्रयकारिणो वैश्याः तेषां परिषत् संघः तस्मिन् प्रवणस्य चतुरस्य । निःशेषेति - सकलागमचतुरचित्तस्य निसर्गादेिव । निखिलेति - सकलपरिच्छदा भाषणतत्परस्य । विनेयेति - विनेतुं शिक्षितुं योग्याः विनेयाः भव्याः श्राद्धजनाः तेषां मनः कुमुदमोदिकथावतारे अमृतमूर्तेः चन्द्रस्य सुकीर्तेः शोभनयशसः पुरोपार्जितं पूर्वजन्मलब्धं सुकृतं पुण्यं कथयितुमर्हसि । भगवान् — श्रेष्ठिन् श्रूयताम् । तत्संबन्धसक्तं धनकीर्तिश्रेष्ठिनः प्राग्जन्म संबन्धसहितं पूर्वोक्तं वृत्तान्तम् अचकथत् कथयति स्म । या चास्य पूर्वभवनिकटा पूर्वजन्मना समीपस्था घण्टाभिधेया वधूटी पत्नी आसीत्, सा पूर्वजन्मकृताभिलाषा दमूनसि अग्नौ प्रवेशादियं संप्रति अधुना श्रीमतिः संजाता, यश्च मीनः स कालक्रमेण व्यतिक्रम्य उल्लङ्घ्य पूर्वं प्राक्तनं पर्यायपर्व अवस्थाग्रन्थिम् इयं अनङ्गसेना अजनि अजायत । अतोऽस्य महाभागस्य एक दिवसासाफलं एतद्विजृम्भते परिवर्धते । धनकीर्तिः एतद्वचत्र पवित्रश्रोत्रवत्र्मा एतस्य वचत्रेण वाक्येन पूतकर्णमार्गः, तथा श्रीमतिः अनङ्गसेना च पुराभवभवं प्राग्जन्मभवं भवं जन्म संभाल्य श्रुत्वा, उन्मूल्य च तमःसंतानतरुनिवेशमिव तमसाम् अज्ञानानां संतानं समूहः स एव तरुः वृक्षः तस्य निवेशमिव रचनामिव केशपाशं तस्यैव दोषज्ञस्य अन्तिके दोषान् रागद्वेषमोहादीन् जानातीति दोषज्ञः तस्य मुनेः यशोध्वजस्य अन्तिके समोपे, यथायोग्यताविकल्पं योग्यतायाः विकल्पं भेदम् अनुसृत्य, जिनमार्गोचितेन जिनकथितचारित्रोपाययोग्याचरणेन चिराय दीर्घकालम् आराध्य रत्नत्रयम्, विधाय च विधिवत् आगमम् । अनुसृत्य निरजन्यमनोवर्तनं प्रायोपवेशनम् । अजन्यम् उपसर्गः विघ्नः निर्गतम् अजन्यात् मनोवर्तनं यस्मिन् तथाभूतं निर्विध्नं भावः प्रायोपवेशनमिति मासादिकमवधिं कृत्वा चतुराहारत्यागं विधाय । तदनु घनकोर्तिः सर्वार्थसिद्धिसाधनकीर्तिबभूव । सर्वार्थसिद्धिनामकस्य पञ्चमानुत्तरस्य साधने कीर्तिर्यस्य तथा बभूव । समाधिमरणेन धनकीर्तिमुनिः सर्वार्थसिद्धि जगामेति भात्रः । श्रीमतिरनङ्गसेना च कल्पान्तरसंयोज्यं षोडशस्त्रर्गेषु केनचिदन्यतमेन कल्पान्तरेण स्वर्गान्तरेण संयोज्यं देवसायुज्यं देवपदसंयोगम् अभजत् । भवति चात्र श्लोकः सर्वार्थः । पञ्चकृत्वः इति - किलेत्यागमे । आगमे इति कथितमिति भावः । पुरा एकस्य मत्स्यस्य पञ्चकृत्वः पञ्चवारम् अहिंसनात् पञ्चवारम् अभयदानात् घनकीर्तिः पञ्चापदः पञ्च संकटानि अतीत्य उल्लंघ्य, श्रियः पतिः राजलक्ष्म्याः पति: स्वामी अभवत् ॥ ३६३॥ इत्युपा सकाध्ययने अहिंसा फळ । वलोकनो नाम षट्विंशः करूपः ॥ २६ ॥ २७. स्तेयफलप्रलपनो नाम सप्तविंशः कल्पः । [ पृष्ठ १६६ ] अदत्तस्येति- - अदत्तस्य वित्तस्वामिना यत्र समर्पितं तस्य परस्वस्य परकीयधनस्य ग्रहणं स्तेयं चौर्यम् उच्यते । परं सर्वभोग्यात् सकलैः जनैः स्थिरः आगन्तुभिश्च भोक्तुं योग्यात् तोयतृणादितः भावात् जलतृणादितः पदार्थात् अन्यत्र तत् स्तेयम् उच्यते । जलतुणादीनां सर्वभोग्यत्वात् न तद्ग्रहणं चौर्यम् । तत्र स्वस्वामिकत्वाभावात् ॥ ३६४ ॥ ज्ञातीनामिति - ज्ञातीनां दायादानाम् अत्यये मरणे तैः अदत्तमपि धनं ग्राह्यम् इति संमतम् । तु अन्यथा जीवतां ज्ञातीनां निवेशेन दुरभिप्रायेण राजवर्चसां धनं गृह्यते चेत् व्रतक्षतिः अचौर्यव्रतनाशः स्यात् । जीवतां ज्ञातीनां निदेशेन इदं त्वं गृहाणेति दत्तं चेत् चौयं न भवति ।। ३६५ ॥ संक्लेशेति - संक्लेशाभिनिवेशेन रागाद्यावेशेन आर्त रौद्राभिप्रायेण वा यत्र स्वपराश्रिते रायि धने प्रवृत्तिः स्यात् १. 'ब' प्रती सर्वार्थः इति नास्ति 'क' प्रती च नास्ति सर्वार्थः ।

Loading...

Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664