Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 17
________________ द्वितीयसमुद्देशः। वादिन्यास्तृतीयायाः प्रमाणयतायाः सद्भावात् । न च तस्या विसंवादादप्रामाण्यम् । दत्तग्रहादिविलोपापत्तेः । अथानुभूयमानस्य विषयस्याभावात् स्मृतेरप्रामाण्यं, न, तथापि अनुभूतेनार्थेन सालम्बनत्वोपपत्तेः । अन्यथा प्रत्यक्षस्याप्यनुभूतार्थविषयत्वादप्रामाण्यमनिवार्य स्यात् स्वविषयावभासनं स्मरणे - प्यवशिष्टमिति । किञ्च स्मृतरप्रामाण्येऽनुमानवार्ताऽपि दुर्लभा । तया व्याप्तेरविषयीकरणे तदुत्थानायोगादिति ॥ तत इदं वक्तव्यम्--" स्मृतिः प्रमाणम् , अनुमानप्रामाण्यान्यथानुपपत्तेरिति” सैव प्रत्यक्षानुमानस्वरूपतया प्रमाणस्य द्वित्वसंख्यानियमं विघटयतीति किं नश्चिन्तया ॥ तथा प्रत्यभिज्ञानमपि सौगतीयप्रमाणसंख्यां विघटयत्येव । तस्यापि प्रत्यक्षानुमानयोरनन्तर्भावात् । ननु तदिति स्मरणमिदमिति प्रत्यक्षमिति ज्ञानद्वयमेव । न ताभ्यां विभिन्न प्रत्यभिज्ञानाख्यं वयं प्रतिपद्यमानं प्रमाणान्तरमुपलभामहे । ततः कथं तेन प्रमाणसंख्याविघटनमिति तदप्यघटितमेव । यतः स्मरणप्रत्यक्षाभ्यां प्रत्यभिज्ञानविषयस्यार्थस्य गृहीतुमशक्यत्वात् । पूर्वोत्तरविवर्तवर्येकद्रव्यं हि. प्रत्यभिज्ञाविषयः । न च तत्स्मरणेनोपलभ्य(क्ष्य)ते तस्यानुभूतविषयत्वात् । नापि प्रत्यक्षेण तस्य वर्तमानविवर्तवर्तित्वात् ॥ यदप्युक्तम्-" ताभ्यां भिन्नमन्यत् ज्ञानं नास्तीति ।" अभेदपरामर्शरूपतया भिन्नस्यैवावमासनात् । न च तयोरन्यतरस्य वा भेदपरामर्शकत्वमस्ति विभिन्नविषययत्वात् । न चैतत्प्रत्यक्षेऽ. न्तर्भवत्यनुमाने वा तयोः पुरोऽवस्थितार्थविषयत्वेनाविनाभूतलिङ्गसम्मावितार्थविषयत्वेन च पूर्वापरविकारव्याप्येकत्वाविषयत्वात् । नापि स्मरणे, तेनापि तदेकत्वस्याविषयीकरणात् ॥ अथ संस्कारस्मरणसहकृतमिन्द्रियमेव प्रत्यभिज्ञानं जनयतीन्द्रियजं चाध्यक्षमेवेति न प्रमाणान्तरमित्यपरः । सोऽप्यतिबालिश एव । स्वविषयाभिमुख्येन प्रवर्त्तमानस्येन्द्रियस्य सहकारिशतसमवधानेऽपि विषयान्तरप्रवृत्तिलक्षणातिशयायोगात् । विषयान्तरं चातीतसाम्प्रति

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92