Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
३१६ पं० जिनदासविरचिता
[पृ० १००मगरादोनि येन तेन अनीकेन सैन्येन सूत्रितं व्याप्तं सकलं महीतलं येन तथाभूतः स बलिमन्त्री दिग्विजयार्थम् उच्चचाल प्रतस्थे।
[पृष्ठ १००-१०१ ] अत्रान्तरे अस्मिन्प्रस्ताव । विहारवशात् भगवान् अकम्पनाचार्य: तेन महता मुनिनिकायेन साभुसमूहेन साध हास्तिनपुरम् अनुसृत्य, उत्तरदिग्विलासिन्यवतंसकुसुमतरी हेमगिरी उत्तरा चासो दिक सैव विलासिनी स्त्री तस्याः अवतंसरूपाणि भूषणरूपाणि यानि कुसुमानि तास्तरवो यत्र तस्मिन्हेमगिरौ। महावगाहायां महान् अवगाहो विस्तारेण अवकाशदानं यस्यां तथाभूतायां गुहायां चातुर्मासोनिमित्तं स्थिति बबन्ध । चतुर्णा मासानां समाहारः चातुर्मासी तस्या निमित्तेन तत्र स्थिति बबन्ध निवासं तेने ( बलिरपि हेमगिरिगुहायां ससंघम् अकम्पनसूरिमवलोक्य तं पीडयितुम् अग्निहोत्रमारेभे) बलिरपि निखिलेति-निखिलाश्च ते जलधयश्च समुद्राः तेषां रोषांसि तटानि तेषां सविधे समीपे यानि वनानि तेषु विनोदितानि वीरवधूनां हृदयानि येन सः । दिग्विजयं विधाय आगतस्तं भगवन्तम् अवबुध्य प्रत्यभिज्ञाय, चिरकालव्यवधानेऽपि दोर्घकालान्तरितेऽपि अलकविषनिषेक इव उन्मत्तः श्वा अलर्क उच्यते तस्य विषम, अलर्कविषम तस्य निपेकः क्षरणं दीर्घकालेनापि उन्मत्तश्वविषं जनं नितरां व्यथयति तथा जातप्रकोपोत्कर्षः स बलिस्तदपराधविधानाय पूर्वापराधशुद्धये वैरप्रतिनिर्यातनाय धराधीश्वरं पद्मं नपं प्राग्दत्तवरनिमित्तेन समाशाखाधं समा वत्सरः तस्य शाखा पण्मासकाल: तस्य अर्धम् यस्मिस्तत् । त्रिमासावधिकमिति भावः । किं तत् राज्यम्, कथंभूतम् आत्मैकशासनप्राज्यम् आत्मना एकेनैव शास्यते परिपाल्यते इति आत्मैकशासनं तस्मात प्राप्यं प्रचुरम् । अन्तःपुरप्रचारैश्वर्यमात्रसग्रतः पग्रतोऽभ्यर्थ्य । भूभुजां स्यगारमन्तःपुरं तत्र प्रचारः सञ्चारः तद्योग्यमेवैश्वयं वैभवं यत्र तत् च तत्सद्म यस्य तस्मात् पयतः पानपात् अभ्यर्थ्य वरोपलिप्सां कृत्वा मखमिपेण यज्ञव्याजेन मुनिसैन्याजन्योत्कर्ष चिकीर्षुः मुनीनां सैन्यं सङ्गः तेन सह आ समन्तात जन्योत्कर्ष युद्धोत्कर्ष चिकीर्षः मनिसमहं नितरां पीडयितुमित्यर्थः । मदनद्रव्याधिकरणः उपकरणः अग्निहोत्रमारेभे । मदनद्रव्यं धुस्तुरकः अधिकरणं खदिरो वा अधिकरणम् आधारो येषु तैः उपकरणः साधनः अग्निहोत्रं यज्ञम आरेभे चकार (मिथिलापरे जिष्णसरेः शिष्यो भ्राजिष्णाम नभसि कम्पमानं श्रवणनक्षत्रं वीक्ष्य क्वचिन्महामुनीनाम् उपसर्गों वर्तते इति जज्ञी) अत्रावसरे अस्मिन्प्रसङ्गे निजनिवासेन निजेनाश्रमेण पवित्रीकृते मिथिलापुरे जिष्णुसूरेः जिष्णुनामधेयस्याचार्यस्य अन्तेवासी शिष्यः भ्राजिष्णुर्नाम तमीमध्यसमये तस्या निशायाः मध्यः समयः वेला तस्याम् निशामध्यवेलायाम् । बहिविहितविहारः आश्रमाद्वाह्यप्रदेशे कृतगमनः समीरस्य वायोर्मार्गे पथि नभसीत्यर्थः । नक्षत्रवीथों ताराणां पङ्क्तिम् । लोचनालोकनसनाथां लोचनयोनत्रयोरालोकनेन वीक्षणेन सनायां यक्तां विदधानः । नेत्राभ्यां नक्षत्रवृन्दं वीक्षमाणः । चमरुसञ्चारचकितगात्रं चमूरोमगविशेषस्य सञ्चारः आगमनं तेन चकित भीतं गात्रं शरीरं यस्य कुरङगकलत्रमिव हरिणभार्येव तरलतारकाश्रयणं चञ्चलकनीनिकाधारं पक्षे चञ्चलोड़नाम आधारं श्रवणं तन्नामकं नक्षत्रम् । अन्तरिक्षे नभसि अवेक्ष्य लक्ष्यं बध्वा किलवमुच्चैरवोचत । "अहो न जाने क्वचिन्महामुनीनां महानुपसगों वर्तते।" एतच्च श्रमणशरणगणो श्रमणानां श्राम्यन्ति बाह्यम् अभ्यन्तरं च तपश्चरन्तीति श्रमणाः साधवस्तेषां शरणं रक्षकः स चासो गणी आचार्यः जिष्णसूरिः समाकर्ण्य प्रयुक्तावधिबोधः उपयुक्तावधिज्ञानः । तन्नगरगिरिगुहायाम् बलिदुविलसितमवधार्य बलिना कृतं दुविलसितं दुष्टविधानं निश्चित्य, गगनगमनप्रभावम् आकाशगमने प्रभावो माहात्म्यं यस्य तं पुष्पकदेवं देशव्रतसेवं देशव्रतधारिणं क्षुल्लकम आकार्य आमन्त्र्य हंहो पुष्पकदेव, तव विक्रिय
धुर्यान्न तदुपसर्गविसर्गे सामर्यमस्ति । तव विक्रियःरभावात् ससंघाकम्पनसूरिण उपद्रवमोचने न क्षमतास्ति । ततस्तथाविद्धिवृद्धिरोचिष्णवे विष्णवे उपसर्गमोचनसमर्थद्धिवृदया रोचिष्णवे भ्राजिष्णवे शोभमानाय तामदृष्टविशिष्टताभिवर्त्मस्थिताम् अपि अविदुपे अदृष्टविशिष्टता शुभदैवविशेषः तस्य अभिवम॑नि अभिमार्गे स्थितां शुभदेवविशेषेण प्राप्तामपि अविदुपे अजानते। निवेद्य कथयित्वा तदुपसर्गापवर्गायतस्योपसर्गविनाशाय । अस्मत्सर्गात् अस्माकमादेशात् । नियोजयितव्यः प्रयोजयितुं योग्यः ।" पुष्पकदेवः त्रिदशोचितचरणसेवस्य त्रिदशा देवास्तः उचिता कर्तु योग्या चरणसेवा यस्य तस्य महर्षेः भाषिताद्वचनात् तं देशमासाद्य विष्णुमुनये तथाविधदिवृत्ति तादशी विक्रियद्धिप्रवृत्तिम्, गुरुनिदेशवृति च गुरोनिदेश आज्ञा तस्य वृत्ति प्रवृत्ति च प्रतिपादयामास

Page Navigation
1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664