Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
-पृष्ठ १०५] उपासकाध्ययनटीका
३६६ अनुकुर्वता चरणेन पादेन । क्षोभितान्तरिक्षचरपुरकक्षः क्षोभिताः क्षोभं प्रापिताः अन्तरिक्षचराणां नभोगानां पुरकक्षाः नगरविभागा येन । किन्नरामरखचरचारणादिवन्दैः किन्नरामराः व्यन्तरदेवविशेषः । खचराः नभोगा विद्याधराः। चारणादयो देवविशेषाः तेषां वन्दः समूहः, वन्द्यपादारविन्दः प्रणम्यमानचरणकमलः । संयतजनोपकारसारस्वकीदिवृद्धिपरितोषितमनीषः व्यन्तरानिमिषः संयतजनो निर्ग्रन्थमुनिगणः तेषु उपकारे सारभूता समर्था या स्वकोया ऋद्धिवृद्धिः वैक्रियिकशरीरदिवृद्धिः, तया परितोषिता आह्लादं नीता मनीषा बुद्धिर्येषां तैः । व्यन्तरानिमिषैः व्यन्तरसुरैः । अकारणखलतास्थल निर्हेतुकदुष्टतायाः स्थानभूतं बलिं सबान्धवं शुक्रबृहस्पतिप्रह्लादसहितम् अबन्धयत् । प्रावेशयच्च सदेहं रसातलगेहम् । भवति चात्र श्लोकः-वत्सल: संयतजनस्नेहल: महापासुतो महापअनुपतनयः विष्णुः हास्तिननगरे बलिमन्त्रिविहितं विघ्नं शमयामास निषदयाञ्चकार ॥ २२२ ॥
इस्युपासकाध्ययने वात्सल्यरचनो नाम विंशतितमः कल्पः ॥ २० ॥
२१. रत्नत्रयस्वरूपनिरूपणो नामैकविंशतितमः कल्पः [पृष्ठ १०४-१०५] एवं सम्यग्दर्शनस्याष्टाङ्गानां स्वरूपं तत्कथाश्च सूरिवरेण कथिताः। अधुना 'सम्यग्दर्शनोत्पत्तिकारणानि. तद्भदाश्च निगद्यन्ते सूरिणा निसर्ग इति-तदाप्तो सम्यग्दृष्टेः आप्ती प्राप्तौ । निसर्गः इति–एक कारणम् । अधिगमो वा तत्प्राप्ती कारणम् । इति कारणयुगलं तत्प्राप्तेर्भवति । यदा अल्पप्रयासात् पुरुषश्चतुर्गतिजः संज्ञी पञ्चेन्द्रियो जीवः सम्यक्त्व भाग भवति तदा तस्य तत्सम्यक्त्वं निसर्गात जातमिति । यदा च अनल्पप्रयासतः सम्यक्त्वं लभ्यते तेन तदा तस्य तत् अधिगमजं ज्ञेयम् ॥ २२३ ।। उक्तं च-आसन्नभव्यतेति-रत्नत्रयाविर्भावयोग्यो जीवो भव्यः, कतिपयभवप्राप्यनिर्वाणपदः आसन्नः । आसन्नश्चासौ भव्यश्चासन्नभव्यस्तस्य भाव आसन्नभव्यता। कर्महानिः मिथ्यात्वादीनां सम्यक्त्वप्रतिबन्धककर्मणां यथा सम्भवमुपशमः, क्षयोपशमः क्षयो वा। संज्ञित्वं शिक्षाक्रियालापोपदेशग्राहित्वम्। संज्ञा अस्यास्तीति संज्ञी संजिनो भावः संज्ञित्वम् । शुद्धपरिणामाः एते अन्तरङ्गहेतवः सम्यक्त्वस्य । बाह्योऽपि उपदेशकादिश्च सम्यगुपदेशको गुर्वादिः। आदिशब्देन जातिस्मरणजिनप्रतिमादर्शनादिकानि गह्यन्ते । एतान् हेतूनवाप्य जीवः सम्यग्दष्टिर्भवति ।। २२४ ॥ एतदुक्तं भवति-अस्यैवं विवरणं भवति-कस्यचिदासनभव्यस्य तनिदानेति-सम्यक्त्वप्राप्तियोग्यद्रव्यक्षेत्रकालभावभवसंपदासेव्यस्य सनाथस्य । विधूतेतिसम्यक्त्वप्रतिबन्धकमिथ्यात्वतिमिरादूरनिर्गतस्य । आक्षिप्तेति-गृहीव शिक्षाक्रियालापचतुरेन्द्रियान्तःकरणसंबन्धस्य । नवं मृत्तिकादिभाण्ड लशुनादिदुर्वासनागन्धरहितं भवति तथा मिथ्यात्ववासनासंभृतपाषण्डिजनगन्धरहितस्य शीघ्रमेव यथावस्थितपदार्थस्वरूपज्ञानकारणयुगलात्, स्फाटिकरत्नरचितदर्पणसदृशस्य । पूर्वभवश्रवणात् संजातजातिस्मरणेन वा । वेदनानुभवनेन वा । धर्मश्रवणेन वा । जिनप्रतिमादर्शनेन वा। महामहोत्सवावलोकनेन वा । महदिप्राप्तमुनीश्वरनिहालनेन वा। नरेषु देवेषु वा सम्यग्दर्शनप्रभाववैभवदर्शनेन वा। अन्येन केनचिढेतुना, विचारवनेषु मनोविहारेणापि खेदम् अप्राप्नुवन्, यदा जीवादिवस्तुषु याथात्म्यं ज्ञात्वा श्रद्धानं भवति तदा प्रयोक्ता आयासं कष्टं नानभवति । यथा शकाः शालयः अनायासेन लयन्ते स्वय शिक्ष्यन्ते चतुरमतयः स्वयमेव, इत्यादिवत्तन्निसर्गात्सम्यक्त्वं जातमिति प्रोच्यते । यदा तु अव्युत्पन्नता, संशयः विपर्ययश्च ज्ञाने उद्भवन्ति, तदा अधिमुक्तियुक्तिसूक्तिसंबन्धसविषस्य मुक्ती मुक्तिविषये मुक्तिम् अधिकृत्य वा अधिमुक्ति तस्मिन् जीवस्य कर्माष्टकरहितशुदस्वरूपे युक्तियुक्ताः सूक्तीः श्रुत्वा, तच्छ्रवणात् जातसम्यग्ज्ञानसंबन्धस्य प्रमाणनयनिक्षेपानुयोगोपयोगावगाह्येषु सकलजीवादिषु वस्तुषु ऊहापोहरूपेण परीक्षणात्, अतिक्लेशं प्राप्य निःशेषदुराशयविनाशात्, सकलमिथ्याज्ञानविनाशात्, सम्यग्ज्ञानसूर्यकरः तत्त्वेषु रुचिः श्रद्धानं संजायते, तदा विधातुरायासहेतुत्वात् कार्यकारिणः संक्लेशकारणत्वात् मया निर्मापितोऽयं हारः सूत्रानुसारेण, मयेदम्, संपादितम् आभूषणं रत्नरचनाश्रयम् इत्यादिवत् तदा अधिगमात्प्रादुर्भूतं सम्यग्दर्शनम् इत्युच्यते । उक्तं च अबुद्धिपूर्वापेक्षायामिति-अतकितोपस्थितम् अनुकूलं प्रतिकूलं वा दैवकृतम् । तत्र

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664