Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
षष्ठसमुद्देशः। अस्याप्यसिद्धता कथमित्त्यारेकायामाहतस्य बाष्पादिभावेन भूतसंघाते संदेहात् ॥ २६॥ तस्येति मुग्धबुद्धिंप्रतीत्यर्थः । अपरमसिद्धभेदमाहसांख्यम्पति परिणामी शब्दः कृतकत्त्वादिति ॥ २७ ॥ अस्यासिद्धतायां कारणमाह
तेनाज्ञातत्वादिति ॥ २८ ॥ तेन सांख्येनाज्ञातत्वात् , तन्मते ह्याविर्भावतिरोभावावेव प्रसिद्धौ नोत्पस्यादिरिति । अस्याप्यनिश्चयादसिद्धत्वमित्यर्थः । विरुद्धं हेत्वाभासमुपदर्शयन्नाह
विपरीतनिश्चिताविनाभावो विरुद्धोऽपरिणामी शब्दः कृतकत्त्वात् ॥ २९॥
कृतकत्वं ह्यपरिणामविरोधिना परिणामेन व्याप्तमिति । अनैकान्तिकं हेत्वाभासमाह
विपक्षेऽप्यविरुद्धवृत्तिरनैकान्तिकः ॥३०॥ अपिशब्दान्न केवलं पक्षसपक्षयोरिति द्रष्टव्यम् । स च द्विविधो विपक्षे निश्चितवृत्तिः शङ्कितवृत्तिश्चेति । तत्राचं दर्शयन्नाहनिश्चितत्तिरनित्यः शब्दः प्रमेयत्त्वात् घटवदिति ॥ ३१ ॥ कथमस्य विपक्षे निश्चिता वृत्तिरित्याशङ्कयाह
आकाशे नित्येऽप्यस्य निश्चयात् ॥ ३२ ॥ शङ्कितवृत्तिमुदाहरतिशङ्कितवृत्तिस्तु नास्ति सर्वज्ञो वक्तृत्वादिति ॥ ३३ ॥ अस्यापि कथं विपक्षे वृत्तिराशंक्यत इत्यत्राह---
सर्वज्ञत्वेन वक्तृत्वाविधादिति ॥ ३४ ॥ अविरोधश्च ज्ञानोत्कर्षे वचनानामपकर्षादर्शनादिति निरूपितप्रायम् । अकिञ्चित्करस्वरूपं निरूपयति--

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92