Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 39
________________ तृतीयसमुद्देशः। वस्थावतारात् । आगमादेरपि भिन्नविषयत्वेन सुप्रसिद्धत्वान्न ततोऽपि तत्प्रतिपत्तिरित्यारेकायामाह-- तत्तिनिर्णयः ॥ १९ ॥ तर्काद्यथोक्तलक्षणादूहात्तन्निर्णय इति । अथेदानीं साध्यलक्षणमाह--- ___ इष्टमबाधितमसिद्धं साध्यम् ॥ २० ॥ अत्रापरे दूषणमाचक्षते--आसनशयनभोजनयाननिधुवनादेरपीष्टत्त्वात्त. दपि साध्यमनुषज्यत इति । तेऽप्यतिबालिशा अप्रस्तुतप्रलपित्वात् । अत्र हि साधनमधिक्रियते । तेन साधनविषयत्वेनेप्सितमिष्टमुच्यते । इदानीं स्वाभिहितसाध्यलक्षणस्य विशेषणानि सफलयन्नसिद्धविशेषणं समर्थयितुमाह संदिग्धविपर्यस्ताव्युत्पन्नानां साध्यत्वं यथा स्यादित्यसिद्धपदम् ॥ २१ ॥ तत्र सन्दिग्धं स्थाणुर्वापुरुषो वेत्यनवधारणेनोभयकोटिपरामर्शसंशयाकलितं वस्तु उच्यते । विपर्यस्तं तु विपरीतावमासिविपर्पयज्ञानविषयभूतं रजतादि । अव्युत्पन्नं तु नामजातिसंख्यादिविशेषापरिज्ञानेनानिीतविषयानध्यवसायग्राह्यम् । एषां साध्यत्वप्रतिपादनार्थमसिद्धपदोपादानमित्यर्थः । अधुनेष्टाबाधित विशेषणद्वयस्य साफल्यं दर्शयन्नाहअनिष्टाध्यक्षादिबाधितयोः साध्यत्वं माभू. दितीष्टाबाधितवचनम् ॥ २२ ॥ अनिष्टो मीमांसकस्यानित्यः शब्दः प्रत्यक्षादिबाधितश्चाश्रावणत्वादिः । आदिशब्देनानुमानागमलोकस्ववचनबाधितानां ग्रहणम् । तदुदाहरणं चाकिञ्चित्करस्य हेत्वाभासस्य निरूपणावसरे स्वयमेव ग्रन्थकारः प्रपञ्चयिष्यतीत्युपरम्यते । तत्रासिद्धपदं प्रतिवाद्यपेक्षयैव, इष्टपदं तु वाद्यपेक्षयति विशेषमुपदर्शयितुमाह

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92