Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
तृतीयसमुद्देशः ।
४७
रसादेक सामग्यनुमानेन रूपानुमानमिच्छारिष्टमेव किंश्चित्कारणं हेतुर्यत्र सामर्थ्याप्रतिबन्धकारणान्तरावैकल्ये ॥ ६० ॥
आस्वाद्यमानाद्धि रसात्तज्जनिका सामग्न्यनुमीयते । ततो रूपानुमानं भवति । प्राक्तनो हि रूपक्षणः सजातीयं रूपक्षणान्तरलक्षणं कार्य कुर्वन्नेव विजातीयं रसलक्षणं कार्य करोतीति रूपानुमानमिच्छद्भिरिष्टमेव किञ्चित्कारणं हेतुः प्राक्तनस्य रूपक्षणस्य सजातीयरूपक्षणान्तराव्यभिचारात् ॥ अन्यथा रससमानकालरूपप्रतिपत्तेरयोगात् । नानुकूलमात्र मन्त्यक्षणप्राप्तं वा कारणं लिङ्गमिष्यते । येन मणिमन्त्रादिना सामर्थ्यप्रतिबन्धात्कारणान्तरवैक-1 ल्येन वा कार्यव्यभिचारित्वं स्यात् द्वितीयक्षणे कार्यप्रत्यक्षीकरणेनाऽनुमानानर्थक्यं वा । कार्याविनाभावितया निश्चितस्य विशिष्टकारणस्य छनादेर्लिङ्गत्वेनाङ्गीकरणात् यत्र सामर्थ्याप्रतिबन्धः कारणान्तरावैकल्यं निश्चीयते तस्यैव:: लिङ्गत्वं नान्यस्येति नोक्तदोषप्रसङ्गः । इदानीं पूर्वोत्तरचरयोः स्वभाव कार्यकारणेष्वनन्तर्भावाद्भेदान्तरत्वमेवेति दर्शयति—
न च पूर्वोत्तरचारिणोस्तादात्म्यं तदुत्पत्तिर्वा कालव्यवधाने तदनुपलब्धेरिति ॥ ६१ ॥
तादात्म्यसम्बन्धे साध्यसाधनयोः स्वभावहेतावन्तर्भावः, तदुत्पत्तिस -- म्बन्धे च कार्ये कारणे वाम्तर्भावो विमान्यते । न च तदुभयसम्भवःकालव्यवधाने तदनुपलब्धेः । सहभाविनोरेव तादात्म्यसम्भवादनन्तरयो रेक पूर्वोत्तरक्षण यो हेतुफलभावस्य दृष्टत्वात् । व्यवहितयोस्तदघटनात् । ननु . कालव्यवधानेऽपि कार्यकारणभावो दृश्यत एव । यथा जाग्रत्प्रबुद्धदशामा -- विप्रबोधयोर्मरणारिष्टयोर्वेति । तत्परिहारार्थमाह-
*
भाव्यतीतयोर्मरणजाग्रह। घयोरपि नारि

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92