Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 13
________________ प्रथमसमुद्देशः। प्रणीतवचनेषु प्रामाण्यदर्शनात् । यद्भावाभावाभ्यां यस्योत्पत्यनुत्पत्ती तत् तत्कारणकमिति लोकेऽपि सुप्रसिद्धत्वात् । यदुक्तम्-" विधिमुखेन कार्यमुखेन वा गुणानामप्रतीतिरिति” तत्र तावदाप्तप्रणीतशब्दे न प्रतीतिगुणानामित्ययुक्तं आप्तप्रणीतत्त्वहानिप्रसङ्गात् । अथ चक्षुरादौ गुणानामप्रतीतिरित्युच्यते तदप्ययुक्तम् । नैर्मल्यादिगुणानामबलाबालादिभिरप्युपलब्धेः । अथ नैर्मल्यं स्वरूपमेव न गुणः तर्हि हेतोरविनाभाववैकल्यमपि स्वरूपविकलतैव न दोष इति समानम् । अथ तद्वैकल्यमेव दोषः तर्हि लिङ्गस्य चक्षुरादेर्वा तत्स्वरूपसाकल्यमेव गुणः कथं न भवेत् ? आप्तोक्तेऽपि शब्दे मोहादिलक्षणस्य दोषस्यामावमेव यथार्थज्ञानादिलक्षणगुणसद्भावमभ्युपगच्छन्नन्यत्र तथा नेच्छतीति कथमनुन्मत्तः ? अथोक्तमेव- शब्दे गुणाः सन्तोऽपि न प्रामाण्योत्पत्तौ व्याप्रियन्ते किन्तु दोषाभाव एवेति । सत्यमुक, किन्तु न युक्तमेतत् । प्रतिज्ञामात्रेण साध्यसिद्धरयोगात् । नहि गुणेभ्यो दोषाणामभाव इत्यत्र किञ्चिन्निबन्धनमुत्पश्यामोऽन्यत्र महामोहात् । अथानुमानेऽपि त्रिरूपलिङ्गमात्रजनितप्रामाण्योपलब्धिरेव तत्र हेतुरिति चेन्न । उक्तोत्तरत्वात् । तत्र हि त्रैरूप्यमेव गुणो यथा तद्वैकल्यं दोष इति नासमतो हेतुः । अपि चाप्रामाण्येऽप्येवं वक्तुं शक्यत एव । तत्र हि दोषेभ्यो गुणानामभावस्तदभावाच्च प्रामाण्यासत्त्वे अप्रामाण्यमौत्सर्गिकमास्त इत्यप्रामाण्यं स्वत एवेति तस्य मिन्नकारणप्रभवत्ववर्णनमुन्मत्तभाषितमेव स्यात् । किञ्च गुणेभ्यो दोषाणामभाव इत्यभिदधता गुणेभ्यो गुणा एवेत्यभिहितं स्यात् । भावान्तरस्वभावत्वादभावस्य । ततोऽप्रामाण्यसत्त्वं प्रामाण्यमेवेति नैतावता परपक्षप्रतिक्षेपः । अविरोधकत्त्वात् । तथा अनुमानतोऽपि गुणाः प्रतीयन्त एव, तथाहि- प्रामाण्यं विज्ञानकारणातिरिक्तकारणप्रभवं, विज्ञानान्यत्त्वे सति कार्यत्वात् अप्रामाण्यवत् । तथा प्रमाणप्रामाण्ये भिन्नकारण

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92