Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 528
________________ ४०६ पं० जिनदासविरचिता [पृ० १३१व्यमशत् । तिलसर्पपप्रमितस्यापि हि पिशितस्य तिलप्रमाणस्य सर्षपप्रमाणस्य तन्तुभः प्रमाणस्यापि मांसस्य प्राशने भक्षणे स्मृतिषु महाव्रतविपत्तयः श्रूयन्ते । स्मृतिग्रन्येषु महाव्रतस्य अहिंसाव्रतस्य विपत्तयः दोषाः प्रतिपाद्यन्ते । मातङ्गोसंगे च मृतिनिकेतनं मरणचिह्न प्रायश्चेतनम् । देहान्ताख्यं प्रायश्चित्तम् । य एवंविधां सुरां पिबति न तेन सुरा पोता भवति इति निखिलमखशिखामणौ सकलयज्ञेषु च डामणिरिव श्रेष्ठे सौत्रामणिनामयज्ञे मदिरास्वादाभिसंधिरनुमतविधिरस्ति । मद्यप्राशनस्य अभिलाषा चेत् तत्पानं विधेयम् इति आगमस्य वेदस्य अनुमतिर स्ति । यश्च पिष्टोदकगुडधातकीप्रायः गोधूमादिकं चूर्ण पिष्टम्, उदकं जलम्, गुडः इक्षुपाकः धातकीसोधुपुष्पोप्रभृतिभिः वस्तुकायैः वस्तूनां कार्यः अवयवः सुरा मद्यं संधोयते निर्मीयते । तान्यपि वस्तूनि विशुद्धान्येव शुचिन्येव इति चिरं दीर्घकालं विचार्य अनार्यविद्याविधानः अनार्या अक्षरम्लेच्छास्तेषां विद्या वेदः तस्य विधानम् अनुसरणं यस्य सः विहितमदिराभक्षणः तन्माहात्म्यात् मदिरामप्रभावात् । आविर्भूतमनोमहामोहः प्रकटीभूतचित्तमहामोहभावः कौपीनं पुरुषलिङ्गाच्छादनवसनम् अपहाय त्यक्त्वा हारहरव्यवहारातिलघितमातङ्गिकागीतानुगतकरतालिकाविडम्बनावसरो हारहराव्यवहारेति द्राक्षासंजातमद्यविशेषस्य व्यवहारेण पानेन अतिलचिता मदमत्ताः या मातङ्गिकाः चाण्डाल्यस्तासां गीतानुगता गानमनुसता याः करतालिकाः हस्ततालिकाः तासां विडम्बनस्य अनुकरणस्य अवसरो यस्य स एकपाद्विजः पिशाचाविष्टदेह इव आनीतानेकविकारः प्रकटीकृतकाममदादिभावः । पुनः बुभुक्षेति-चुभुक्षा क्षुत् सा एव आशुशुक्षणिः अग्निः तेन क्षीणं कुक्षिकुहरमेव कुहरं बिलं यस्य सः तरसमपि मांसमपि भक्षितवान् खादितवान् । व्यक्तीभवदसह्योत्कटकामविकारः मातङ्गी कामितवान बभजे। भवति चात्र श्लोकः हेतशद्धरिति-हेतुशद्धेः यस्य कारणानि शद्धानि तद्वस्तु भक्षणाहम इति श्रुतेर्वेदस्य वाक्यात् पीतमद्यः कृतमद्यपानः एकपात् ब्राह्मणः मूढमानसो भूत्वा मांसमातङ्गिकासंभोगम् अकरोत् ॥२७७॥ इत्युपासकाध्ययने मद्यप्रवृत्तिदोषदर्शनो नाम द्वाविंशः कल्पः ॥२२॥ २३. मद्यनिवृत्तिगुणनिदानो नाम त्रयोविंशतितमः कल्पः [पृष्ठ १३१-१३३ ] श्रयतां मद्यनिवृत्तिगुणस्योपाख्यानम्-अशेषेति-अशेषाश्च ता: न्यायव्याकरणादिविद्याः तेषां वैशारा नैपुण्यं तस्य मदेन मत्ताः सगर्वा ये मनीषिण: विद्वांसःत एव मत्तालयः क्षीबभ्रमराः तेषां कुलं वन्दं तस्य केल्य क्रीडाय कमलनाभिः कणिकेव तस्यां मध्यकोशसदशायां वलभ्यां पुरि । खात्रचारित्रशोलः करवालः, खातं खननं तस्य चरित्रं कार्य खननकार्य तत् शीलं यस्य धनार्थ जनधनस्थानखननस्वभाव: चौरकर्म कुर्वाणः करवालो नाम चौरः । कपाटोद्घाटनपटुः बटुः पिहिताररोद्घाटननिपुणः वटुनामस्तेनः महानिद्रासंपादनकुशलः धूतिलः दीर्घस्वापोत्पादनचतुरो धूर्तिलाभिधश्चौरः। परगोपायितद्रविणदेशविशारदः शारदः, धनिक\पायितं भूमिभित्त्यादिषु निह्न तं यद्दविणं धनं तस्य देशः प्रदेशस्तस्य ज्ञाने विशारदः चतुरस्रः विशारदो नाम दस्युः । खरपटागमविलासः कृकिलासः 'सधनः हन्तव्यः । गर्भिणी हन्तव्या' इति प्रतिपादके खरपटागमे विलासश्चातुर्य यस्य स कृकिलासो नाम मोषकः । एते पञ्च मलिम्लुचाः पाटच्चराः स्तेनाः प्रतिपन्नपरस्परप्रीतिप्रपञ्चाः स्वीकृतान्योन्यस्नेहविस्ताराः। स्वव्यवसायसाहसाम्यां निजोद्योगबलात्काराभ्याम् ईश्वरशरीरार्धवासिनी महादेव देहावसनशीला भवानीमपि पार्वतीमपि, मुकुन्दहृदयाश्रयधियं श्रियमपि मकून्दः कृष्णस्तस्य हृदयं मनः वक्षःस्थलम् स एवाश्रय आधारः ममेति बुद्धियुक्तां श्रियं लक्ष्मीम् अपि, कात्यायनीलोचनासंजनं कात्यायनी पार्वतो तस्या लोचनयोर्नेत्रयोः संजनं लेपनं यस्य तदञ्जनमपि कज्जलमपि हतुं समर्थाः। पश्यतोहराणामपि पश्यतो जनाननादत्य धनं हरन्तीति पश्यतोहराश्चौराः तेषामपि पश्यतोहराश्चौरा: तान चौरानपि चुराकौशल्येन वञ्चयन्तः । कृतान्तदूतानामपि यमदूतानामपि यमदूताः । कदाचित् एकस्यां निशि रात्री चेलक्रोपं वर्षति देवे वस्त्रार्द्रता यथा स्यात्तथा वष्टि कूर्वति पर्जन्ये । कज्जलपटलकालकायप्रतिष्ठासु सकलासु काष्ठास कज्जलानां पटलः समहः तद्वत्कालस्य यमस्य यः काय: शरीरं तद्वत प्रतिष्ठा स्थितिर्यासां तासु, सकलासु

Loading...

Page Navigation
1 ... 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664