Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
३८० पं० जिनदासविरचिता
[पृ०८०भवति इति जातमतिः इत्युत्तान्तबुद्धिः (वारिषेणमुनिः स्वसुहृदं पुष्पदन्तं सुरदेवपावें दीक्षां ग्राहयामास ) तपःपरिग्रहेऽपि तपसः स्वीकारेऽपि, सहपांसुक्रोडितत्त्वात्, पुष्पदन्तेन वयस्येन सह बाल्ये आत्मनः धूलिक्रीडाकरणात, चिरपरिचयरूढप्रणयत्वाच्च दीर्घकालपर्यन्तं परिचयः अन्योन्यस्वभावपरिज्ञानं तेन रूतप्रणयत्वाच्च संजातदृढस्नेहत्वात् । आत्मनः प्रियसुहृदं स्वस्य प्रिय मित्रम्, कस्य नन्दनं शाण्डिल्यायनस्य शाण्डिल्यस्य अपत्यं शाण्डिल्यायनः तस्य नन्दनं पुत्रं कथंभूतस्य शाण्डिल्यायनस्य पुष्पवतीति-पुष्पवती भट्टिन्याः पुष्पवत्याख्याया ब्राह्मण्याः भर्तुः अमात्यस्य नन्दनं पुत्रं हस्तेन अवलम्ब्य, कथंभूतम् अमात्यनन्दनम् अभिनवेति-अभिनवो नूतनः स चासो विवाहश्च तस्मिन् कृतकरसूत्रबन्धनं पुष्पदन्ताभिधानम् एतदायतनानुगमनेन एतस्यायतनं गृहं तत् अनुसत्त्य गमनेन, स्वामिपुत्रत्वात् स्वामिनः श्रेणिकनपस्य पुत्रत्वात्, प्रतिपन्नमहामुनिरूपत्वाच्च स्वीकतमहावतियतिरूपत्वात. आचरिताभ्यत्यानम आचरितं विहितम् अभ्युत्थानं गौरवेण आसनादुत्थाय पूज्यं प्रति गत्वा तं स्वीकार्य आसने स्थापनादिकरणं येन तं पुष्पदन्तं हस्तेन गृहीत्वा, पुनः अस्मात् अस्मात्प्रदेशात् मां व्यावर्तयिष्यत्ययं भगवान् अधुना स्वगहं याहीति वदिष्यति पूज्योऽयमिति तेन सह अनुसरन्तम् अनुयान्तम् गुरूपान्तं गुरोर्दीक्षाचार्यस्य समीपम् अवाप्तवन्तम् आगतवन्तं ( तं दर्शयित्वा गुरोः दीक्षादाने सूचनां करोति स्म । ] "भदन्त, हे पूज्य एष खलु महानुभावतालतालम्बतरुः महासज्जनता एव लता तस्या आधारभूतो वृक्ष इव, स्वभावेनैव भवभीरुः संसारादु द्विग्नः भोगानुभवने सबकान्तायुपभोग्यपदार्थानुभवे विरक्तचित्तः, सर्वे च ते संयताः जैनमुनयः तेषां वृत्तं महाव्रतादिकं तस्य याचनार्थ भगवतः पूज्यस्य भवतः पादमूलं चरणसमीपम् आयातः आगतः।" इति सूचयित्वा भगवतोऽभ्यर्णे भगवतो दीक्षाचार्यस्य समीपे कामकरिकदालिकाबहभारमिव कामो मदनः स एव करी गजस्तस्य कदलिका ध्वजः तस्य बहभारः परिवारसमहमिव मूर्धजनिकर मर्धनि मस्तके जायन्ते इति मूर्धजाः शिरोरुहाः तेपां निकर समहम अपनाय्य लोचं कारयित्वा दीक्षां ग्राहयामास अजीग्रहत् । सोऽपि पुष्पदन्तः तदुपरोधाक्षेपात् तस्य वारिषेणमुनेः उपरोधाक्षेपात् आग्रहवशात् दीक्षामादाय, हृदयस्य मनसः अविदितवेदितव्यात अविदितम् अज्ञातं च तद्वेदितव्यं जीवादितत्त्वरूपं ज्ञेयं यस्य मनसः, अनहुगग्रहग्रसितत्वाच्च कामपिशाचेन ग्रसितत्वाच्च पीडितत्वाच्च । ( स वारिषेणषिणा रक्ष्यमाणोऽपि कान्तां ध्यायन् द्वादशसमा अनेषीत् ।) पजरपात्रः पतत्त्रीव पज्यते रुध्यते पक्ष्यादिर्यत्र तत्वजरं पक्ष्यादिबन्धनगहम् । तदेव पात्रम् आधेयधारणवस्तु तत्र पतत्त्रीव पक्षीव, यथा पक्षी पञ्जरे रुद्धवा रक्ष्यते यथा पुदाकुः सर्पः स मन्त्रशक्तिकोलितप्रतापो रक्ष्यते मन्त्रशक्त्या मन्त्रसामध्यन कीलितः स्तम्भित: प्रतापः विक्रमो यस्य । गाढबन्धनालानितो गाढबन्धनेन दृढबन्धनेनन आलानितः स्तम्भे बद्धः व्यालशण्डाल इव क्रूरगज इव चाहनिशं राबिन्दिवं वारिषेणषिणा रक्ष्यमाणः स निजकान्तां ध्यायति स्मैवम । अलकेति-स्मेरविम्बाधरायाः ईषद्धसनयुतो विम्बफलसमानो रक्तोऽधरी यस्याः सा तस्याः प्रियायास्तन्मुखं पुरत इव समास्ते । कथंभूतं मुखम्, अलकवलयरम्यम् अलकाश्चर्णकुन्तलाः ललाटसमीपस्थाः केशा अलकाः प्रोच्यन्ते, तेषां वलयन मण्डलेन में मम प्रियाया वदनं रम्यं सुन्दरं प्रतिभाति । पुनः कथंभूतं भ्रूलतानर्तकान्तं ध्रुवो लते इव भ्रूलते तयोः नर्तः नर्तनं तेन कान्तं सुन्दरम् । पुनः कथंभूतं नवनयन बिलासं नवो नूतनः नयनयोर्नेत्रयोविलासः शृङ्गारजो भावः यत्र तत् । पुनः कथंभूतं चारुगण्डस्थलं च चारुणी गण्डस्थले यस्य तत् पनः कथंभूतं मधुरवचनगर्भ मधुराणि वचनानि गर्ने यस्य तत् ॥१९७॥ कर्णावतंसेति-ये भूपा राजानः प्रणयिनीषु प्रेमवतीपु कान्तासु कर्णयोः श्रोत्रयोः अवतंसी भूषणे तन्वन्ति रचयन्ति, मुखमण्डनकं च कपोलयोरङ्गवल्लीं च रचयन्ति । रागात प्रेम्णः वक्षोजयोः स्तनयोः पत्रवल्लीलेखनम, जघने कटौ आभरणानि रशनादिकं च रचयन्ति, पादेष अलक्तकरसेन च यावकरसेन च चर्चनानि लेपनानि कुर्वन्ति त एव धन्या भाग्यवन्तः ॥१९८॥
[पृष्ठ ८०] लीलेति-प्रियस्यानुकृतिर्लीला, प्रियागमने स्त्रियो योऽङ्गे विशेषो जायते स विलासः आभ्यां विलसन्ती शोभमाने नयने एवं उताले नीलकमले यस्याः सा तस्याः पुनः कथंभूता सा। स्फारेतिस्फारः महान् यः स्मर: कामः तस्मात्तरलितश्चञ्चल: अधरपल्लवः ओष्ठकिसलयं यस्याः सा तस्याः, पुनः कथंभूता । उत्तुङ्गेति-उत्तुङ्गो उन्नतो पीवरी पुष्टौ च तो पयोधरो स्तनी तयोमण्डलं यस्याः सा तस्याः। मया

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664