Book Title: Shravak Pragnapti Prakaran
Author(s): Rajshekharsuri, Dharmshekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 13
________________ શ્રાવક પ્રજ્ઞપ્તિ ૨ [अर्हतो वन्दित्वा श्रावकधर्म द्वादशविधमपि । वक्ष्ये समासेन गुरूपदेशानुसारेण ॥ १ ॥] इह हि शिष्टानामयं समयो यदुत शिष्टाः क्वचिदिष्टे वस्तुनि प्रवर्तमानाः सन्त इष्टदेवतानमस्कारपूर्वकं प्रवर्तन्त इत्ययमप्याचार्यो न हि न शिष्ट इत्यतस्तत्समयप्रतिपालनाय, तथा श्रेयांसि बहुविघ्नानि भवन्तीति । उक्तं च श्रेयांसि बहुविघ्नानि भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां क्वापि यान्ति विनायकाः ॥) इदं च प्रकरणं सम्यग्ज्ञानहेतुत्वाच्छ्रेयोभूतं वर्तते अतो मा भूद्विघ्न इति विघ्नविनायकोपशान्तये, तथा प्रेक्षापूर्वकारिणः प्रयोजनादिविरहेण न क्वचित्प्रवर्तन्त इत्यतः प्रयोजनादिप्रतिपादनार्थं च, तत्र 'अरहंते वंदित्ता' इत्यनेनेष्टदेवतानमस्कारमाह, अयमेव विघ्नविनायकोपशमहेतुः । सावगधम्ममित्यादिना तु प्रयोजनादि त्रयमिति गाथासमुदायार्थः ॥ __ अवयवार्थस्तु अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हन्तीत्यर्हन्तस्तीर्थंकरास्तानर्हतः । वन्दित्वा अभिवन्द्य । श्रावका वक्ष्यमाणशब्दार्थाः, तेषां धर्मस्तं किंभूतं द्वादश विधाः प्रकारा अस्येति द्वादशविधस्तं द्वादशविधमपि संपूर्ण नाणुव्रताद्येकदेशप्रतिबद्धमिति । वक्ष्येऽभिधास्ये ततश्च यथोदितश्रावकधर्माभिधानमेव प्रयोजनं, स एवाभिधीयमानो ऽभिधेयं, साध्यसाधनलक्षणश्च संबन्धः, तत्र साध्यः प्रकरणार्थः साधनमिदमेव वचनरूपापन्नमिति । आह- यद्येवं नार्थोऽनेन पूर्वाचायैरेव यथोदितश्रावकधर्मस्य ग्रन्थान्तरेष्वभिहितत्वात्, उच्यते- सत्यमभिहितः प्रपञ्चेन, इह तु संक्षेपरुचिसत्त्वानुग्रहार्थं समासेण संक्षेपेण वक्ष्ये । किं स्वमनीषिकया, नेत्याह- गुरूपदेशानुसारेण गृणाति शास्त्रार्थमिति गुरुस्तस्मादुपदेशो गुरूपदेशस्तदनुसारेण, तन्नीत्येत्यर्थः ॥ १ ॥ ગાથાર્થ- અરહંતોને વંદન કરીને બારે ય પ્રકારના શ્રાવક ધર્મને ગુરુના ઉપદેશના અનુસાર સંક્ષેપથી કહીશ. (૧) ટીકાર્થ- અહીં શિષ્ટ પુરુષોનો આ આચાર છે કે ઈષ્ટ કાર્યમાં પ્રવૃત્તિ કરતા શિષ્ટ પુરુષો ઈષ્ટ દેવને નમસ્કાર કરવાપૂર્વક પ્રવૃત્તિ કરે છે. આ આચાર્ય (=શ્રીઉમાસ્વાતિ મહારાજા) પણ શિષ્ટ છે. આથી શિષ્ટાચારના પાલન માટે મંગલને જણાવનારી આ ગાથા કહી છે. તથા કલ્યાણકારી

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 370