________________
શ્રાવક પ્રજ્ઞપ્તિ ૨ [अर्हतो वन्दित्वा श्रावकधर्म द्वादशविधमपि । वक्ष्ये समासेन गुरूपदेशानुसारेण ॥ १ ॥] इह हि शिष्टानामयं समयो यदुत शिष्टाः क्वचिदिष्टे वस्तुनि प्रवर्तमानाः सन्त इष्टदेवतानमस्कारपूर्वकं प्रवर्तन्त इत्ययमप्याचार्यो न हि न शिष्ट इत्यतस्तत्समयप्रतिपालनाय, तथा श्रेयांसि बहुविघ्नानि भवन्तीति । उक्तं च
श्रेयांसि बहुविघ्नानि भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां क्वापि यान्ति विनायकाः ॥)
इदं च प्रकरणं सम्यग्ज्ञानहेतुत्वाच्छ्रेयोभूतं वर्तते अतो मा भूद्विघ्न इति विघ्नविनायकोपशान्तये, तथा प्रेक्षापूर्वकारिणः प्रयोजनादिविरहेण न क्वचित्प्रवर्तन्त इत्यतः प्रयोजनादिप्रतिपादनार्थं च, तत्र 'अरहंते वंदित्ता' इत्यनेनेष्टदेवतानमस्कारमाह, अयमेव विघ्नविनायकोपशमहेतुः । सावगधम्ममित्यादिना तु प्रयोजनादि त्रयमिति गाथासमुदायार्थः ॥ __ अवयवार्थस्तु अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हन्तीत्यर्हन्तस्तीर्थंकरास्तानर्हतः । वन्दित्वा अभिवन्द्य । श्रावका वक्ष्यमाणशब्दार्थाः, तेषां धर्मस्तं किंभूतं द्वादश विधाः प्रकारा अस्येति द्वादशविधस्तं द्वादशविधमपि संपूर्ण नाणुव्रताद्येकदेशप्रतिबद्धमिति । वक्ष्येऽभिधास्ये ततश्च यथोदितश्रावकधर्माभिधानमेव प्रयोजनं, स एवाभिधीयमानो ऽभिधेयं, साध्यसाधनलक्षणश्च संबन्धः, तत्र साध्यः प्रकरणार्थः साधनमिदमेव वचनरूपापन्नमिति । आह- यद्येवं नार्थोऽनेन पूर्वाचायैरेव यथोदितश्रावकधर्मस्य ग्रन्थान्तरेष्वभिहितत्वात्, उच्यते- सत्यमभिहितः प्रपञ्चेन, इह तु संक्षेपरुचिसत्त्वानुग्रहार्थं समासेण संक्षेपेण वक्ष्ये । किं स्वमनीषिकया, नेत्याह- गुरूपदेशानुसारेण गृणाति शास्त्रार्थमिति गुरुस्तस्मादुपदेशो गुरूपदेशस्तदनुसारेण, तन्नीत्येत्यर्थः ॥ १ ॥
ગાથાર્થ- અરહંતોને વંદન કરીને બારે ય પ્રકારના શ્રાવક ધર્મને ગુરુના ઉપદેશના અનુસાર સંક્ષેપથી કહીશ. (૧)
ટીકાર્થ- અહીં શિષ્ટ પુરુષોનો આ આચાર છે કે ઈષ્ટ કાર્યમાં પ્રવૃત્તિ કરતા શિષ્ટ પુરુષો ઈષ્ટ દેવને નમસ્કાર કરવાપૂર્વક પ્રવૃત્તિ કરે છે. આ આચાર્ય (=શ્રીઉમાસ્વાતિ મહારાજા) પણ શિષ્ટ છે. આથી શિષ્ટાચારના પાલન માટે મંગલને જણાવનારી આ ગાથા કહી છે. તથા કલ્યાણકારી