Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
३६८ पं० जिनदासविरचिता
[पृ०१०३यजमान, विधीयतामदकधारोत्तरप्रवृत्तिवत्तिः। चेदेवं ब्रवीषि, महादरपात्र यजमान, उदकधारया हस्ते जलधारापातादनन्तरं प्रवृत्तिर्यस्या एतादृशी वृत्तिः संकल्पितदानं विधीयताम् क्रियताम् । बलिः प्रबला महतीम् आलू कमण्डलुम् आदाय गृहीत्वा । 'द्विजाचार्य, प्रसार्यतां हस्तः इत्युक्तवति, शुक्रः संक्रन्दनमिव कुलिशनिकेतनम, यथा संक्रन्दनः इन्द्रः कुलिशनिकेतनम, कुलिशं वज्रम्, निकेतनं ध्वजो यस्य एवंभूतो वर्तते । तथा, हस्तोऽपि कूलिशनिकेतनः कुलिशं वज्रं निकेतति निवसति अस्मिन्निति कुलिशनिकेतनस्तम् । पुनः कथंभूतं हस्तम् । प्रासादमिव कलशाह्लादम, प्रासादो यथा कलशेन ह्लादते तथा हस्तोऽपि कलशेन कुम्भाकाररेखाभिलदिते। जलाश्रयमिव मत्स्याश्रयम, यथा जलाशयः मत्स्यानाम् आश्रयः आधारभूतः तथा हस्तोऽपि मत्स्याकाररेखाभिर्युतः, सरिनाथमिव शङ्खसनाथम्, सरिनाथः समुद्रः स शखैः भूतस्तिष्ठति तथा हस्तोऽपि शङ्खचिह्नन शोभते । विरहिणीवासरगणनकुड्यप्रदेशमिव ऊर्ध्वरेखावकाशम्, यथा विरहिणी स्ववल्लभवियोगदिनगणनाय कुड्यप्रदेशे भित्तो ऊर्ध्वरेखा रचयति तथायं हस्तोऽपि ऊर्ध्वरेखाणाम् अवकाशेन शोभते । नारायणमिव चक्रलक्षणम् यथा नारायणः कृष्णः चक्रलक्षणेन सुदर्शनचक्रेण लक्ष्यते तथा हस्तोऽयं चक्राभिधेन सामुद्रिकचिह्नन विराजते। यज्ञोपकरणमिव यवाधिकरणम्, यथा यवा: यज्ञोपकरणं साधनमभिधीयते यज्ञे यवा अग्नौ हयन्ते तथा हस्तोऽपि अङगष्ठमध्ये यवाकाररेखायतो भवति । जलयानपात्रमिव निश्छिद्रतामत्रम जलयानपात्रं नौका तद्यथा नीरन्ध्रतापात्रं भवति तथा हस्तोऽपि निश्छिद्राङगलियती भाति । स्तम्बरमकरमिव दीर्घाङ गलिप्रसरम् यथा स्तम्बेरमो गजः तस्य करः शुण्डा स करो यथा दीर्घो भवति तथा हस्तोऽपि दीर्घाणां पञ्चाङगुलीनां प्रसरेण शोभते । वंशकिसलयमिव आनुपूर्व्या प्रवृत्तपर्वसञ्चयम्, यथा वंशस्य वेणोः किसलयं पल्लवः आनुपूयं पूर्वम् अग्रम् अनुसत्येति आनुपूर्व्य तेन प्रवृत्तः पर्वणां वेणुग्रन्थीनां सञ्चयो यस्मिन् वेणी यत्र यत्र ग्रन्थयो वर्तन्ते ताभ्यः किसलयोत्पत्तिर्भवति तथा अत्र हस्तकिसलयमपि अङ्गुलिग्रन्थिसहितं भवति । कमलकोशमिव अरुणप्रकाशनिवेशम् । यथा कमलस्य कोशः कणिका अरुणप्रकाशस्य निवेशेन पाटलायाः कान्त्याः निवेशेन स्थित्या शोभते तथा हस्तोऽपि ताम्रया कान्त्या कमलकोश इव विराजते । विद्मभङ्गाभोगमिव स्निग्धपाटलनखरा विद्माणां भगो रचना तस्या आभोगः विस्तारः स यथा स्निग्धस्ताम्रश्च भवति तथा स्निग्धानि मसणानि पाटलानि ताम्राणि नखरामाणि यस्य एतादृशो वामन-विप्रस्य हस्तः शोभते, पुनः कथंभूतं हस्तं लक्ष्मीलताविर्भावोदयं लक्ष्मीः श्रीरेव लता वल्ली तस्याः आविर्भावस्य उत्पत्तेः उदयो उन्नतिर्यत्र । एतादृशं हस्तं शुक्र उपलक्ष्य दृष्ट्वा । खलु अयम् एवंविधपाणितलसंबन्धो गोधः पुरुषः परेषाम् अन्येषां याचिता। अन्येभ्यः परः याचनार्थ हस्तं न प्रसारयेत् किं तु अयम इतरर्याच्यो भवेत् इति वचनवकं वक्रोक्त्या ब्रुवन्तं शुक्रम् अवगणय्य बलि: स्वकीयां दत्ति दानं पादत्रयप्रमाणाया भूमेः उदकधारोत्तरां जलधाराया हस्तेऽपणानन्तरम् अकार्षीत् अकरोत् । तदनु स विष्णुमुनिः विरोचनविरोकनिकर इव विरोचनः सूर्यः तस्य विरोकाः किरणाः तेषां निकरः समूह इव अक्रमेण ऊर्ध्वम् अधश्च अनवधिवृद्धिपरः अनवधिः न अवधिर्मर्यादा यस्यां सा चासो वृद्धिः तस्यां परः अमर्यादोपचयतत्परः, सर्वतश्च उभयतः प्रवृत्तापगाप्रवाह इव प्रसतनदी जलविस्तार इव तिरः आसमन्ततः प्रसरत् वृद्धि प्राप्नुवदेहो यस्य स विष्णुमुनिः एकं कायधरं कायं शरीरं धरतीति कायधरः पाद इति भावः एक पादम् अकूपारवज्रवेदिकायाम् अकूपारो लवणसमुद्रः तस्य वज्रमय्यां वेदिकायां निधाय स्थापयित्वा परं च क्रमम् अन्यं पादं चरणं चक्रवालपर्वतशिखरे । पुनस्तृतीयस्य चरणस्य मेदिनों भूमिम् अलभमानः तपनरथस्खलनसेतुना सुरसरित्तुरीयस्रोतोहेतुना इत्यादिविशेषणानि तृतीयपादस्यावगन्तव्यानि । कथंभूतेन पादेन सूर्यस्यन्दनभ्रंशे सेतुना आलिना सूर्यरथमार्ग-प्रतिबन्धकेनेत्यर्थः । पुनः कथंभूतेन पादेन सुरेति-सुराणां सरिद् गङ्गानदी तस्याः तुरीयश्चतुर्थः स्रोतः प्रवाहः तस्य हेतुना तदुत्पादकेनेव गङ्गा विष्णुपदोद्भूतंति पौराणिको कथा । संपादितेति-संपादितः उत्पादितः दिविजसुन्दरीणां देवाङ्गनानां चरणमार्गस्य निश्रेण्या: विभ्रमः संशयो येन । पुनः कथंभूतेन पादेन । समाचरितेतिसमाचरितः उत्पादितः खेचरीणां नभोगाङ्गनानां चेतःसंभ्रमो मनःसंशयो येन । पुनः कथंभूतेन भूगोलगौरव. परिच्छेदे तुलादण्डविडम्बनेन भूगोलस्य गौरवं गुरुता तस्याः परिच्छेदे माने तुलादण्डविडम्बनेन मानदण्डम्

Page Navigation
1 ... 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664